63064: त्वे च¶
Padacheda: त्वे | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The feminine affixes ई and आ (ङी and आप्) diversely become short before the affix त्व।
Vasu English Translation¶
The feminine affixes ई and आ (ङी and आप्) diversely become short before the affix त्व। Thus अजाया भावः = अजत्वं or अजात्वं, रोहिणित्वं or रोहिणीत्वम् ॥ These are Vedic illustrations, no Names can be formed in त्व ॥
Kashika¶
त्वप्रत्यये परतो ङ्यापोर्बहुलं ह्रस्वो भवति। तदजाया भावोऽजत्वम्, अजात्वम्। तद्रोहिण्या भावो रोहिणित्वम्, रोहिणीत्वम् (काठ० सं० ८.१)। संज्ञायामसंभवात् छन्दस्येवोदाहरणानि भवन्ति॥
Siddhanta Kaumudi¶
त्वप्रत्यये ङ्यापोर्वा ह्रस्वः । अजत्वम् । अजात्वम् । रोहिणित्वम् । रोहिणीत्वम् ॥
Balamanorama¶
त्वे च - त्वे च । शेषपूरणेन सूत्रं व्याचष्टे — त्वप्रत्यये ङ्यापोर्वा ह्रस्व इति । अजत्वं रोहिणित्वमिति । संज्ञात्वाऽभावाच्छन्दस्येवाऽयमिति वृत्तिः । अनुत्तरपदार्थं वचनम् ।
Nyaas¶
संज्ञायामसम्भवाच्छन्दस्येवोदाहरणानि भवन्ति इति। एवकारेण संज्ञाया व्यवच्छेदः क्रियते। न हि त्वप्रत्यये ङ्यापोह्र्यस्वत्वे कृते कस्यचित्? संज्ञा गम्यते। तेन संज्ञायामसम्भवाच्छन्दस्येवोदाहरणानि भवन्ति॥
Prakriyasarvasvam¶
बहुलं ह्रस्वः स्यात् । रोहिणित्वम् । ‘भक्षस्य छन्दसि कारे मुम् वाच्यः (वा. ६-३-७०) । ऋतौ भक्षणविशेषो भक्षंकारः ।<!धेनोर्भव्यायां मुम् वाच्यः!> (वा. ६-३-७०) लोकम्पृणा इष्टका । पृणोस्तुदादेर्मूलविभुजादित्वात् कः ।<!भ्राष्ट्राग्न्योरिन्धे!> (वा. ६-३-७०) भ्राष्ट्रमिन्धः । अग्निमिन्धो ग्रावग्रामः (घञ्णप् वा) सहस्य सभाव उदात्त इष्टः ।