63066: खित्यनव्ययस्य

Padacheda: खिति | S | 7 | 1 |

अनव्ययस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

A short is always substituted for the final of the first member when the second member is a word formed by an affix having an indicatory ख but not when the first member is an indeclinable.

Vasu English Translation

A short is always substituted for the final of the first member when the second member is a word formed by an affix having an indicatory ख but not when the first member is an indeclinable. Thus कालिंमन्या, हरिणिंमन्या ॥ The augment मुम् does not prevent the shortening, had it done so, the rule would have been unnecessary. But दोषामन्यमहः, दिवामन्यारात्रिः, where दोषा and दिवा are Indeclinables there is no shortening. The above words are formed by खश् (3.2.83). The phrase anavyayasya indicates by implication that the word खित् here means खिदन्तः, contrary to the maxim enunciated in (6.3.17) उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्नेष्यते ॥ For an Avyaya can never take a खित् affix which are ordained only after dhatus.

Bhashya

खित्यनव्ययस्य (2925) (6461 सूत्रार्थानुपपत्तिवार्तिकम् ॥ 1 ॥) - खिति ह्रस्वाप्रसिद्धिरनजन्तत्वात् - खिति ह्रस्वस्याप्रसिद्धिः । कालिम्मन्या । हरिणिम्मन्या । किं कारणम् ? अनजन्तत्वात् । मुमि कृतेऽनजन्तत्वात् ह्रस्वत्वं न प्राप्नोति ॥ (6462 उपपत्तिवार्तिकम् ॥ 2 ॥) - सिद्धं तु ह्रस्वान्तस्य मुम्वचनात् - सिद्धमेतत् । कथम् ? ह्रस्वान्तस्य मुम्भवतीति वक्तव्यम् ॥ (6463 प्रकारान्तरेणोपपत्तिवार्तिकम् ॥ 3 ॥) - सन्नियोगाद्वा - अथवा सन्नियोगः करिष्यते । क एष यत्नश्चोद्यते सन्नियोगो नाम ? चकारः कर्तव्यः - मुम् च । किंच ? यच्चान्यत्प्राप्नोति । किञ्ञ्चान्यत् प्राप्नोति ? ह्रस्वत्वम् । सिद्ध्यति । सूत्रं तर्हि भिद्यते ॥ यथान्यासमेवास्तु । ननु चोक्तं खिति ह्रस्वाप्रसिद्धिरनजन्तत्वात् इति । परिहृतमेतत् - सिद्धन्तु ह्रस्वान्तस्य मुम्वचनात् इति । तत्तर्हि ह्रस्वग्रहणं कर्तव्यम् । न कर्तव्यम् । प्रकृतमनुवर्तते । क्व प्रकृतम् ? इको ह्रस्वोऽङ्यो गालवस्य (61) इति । तद्वै प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः । खिति इत्येषा सप्तमी ह्रस्वः इति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इति ॥ (एकदेशिन उपपत्तिभाष्यम्) अथवा खिति ह्रस्वो भवतीत्युच्यते । खित्यनन्तरो ह्रस्वभावी नास्तीति कृत्वा भूतपूर्वगतिर्विज्ञास्यते - अजन्तं यद्भूतपूर्वमिति ॥ (पूर्वपक्षिण उपपत्तिभाष्यम्) अथवा कार्यकालं संज्ञापरिभाषम् यत्र कार्यं तत्र द्रष्टव्यम् खिति ह्रस्वो भवतीत्युपस्थितमिदं भवति - अचेति । तत्र वचनादनजन्तस्यापि भविष्यति । इहापि तर्हि वचनात्प्राप्नोति - वाक्मन्य इति । नैतदस्ति । इक इति वर्तते । एवमपि खट्वंमन्यः, अत्र न प्राप्नोति । नैष दोषः । आब्ग्रहणमपि प्रकृतमनुवर्तते । क्व प्रकृतम् ? ङ्यापोः संज्ञाछन्दसोर्बहुलम् (63) इति ॥ (सिद्धान्तभाष्यम्) एवमपि कीलालपंमन्यः, शुभंयंमन्यः - अत्र न प्राप्नोति । तस्मात् पूर्वोक्तावेव परिहारौ ॥

