Sutras 61 - 80¶
- 63061: इको ह्रस्वोऽङ्यो गालवस्य
- 63062: एक तद्धिते च
- 63063: ङ्यापोः संज्ञाछन्दसोर्बहुलम्
- 63064: त्वे च
- 63065: इष्टकेषीकामालानां चिततूलभारिषु
- 63066: खित्यनव्ययस्य
- 63067: अरुर्द्विषदजन्तस्य मुम्
- 63068: इच एकाचोऽम्प्रत्ययवच्च
- 63069: वाचंयमपुरंदरौ च
- 63070: कारे सत्यागदस्य
- 63071: श्येनतिलस्य पाते ञे
- 63072: रात्रेः कृति विभाषा
- 63073: नलोपो नञः
- 63074: तस्मान्नुडचि
- 63075: नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या
- 63076: एकादिश्चैकस्य चादुक्
- 63077: नगोऽप्राणिष्वन्यतरस्याम्
- 63078: सहस्य सः संज्ञायाम्
- 63079: ग्रन्थान्ताधिके च
- 63080: द्वितीये चानुपाख्ये