81014: यथास्वे यथायथम्¶
Padacheda: यथास्वे | S | 7 | 1 |
यथायथम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The word यथायथम् is irregularly formed in the sense of ‘respectively, fitly, properly’.
Vasu English Translation¶
The word यथायथम् is irregularly formed in the sense of ‘respectively, fitly, properly’. What is one’s own nature, and whatever is natural to one, that is called यथास्व ॥ In this sense is formed यथायथ꣡म् there being doubling and neuter gender. It is an Indeclinable. As ज्ञाताः सर्वे पदार्था यथायथम् = यथास्वभावं “all objects have been known according to their respective nature”. सर्वेषां तु यथायथं यथास्मीयं ॥
Kashika¶
यो य आत्मा, यद् यदात्मीयम्, तत् तद् यथास्वम् तस्मिन् यथायथमिति निपात्यते। यथाशब्दस्य द्विर्वचनं नपुंसकलिङ्गता च निपात्यते। ज्ञाताः सर्वे पदार्था य॒था॒य॒थम्। यथा — स्वभावमित्यर्थः। सर्वेषां तु य॒था॒य॒थम्। यथात्मीयमित्यर्थः॥
Siddhanta Kaumudi¶
यथास्वम् इति वीप्सायामव्ययीभावः । योऽयमात्मा यच्चात्मीयं तद्यथास्वम् । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते । यथायथं ज्ञाता । यथास्वभावमित्यर्थः । यथात्मीयमिति वा ॥
Balamanorama¶
यथास्वे यथायथम् - यथास्वे यथायथम् । वीप्सायामिति । कार्त्स्न्येसंबन्धो वीप्सेत्युक्तम् । स्वशब्दार्थगतकार्त्स्न्ये द्योत्ये यथाशब्दस्य स्वशब्देनाऽव्ययीभाव इत्यर्थः । कृत्स्न श्चासौ स्वश्चेत्यस्वपदविग्रहः, नित्यसमासत्वात् । स्वशब्दस्तु आत्मात्मीयज्ञातिधनवाची । इह तु आत्मात्मीयवाच्येव गृह्रते, नतु ज्ञातिधनवाची, व्याख्यानादित्यभिप्रेत्य विग्रहवाक्यस्य फलितमर्थमाह — द्वे इति । ‘स्त’ इति शेषः । निपातनादिति भावः । न चनित्यवीप्सयो॑रित्येव वीप्सया द्वित्वमिह सिद्धमिति शङ्क्यम्, द्वित्वविषयस्य शब्दस्य लक्षणया कार्त्स्न्यविशिष्टे वृत्तावेव वीप्सायां द्विर्वचनविधानात् । अन्यथा ‘सर्वो घटः’ इत्यादौ सर्वशब्दस्यापि द्वित्वापत्तेरिति भावः । क्लीबत्वमिति ।यथा-यथा इति समुदायस्ये॑ति शेषः । अन्यथा अव्ययत्वादलिङ्गत्वं स्यादिति भावः । एवं च कृत्तद्वित्वस्य नपुंसकह्रस्वत्वं च फलितम् । यथायथं ज्ञातेति । अत्रज्ञाते॑ति तृन्नन्तम् ।तद्योगेन लोके॑ति षष्ठीनिषेधात्कर्मणि द्वितीया । तृजन्तत्वे तुयथायथस्य ज्ञाते॑त्येव ।
Tattvabodhini¶
यथास्वे यथायथम् - यीऽयमात्मेत्यादि । आत्मात्मीययोरपि स्वशब्दवाच्यत्वात् । यथायथमिति ।न लोके॑त्यनेन कृद्योगषष्ठीनिषेघः, ज्ञातेत्यस्य तृन्नन्तत्वात् ।यो य आत्मा॑इत्यर्ते विद्यमानयथायथशब्दस्यार्थमाह -यतास्वभावमिति ।आत्मा यत्नो धृतिर्बुद्धिः स्वबावो ब्राहृ वष्र्म चे॑त्यमरः ।
Padamanjari¶
‘यथास्वे’ इति’यथा’ सादृश्येऽ इति वीप्सायमव्ययीभावः । स्वशब्द आत्मवचनः, आत्मीयवचनो वेति दर्शयति । यो य आत्मेति । ज्ञातिधनवचनस्य तु ग्रहणं न भवति; द्विर्वचनस्य तत्रासमर्थत्वात् ॥
Nyaas¶
यथास्वम् इति। यथाऽसादृश्ये (2.1.7) इति वीप्सायामव्ययीभावः। स्वशब्दो हीहात्मवचनः, आत्मीयवचनो वा -इति दर्शयितुमाह -`यो य आत्मा इत्यादि। यथायथम् इति। ह्रस्वो नपुंसके (1.2.47) इति ह्यसवः॥
Prakriyasarvasvam¶
यथायथं भागान् गृह्णीध्वम् । यथास्वमित्यर्थः ॥
Sutra Prayogas¶
यथायथं (किरातार्जुनीयम्): यथास्वे यथायथम् इति निपातनाद्द्विर्भावो नपुंसकत्वं च।