Kashika

खिदन्त उत्तरपदेऽनव्ययस्य ह्रस्वो भवति। कालिंमन्या। हरिणिंमन्या। मुमा ह्रस्वो न बाध्यते, अन्यथा हि ह्रस्वशासनमनर्थकं स्यात्। अनव्ययस्येति किम्? दोषामन्यमहः। दिवामन्या रात्रिः। अनव्ययस्येत्येतदेव ज्ञापकमिह खिदन्तग्रहणस्य॥

Siddhanta Kaumudi

खिदन्ते परे पूर्वपदस्य ह्रस्वः स्यात् । ततो मुम् । शुनिन्धयः । तिलन्तुदः । शर्धंजहा माषाः । शर्धोऽपानशब्दः तं जहतीति विग्रहः । जहातिरन्तर्भावितण्यर्थः ॥

Laghu Siddhanta Kaumudi

खिदन्ते परे पूर्वपदस्य ह्रस्वः। ततो मुम्। कालिम्मन्या॥

Balamanorama

खित्यनव्ययस्य - खित्यनव्ययस्य । ह्रस्वः स्यादिति ।इको ह्रस्वोऽङ्यो गालवस्य॑ इत्यतस्तदनुवृत्तेरिति भावः । अत्र ह्रस्वश्रुत्या अच इत्युपस्थितं द्रष्टव्यम् । ततो मुमिति । पूर्वं ह्रस्वे कृते ततो मुमित्यर्थः । पूर्वं मुमि कृते तु अजन्तत्वाऽभावाद्ध्रस्वो न स्यादिति भावः । शर्धञ्जहा माषा इति । भाष्ये तु ‘मृगा’ इति पाठः । शर्द्धः अपानद्वारे स्थितः शब्द इति माधवादयः । अन्तर्भावितेति । तथा च शद्र्ध हापयन्तीति विग्रहः फलितः । भाष्ये तुवातशुनी॑इति वार्तिके गर्धे॑ष्विति पठितम् ।

Tattvabodhini

खित्यनव्ययस्य - शर्द्धंजहा इति । शर्धनं शर्धः । शृधु कुत्सायाम् । घञ् । तं जहातीति । ननु माषाः शद्र्धमपानशब्दं त्याजयन्ति न तु स्वतो जहतीत्याशङ्कायामाह — अन्तर्भावितण्यर्थ इति । यथासङ्ख्यं वारयितुमाह — अत्रेति ।

Padamanjari

इकह ह्रस्वश्रुत्या अचः इत्युपस्थाप्यते । तत्र यदि पूर्वपदेनाज्विशेष्येत पूर्वपदस्याचो ह्रस्वो भवति यत्र स्थितस्येति, ततो वाड्मन्य इत्यादावपि प्राप्नोति, तस्मादचा पूर्वपदं विशेष्यते - अजन्तस्य पूर्वपदस्येति । तत्र कालिम्मन्येत्यादावपि मुमि कृतेऽजन्तत्वाभावाद् ह्रस्वाभाव इत्यत ताअह - मुमा ह्रस्वो न बाध्यत इति । कुतः इत्यत आह - अन्यथा हीति । उच्यते चेदम् - अजन्तस्य ह्रस्व इति, यदि पूर्वं मुम् स्याद्वचनमिदमनर्थकं स्यात् । तस्मान्मुमा ह्रस्वो न बाध्यते । कथं पुनर्मुमा ह्रस्वबाधः शाङ्कितः, यावता स्तनन्धयादौ चरितार्थस्य मुमः कालिम्मन्यत्यादौ ह्रस्वेनैव बाधः शङ्कनीयः तस्मादयमस्यार्थः - यथा पूर्वं मुमा ह्रस्वो न बाध्यते, तथा सूत्रस्यार्थो वर्णनीयः - अजन्तस्य ह्रस्वो विधेयः, न तु पूर्वपदसम्बन्धिनोऽचो ह्रस्व इति । तस्मिन्पक्षे मुमि कृतेऽपि ह्रस्वप्रवृत्तिसम्भवादनवकाशत्वाभावात् मुमि कृते पश्चाद्ध्रस्वः स्यात्, पूर्वं तु मुमा बाध्येतेति । यत्पुनरुक्कम् - मुम एव ह्रस्वेन बाधः शङ्कनीय इति अत्र परिहारमुतरसूत्रे वक्ष्यति । कथं पुनरत्र खिदन्तस्य ग्रहणम्, यावता ज्ञापितमेतदुतरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्न भवति तत्राह - अन्वययस्येत्येतदेवेति । धातोरेव खितो विधानान्नाव्ययात्परः खित्प्रत्ययः सम्भवति । तस्मादव्ययप्रतिषेधादत्र तदान्तग्रहणमित्यर्थः ॥

