63075: नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या

Padacheda: नभ्राट्-नपात्-नवेदाः-नासत्याः-नमुचि-नकुल-नख-नपुंसक-नक्षत्र-नक्र-नाकेषु | S | 7 | 3 |

प्रकृत्या | S | 3 | 1 |

Sutrartha


Vasu English Summary

The Negative Particle remains unchanged in - 1. नभ्राज् 2. नपात् 3. नवेदस् 4. नासत्या (dual) 5. नमुचि 6. नकुल 7. नख 8. नपुंसक 9. नक्षत्र 10. नक्र and 11. नाक।

Vasu English Translation

The Negative Particle remains unchanged in - 1. नभ्राज् 2. नपात् 3. नवेदस् 4. नासत्या (dual) 5. नमुचि 6. नकुल 7. नख 8. नपुंसक 9. नक्षत्र 10. नक्र and 11. नाक। Upto नासत्या the words are exhibited in the Nominative case in the sutra, the rest are exhibited in the Locative ! नभ्राजते = नभ्राट्, formed by क्विप् and नञ् composition. न पाति = नपात् formed by शतृ affix. न वेत्ति = नवेदा, formed by असुन् ॥ सत्सु साधवः = सत्याः, न सत्याः = असत्याः, न असत्याः नासत्याः ॥ न मुञ्चति = नमुचि, formed by कि affix (Unadi), नास्य कुलमस्ति = नकुलः ॥ नास्य खमस्ति = नखम् ॥ न स्त्री न पुमान् = नपुंसकम् ॥ न क्षरते क्षीयते वा नक्षत्रम् ॥ न क्रामति = नक्र by ड affix, न अस्मिन् अकम् = नाकम् ॥

Kashika

नभ्राट् नपात् नवेदा नासत्या नमुचि नकुल नख नपुंसक नक्षत्र नक्र नाक इत्येतेषु नञ् प्रकृत्या भवति। न भ्राजत इति नभ्राट्। भ्राजतेः क्विबन्तस्य नञ्समासः। न पातीति नपात्। पातिः शत्रन्तः। न वेत्तीति नवेदाः। वेत्तिरसुन्प्रत्ययान्तः। नासत्याः — सत्सु साधवः सत्याः, न सत्या असत्याः, न असत्या नासत्याः। न मुञ्चतीति नमुचिः। मुचेरौणादिकः किप्रत्ययः। नास्य कुलमस्ति नकुलः। नख — नास्य खमस्तीति नखम्। नपुंसक — न स्त्री न पुमान्नपुंसकम्। स्त्रीपुंसयोः पुंसकभावो निपात्यते। नक्षत्र — न क्षरति क्षीयत इति वा नक्षत्रम्। क्षियः क्षरतेर्वा क्षत्रमिति निपात्यते। नक्र — न क्रामतीति नक्रः। क्रमेर्डप्रत्ययो निपातनात्। नाक — नास्मिन् अकमस्तीति नाकम्॥

Siddhanta Kaumudi

पाद् शत्रन्तः । वेदाः इत्यसुन्नन्तः । न सत्या असत्याः । न असत्या नासत्याः । न मुञ्चतीति नमुचिः । न कुलमस्य नकुलम् । न खमस्य नखम् । नस्त्रीपुमान् नपुंसकम् । स्त्रीपुंसयोः पुंसकभावो निपातनात् । न क्षरतीति नक्षत्रम् । क्षरतेः क्षीयतेर्वा क्षत्रमिति निपात्यते । न क्रामतीति नक्रः । क्रमेर्डः । न अकस्मिन्निति नाकः ॥

Balamanorama

नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनख- नपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या - नभ्राण्नपात् । सुगमम् । अनुवर्तमान इति ।समासविधयो वक्ष्यन्ते॑ इति शेषः ।

Tattvabodhini

नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनख- नपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या - नभ्राट् । सत्सु साधवः सत्याः ।तत्र साधुः॑इति यत् । न सत्या असत्याः । न असत्या नासत्याः । इह बहुवचनमविवक्षितम् । तेननासत्यावइआनौ दस्नौ॑इति सिद्धम् । नमुचिरिति ।सर्वधातुब्य इन् ।इगुपधात्किदि॑ति कित्त्वान्न गुणः । क्षरतेः क्षीयतेर्वेति ।क्षर सञ्चलने॑भ्वादिः ।क्षि निवासगत्योः॑तुदादिः ।

Padamanjari

नभ्राडिति । भ्राजभास इत्यादिना क्विप्, व्रश्चादिषत्वम्, जश्त्वम् - डकारः, तस्य वावसाने इति पक्षे एचर्त्वम् - टकारः । पादिति शात्रन्तमिति । तनूनपादुच्यते, अपान्नपादित्यादावनपुंसकेऽपि दर्शनाद् उभे वनस्पत्यादिषु इत्यत्र पातेः क्विपि निपातनातुगित्यभिधानाच्चापाठोऽयम् ।पादिति क्विबन्तमिति पाठः । शत्रन्तमित्यस्य वानन्तर नरैर्न मन्तव्यमित्यध्याहार्यम् । औणादिकः किप्रत्यय इति । इगुपधात्किः इत्यनेन । कम् - सुखम्, अकम् - दुःखम्, तद्यत्र नास्ति स नाकः स्वर्गः । दुःखेन यन्न सम्भन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम् ॥

Nyaas

नभ्राट् इति। भ्राजृ दीप्तौ (धातुपाठः-181) अस्मात्? भ्राजभ्रास (3.2.177) इत्यादिना क्विप्, जकारस्य व्रश्च (8.2.36) इत्यादिना षकारः, तस्य जशत्वम् -डकारः, तस्यापि चर्त्वम् -टकारः। नपात् इति। नपुंसकत्वादसत्यां सर्वनामस्थानसंज्ञायामुगिल्लक्षणो नुम्? न भवति। नवेदाः इति। अत्वसन्तस्य चाधातोः (6.4.14) इति दीर्घः। सत्सु साधवः सत्याः इति। अनेन तत्र साधुः (4.4.98) इति सच्छब्दात्? प्राग्घितीयं यतं दर्शयति। औणादिकः किप्रत्ययः इति। इगुपधात्? कित् (द।उ।1।48) इति किप्रत्ययः। क्षियः इति। क्षिष्? हिंसायाम् (धातुपाठः-1506), [क्षीष् -धातुपाठः-] क्षि निवासगत्योः (धातुपाठः-1407) इति। क्षरतेर्वा इति। क्षर संञ्चलने (धातुपाठः-851)। नक्षत्रमिति निपात्यते। किमत्र निपात्यते? यदि क्षियः, तदा त्रप्रत्यय इकारस्यात्त्वम्; यद क्षरतेस्तदापि त्रप्रत्ययो रेफलोपश्च। नास्मिन्नकमस्तीति नाकम् इति। कमिति सुखमुच्यते। न कम्=दुःखम्। नास्मिन्नकमस्तीति नाकः=स्वर्गः। रूढिशब्दा ह्रते यथाकथञ्चित्? व्युत्पाद्यन्ते॥