81013: अकृच्छ्रे प्रियसुखयोरन्यतरस्याम्

Padacheda: अकृच्छ्रे | S | 7 | 1 |

प्रियसुखयोः | S | 6 | 2 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The words प्रिय and सुख are repeated optionally when they mean ‘easily, without any difficulty’.

Vasu English Translation

The words प्रिय and सुख are repeated optionally when they mean ‘easily, without any difficulty’. The word कृच्छ्र means ‘difficulty and sorrow’, अकृच्छ्र means ‘without difficulty or sorrow, i.e. pleasantly’. Thus प्रियप्रियेण ददाति, सुखसुखेन ददाति, or प्रियेण ददाति, सुखेन ददाति = अतिप्रियमपि वस्त्व नायासेन ददाति ॥ That is, he gives with pleasure, without feeling it as a trouble. Why do we say “when meaning easily”? Observe प्रियः पुत्र: “beloved son”. सुखी रथः ॥

Kashika

प्रिय सुख इत्येतयोरन्यतरस्यां द्वे भवतोऽकृच्छे्र द्योत्ये। कृच्छं्र दुःखम्, तदभावोऽकृच्छ्रम्। प्रियप्रियेण ददाति। सुखसुखेन ददाति। प्रियेण ददाति। सुखेन ददाति। अखिद्यमानो ददातीत्यर्थः। अकृच्छ्र इति किम् ? प्रियः पुत्रः। सुखो रथः॥

Siddhanta Kaumudi

प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विर्वचने कर्मधारयवद्भावात्सुपि लुकि तदेव वचनम् । अतिप्रियमपि वस्त्वनायासेन ददातीत्यर्थः ॥

Balamanorama

अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् - अकृच्छ्रे । कृच्छ्रं-कष्टम् । अकृच्छ्रम्-अनायासः । तस्मिन्वर्तमानयोः प्रिय सुख इत्यनयोद्र्वे वा स्तः । कर्मधारयवद्भावादिति ।कर्मधारयवदुत्तरेषु॑ इत्यधिकारादिति भावः ।समासवच्च बहुल॑मित्यतः समासवदित्यनुवृत्तिस्तु न शङ्क्या, तस्य वार्तिकस्थत्वात्, एवं चप्रियेणे॑त्यस्यसुखेने॑त्यस्य च द्वित्वे सति कर्मधारयवत्त्वात्सुपोस्तृतीयैकवचनयोर्लुकि पुनः समुदायात्तृतीयैकवचनमिति फलितम् ।

Padamanjari

प्रियप्रियेणेति तृतीयैकवचनान्तस्य द्विर्वचने कर्मधारयवद्भावात् सुब्लुकि पुनस्तदेव वचनम् । अत्यन्तदयितमपि वस्त्वनायासेन ददातीत्यर्थः ॥

Nyaas

नञत्र विपक्षे वर्ततेऽधर्मानृतादिवत्। कृच्छ्रम्=दुःखम्, प्रयत्नः=प्रयास इत्यर्थः; स पुनः प्राणिधर्मः। कृच्छ्रविपक्षोऽकृच्छ्रम्; प्राणिधर्म एव, यस्मिन्? सति प्रयत्नमन्तरेणैव दानादिक्रियां सम्पादयति। तत्र वर्तमानयोः प्रियखशब्दयोद्र्वे भवतः। प्रियप्रियेण ददाति। विना प्रयासेन ददातीत्यर्थः। तृतयैकवचनान्तस्य द्विर्वचने कृते सुब्लकि च पुनस्तृतीयैकवचनमेव समासवद्भावेन भवति। प्रियः पुत्रः, सुखो रथः इति। नात्र प्रियसुखशब्दौ कृच्छ्रविपक्षे प्राणिधर्मविशेषे वर्तते, किं तर्हि? द्रव्ययोः। पुत्रो हि प्रीणातीति कृत्वा प्रिय इत्युच्यते, रथोऽपि सुखयतीत कृत्वा सुखः॥

Prakriyasarvasvam

अकृच्छ्रेऽर्थेऽनयोर्वा द्वे कर्मधारयवच्च तत् । <karika>प्रियप्रियेण गच्छन्तः प्रापुः सुखसुखेन ते ॥ ६४४ ॥</karika> विकल्पात् प्रियेण सुखेनेत्यपि । अकृच्छ्रेणेत्यर्थः ॥