63067: अरुर्द्विषदजन्तस्य मुम्

Padacheda: अरुस्-द्विषस्-अजन्तस्य | S | 6 | 1 |

मुम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

मुम् is the augment added immediately after the final vowel of अरुस , द्विषत् and of a stem ending in a vowel unless it is an indeclinable, when the word formed by a खित् affix follows.

Vasu English Translation

मुम् is the augment added immediately after the final vowel of अरुस , द्विषत् and of a stem ending in a vowel unless it is an indeclinable, when the word formed by a खित् affix follows. Thus अरुन्तुदः, द्विषन्तपः, कालिंमन्या &c. See (3.2.35), (3.2.39), (3.2.83). The स् of अरुस् and the त् of द्विषत् are dropped by (8.2.23).

Why do we say ‘of अरुस् &c’? Observe विद्वन्मन्या ॥ Why do we say ‘not an Indeclinable’? Observe दोषामन्यमहः, दिवामन्यारात्रिः ॥ Why do we use the word अन्त in अजन्त, when merely saying अचः would have sufficed by the rule of tadanta-vidhi? This indicates that the shortening taught in the preceding sutra does not debar the मुम् augment, nor does मुम् debar the shortening. So that मुम् is added after the shortening has taken place.

Kashika

अरुस् द्विषद् इत्येतयोरजन्तानां च खिदन्त उत्तरपदे मुमागमो भवत्यनव्ययस्य। अरुंतुदः। द्विषंतपः। अजन्तानाम् — कालिंमन्या। अरुर्द्विषदजन्तस्येति किम्? विद्वन्मन्यः। अनव्ययस्येत्येव — दोषामन्यमहः। दिवामन्या रात्रिः। अन्तग्रहणं किम् ? कृताजन्तकार्य — प्रतिपत्त्यर्थम्। अतो ह्रस्वे कृते मुम्भवति॥

Siddhanta Kaumudi

अरुषोद्विषतोऽजन्तस्य च मुमागमः स्यात् खिदन्ते उत्तरपदे न त्वव्ययस्य । शित्त्वाच्छबादि । जनमेजयतीति जनमेजयः ।<!वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्यः खश उपसंख्यानम् !> (वार्तिकम्) ॥ वातमजा मृगाः ॥

Laghu Siddhanta Kaumudi

अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य। शित्त्वाच्छबादिः। जनमेजयतीति जनमेजयः॥

Balamanorama

अरुर्द्विषदजन्तस्य मुम् - अरुर्द्विषत् । अरुस्, द्वि,त्, अजन्त एषां समाहारद्वन्द्वात् षष्ठी । ‘अलुगुत्तरपदे’ इत्यधिकारादुत्तरपदे इति लभ्यते । ‘खित्यनव्ययस्य’ इत्यतः खितीत्यनुवृत्तम् । कितः प्रत्ययत्वात्तदन्तविधिः । तदाह — खिदन्ते उत्तरपदे इति । जनमेजय इति । जनान् एजयतीति विग्रहः । खशः शित्त्वात्सार्वधातुकत्वं ।शप्, गुणायादेशौ, पररूपम्,सुपो लुकि, मुम् । वातशुनीति । वार्तिकमिदम् । वात, शुनी, तिल, शर्ध एषां द्वन्द्वात्सप्तमी । अज, धेट्, तुद्, जहाति एषां द्वन्द्वात्पञ्चमी । यथासङ्ख्यमन्वयः । वातमजा इति । वातमजन्तीति विग्रहः । सुपो लुकि मुम् । अथ शुनीं धयतीति विग्रहे शुनीशब्दे उपपदे धेटः खशि शपि अयादेशे पररूपे शुनी धय इति स्थिते आह —

