63069: वाचंयमपुरंदरौ च

Padacheda: वाचंयम-पुरंदरौ | S | 1 | 2 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

वाचंयम and पुरंदर are irregularly formed.

Vasu English Translation

वाचंयम and पुरंदर are irregularly formed. Thus वाचंयमः आस्ते (3.2.40) खच् affix)). पुरं दारयति = पुरन्दरः (3.2.42). The shortening of याम and दार takes place by (6.4.94).

Kashika

वाचंयम पुरंदर इत्येतौ निपात्येते। वाचंयम आस्ते। पुरं दारयतीति पुरंदरः॥

Siddhanta Kaumudi

वाक्पुरोरमन्तत्वं निपात्यते । वाचंयमो मौनव्रती । व्रते किम् । अशक्त्यादिना वाचं यच्छतीति वाग्यामः ॥

Balamanorama

वाचंयमपुरंदरौ च - वाचं यमपुरन्दरौ च । वाक्पुरोरिति । वाच्यं यच्छतीति, पुरं दारयतीति च विग्रहे यमेर्दारेश्च खच् । सुपो लुकि वाच् यम, दार इति स्थिते वाक्पुरोरमन्तत्वं निपात्यते इत्यर्थ- । ‘अरुर्द्विषजन्तस्य’ इति मुमस्तु न प्रसक्तिः ।

Tattvabodhini

वाचंयमपुरंदरौ च - निपात्यत इति । न चैवं खच् प्रत्ययोऽप्यत्रैव निपात्यतामिति वाच्यं, व्रतादन्यत्रापि प्रसङ्गात् । यदि तु निपातनबलादव व्रतविषयता आश्रीयते,तत्रैव वा व्रतग्रहणं क्रियते, — वाचंयमो व्रते पुरन्दरश्चे॑ति तदा इहवाचि यमो व्रते॑ इति सूत्रं,पूः सर्वयो॑रित्यत्र पुरि दारेरित्यंशश्च शक्यमकर्तुम् ।

Padamanjari

वाचंयम इति । वाचि यमो व्रते इति खच् । पुरंदर इति । पूःसर्वयोर्दारिसहोः इति खचि ह्रस्वः । उभयस्यापि पूर्वपदस्यामन्तत्वं निपात्यते ॥

Nyaas

वाचंयमः इति। वाचं यच्छतीति वचि यमो व्रते (3.2.40) इति खच्। तत्र वाक्शब्दसयामन्तता निपात्यते। पुरन्दरः इति। पूःसरवयोर्दारिसहोः (3.2.41) इति खच्, खचि ह्रस्वः (6.4.94) इति ह्रस्वत्वम्। अत्रापि पूःशब्दस्यामन्तता निपात्यते। चाकारोऽनुक्तसमुच्चयार्थः। तेन अस्तुसत्यागदसय कारे (वा।744) इति सर्वं न वक्तव्यं भवति॥

Sutra Prayogas

  • पुरंदरश्रीः (रघुवंशम्): वाचंयमपुरंदरौ च इति मुमागमो निपातितः।

  • वाचंयमत्वात् (रघुवंशम्): वाचंयमपुरंदरौ च इति मुम्।

  • पुरन्दरस्य (शिशुपालवधम्): वाचंयमपुरंदरौ च इति निपातनाददन्तत्वं मुमागमश्च।

  • वाचं-यमान्स्थण्डिल-शायिनश्च (भट्टिकाव्यम्): वाचंयम-पु- रंदरौ च इति निपातनात् पूर्वपदस्य अमन्तता।

  • वाचं-यमो (भट्टिकाव्यम्): वाचंयमपुरन्दरौ च इति मुमागमः निपात्यते।