Tattvabodhini

अरुर्द्विषदजन्तस्य मुम् - अरुर्द्विषत् । वर्णग्रहणे तदन्तविधेः सिद्धावप्यन्तग्रहणं शुनिन्धय इत्यादौ ह्रस्वे कृते मुम्प्रवृत्त्यर्थम् । तथा हि अन्तः शब्दः समीपपरः, अञ्चाऽसावन्तश्चेति विग्रहः । निपातनाद्विशेषणस्य परनिपातः । समीपःखित्यनव्ययस्ये॑ति सूत्रेण विहितो योऽच् तदन्तस्य मुमिति व्याख्यायते । एवं चजनमेजय॑ इत्यादौस्वतो ह्रस्वेऽपि मुम्सिद्धये प्रथमं खितीति ह्रस्वः प्रवर्तनीय इत्यवधेयम् ।

Padamanjari

अरुन्तुद इति । विध्वरुषोस्तुदः इति खश्, तुदादित्वाच्छः, सकारात्पूर्वं मुमि कृते सकारस्य संयोगान्तलोपः । द्विषन्तप इति । द्विषत्परयोस्तापे इति खच्, खचि ह्रस्वः, मुमादि पूर्ववत् । विद्वन्मन्य इति । वसुस्रंसुध्वंसु इति दत्वम्, यरोऽनुनासिकेऽनुनासिको वा । अन्तग्रहणमनर्थकम्, वर्णग्रहणे सर्वत्र तदन्तविधेर्भावादित्यत आह अन्तग्रहणमित्यादि । समीपवचनोऽन्तशब्दः, अच्चासावन्तश्चेति अजन्तः, निपातनाद्विशेषणस्य परनिपातः । कः पुनरसौ पूर्वसूत्रे विहितो ह्रस्वः, तेन पूर्वपदस्य तदन्तविधिः एतदुक्तं भवति - योऽयमस्य सूत्रस्य समीपभूतो यः पूर्वसूत्रे विहितो ह्रस्वस्तदन्तस्य मुम् इति, यतो ह्रस्वे कृते मुम् भवतीति । एतेनैदपि निरस्तम् - मुम एव ह्रस्वेन बाधप्रसङ्ग इति । कथं तन्निमितकत्वान्मुमः ह्रस्वनिमितको ह्यएष मुम् भवति । यद्येवम्, स्तन्धयादौ यत्र ह्रस्वो न क्रियते तत्र मुम् न प्राप्नोति किं पुनः कारणमत्र ह्रस्वो न क्रियते प्रयोजनाभावात् । अस्ति प्रयोजनम्, किम् मुम् यथा स्यादिति । इदानीमेव ह्युक्तम् - ह्रस्वनिमितको मुमिति ॥

Nyaas

अरुन्तुदः इति। अरुस्तुदतीति विष्वरुषोस्तुदः (3.2.35) इति खश्? संयोगान्तलोपः, तुदादीत्वाच्छः, अतो गुणे (6.1.94) पररूपत्वम्। द्विषन्तपः इति। द्विषन्तं तापयतीति द्विषत्परयोस्तापेः (3.2.39) इति खच्, खचि ह्यसवः (6.4.94) इति ह्रस्वत्वम्। विद्वन्मन्यः इति। विद्वांसमात्मानं मन्यत इति, आत्ममाने खश्च (3.2.83) इति खश्, वसुरुआंसुध्वंस्वनडुहां दः (8.2.72) इति सकारस्य दकारः, यरोऽनुनासिकेऽनुनासिको वा (8.4.45) इति तस्य नकारः। अथान्तग्रहणं किमर्थम्, यावता येन विधस्तदन्तस्य (1.1.72) इत्यनेन तदन्तस्यैव भविष्यति? इत्याह - अन्तग्रहणम् इत्यादि। कृतमजन्तकार्यं यस्य स कृताजन्तकार्यं आगमी, तस्यैवविधस्य प्रतिपत्तिः प्रतीतिर्यथा स्यादित्येवमर्थमन्तग्रहणम्। अन्तग्रहणेन हि कार्यान्तरस्यान्तेऽवसाने मुम्? कर्तवय इत्येषोऽर्थः सूच्यते। अतोऽजन्तकार्ये ह्यसवत्वे कृते पश्चान्मुम्? भवति। ननु च मुमा ह्रस्वो न बाध्यत इत्यनेनैव भविष्यतति सोपपतिकोऽयमर्थः प्रतिपादितः, तत्? किमर्थमेतदन्तग्रहणम्? नैतदस्ति; तेन हि निरवकाशाद्? ह्रस्वशासनस्य मुमा ह्रस्वो न बाध्यत इत्येतावन्मात्रं प्रतपादितम्, न तु कृताजन्तकार्यस्य मुम्? भवतीत्येषोऽर्थः, ततः परत्वान्मुमि कृत सत्यनजन्तस्यापि ह्रस्वत्वं प्रसज्येत। अत्र को दोषः? खित्यन्तहरसवभावी नास्तीति। यथा कालिम्मन्य इत्यत्र मुमि कृते सत्यनजन्तस्यापि ह्रस्वत्वं भवति, तथा वाङ्मन्य इत्यत्र स्यादिति। तस्मादन्तग्रहणं कर्तव्यम्॥

Prakriyasarvasvam

अरुर्द्विषतोरजन्तस्य चानव्ययस्य खिदन्त उत्तरपदे मुमागमः स्यात् । अरीन् कम्पयन् अरिमेजयो नृपः । अङ्गं शोभयन्नङ्गमेजयोऽलङ्कारः ।

Sutra Prayogas

  • अरुन्तुदम् (रघुवंशम्): अरुर्द्विषत्- इत्यादिना मुमागमः।

  • प्रियंवदः (रघुवंशम्): अरुर्द्विषदजन्तस्य मुम् इत्यादिना मुमागमः।

  • कूलमुद्रुजाः (रघुवंशम्): अरुर्द्विषद्- इत्यादिना मुमागमः।

  • परंतपः (रघुवंशम्): अरुर्द्विषदजन्तस्य मुम् इति मुमागमः।

  • ललाटंतपसप्तसप्तिः (रघुवंशम्): अरुर्द्विषदजन्तस्य मुम् इति मुमागमः।

  • स्तनंधयप्रीतिम् (रघुवंशम्): अरुर्द्विषदजन्तस्य मुम् इत्यादिना मुमागमः।

  • विश्वंभरे (रघुवंशम्): अरुर्द्विषदजन्तस्य मुम् इति मुमागमः।

  • हृदयंगमाः (कुमारसम्भवम्): अरुर्द्विषदजन्तस्य मुम् इति मुमागमः।

  • हृदयंगमः (कुमारसम्भवम्): अरुर्द्विषदजन्तस्य मुम् इति मुमागमः।

  • प्रियंवदां (कुमारसम्भवम्): अरुद्विषदजन्तस्य मुम् इति मुमागमः।

  • धनंजयः (किरातार्जुनीयम्): अरुर्द्विषदजन्तस्य मुम् इत्यादिना मुमागमः।

  • भयंकरः (किरातार्जुनीयम्): अरुर्द्विषदजन्तस्य मुम् इति मुमागमः।

  • नखंपचः (शिशुपालवधम्): अरुषिदजन्तस्य मुम् इति मुमागमः।

  • जनङ्गम (शिशुपालवधम्): अरुर्द्विषदजन्तस्य मुम् इत्यादिना मुमागमः।

  • वातमजं (भट्टिकाव्यम्): अरुर्द्विष इति मुम्।

  • परं-तपः (भट्टिकाव्यम्): अरुर्द्विपदजन्तस्य इति मुम् ।

  • स्तनं-धाय (भट्टिकाव्यम्): अरुर्द्विषदजन्तस्य मुम् इति स्तनंधाय इत्यत्र मुम्-आगमः।

  • नाडिंधमान् (भट्टिकाव्यम्): अरुर्द्विषदजन्तस्य मुम् इति नाडिंधम इत्यत्र मुम्-आगमः।