Nyaas

कालिम्मन्या, हरिणिम्मन्या इति। कालीमात्मानं मन्यते हरिणीमात्मानं मन्यत इति आत्ममाने खश्च (3.2.83) इति खश्, दिवादित्वाच्छ्यन्, अनेन ह्रस्वत्वम्, उत्तरसूत्रेण मुम्। इहाजन्तस्य ह्रस्वत्वमभ्युपगम्यम्; अन्यथा वाङ्मन्य इत्यत्रापि स्यात्। अजन्तस्य ह्रस्वविधाने सति परत्वान्मुमि कृतेऽनजन्तत्वाध्यस्वो न प्राप्नोतीति यो मन्येत तं प्रत्याह - मुमा ह्रस्वो न बाध्यते इति। अत्रैव हेतुमाह - अन्यथा हि इत्यादि। ह्रस्वः शिष्यते=विधीयते येन तत्? ह्रस्वशासनं खित्यनवययस्य ` इत्येतद्ववचनम्। यदि हि मुमा ह्रस्वो बाध्येत, ततो ह्रस्वशासनामिदमनवकाशं स्यात्, ततस्तस्यानर्थक्यमेव स्यात्। तस्मान्मा भूदेष दोष इति मुमा ह्रस्वो न बाध्यते। तेन विरोधाभावादुभयं भवति - ह्यसवः, मुम्? च। कथं पुनर्मुमा ह्रस्वसय बाधा शङ्किता? कथं वा ह्रस्वशासनस्यानवकाशत्वम्, यावता खित्यजन्तस्याविशेषेण मुम्? विधीयते, ह्रस्वत्वं बाधा शङ्किता? कथं वा ह्रस्वशासनस्यानवकाशत्वम्, यावता खित्यजन्तस्याविशेषेण मुम्? च। कथं पुनर्मुमा ह्रस्वस्य बाधा शङ्किता? कथं वा ह्रस्वशासनस्यानवकाशत्वम्, यावता खित्यजन्तस्याविशेषेण मुम्? विधीयते, ह्रस्वतवं तु सामर्थ्याद्दीर्घस्य, न हि ह्यसवस्य ह्रस्वविधानमर्थवद्भवति, एवं च स्तनन्धयादिषु कृतार्थत्वान्मुमेव ह्रस्वेनापवादेन कालिम्मन्यादिषु बाध्येत? एवं मन्यते - अपवादविषयेऽपि मुमा विधानार्थं मुम्शास्त्रस्यावश्यमावृत्तिः कर्ततव्या; अन्यथा कालिम्मन्येत्यतर मुम्? न स्यात्। ततश्चापवादविषयेऽपि मुमा प्रवर्तमानेन ह्यसवस्य बाधा सम्भाव्येत। अनवकाशत्वं चातएवापवादविषयेऽपि मुम्प्रवृत्तेरिति। अथ कथमत्र खिदन्तस्य गरहणम्, यावता ज्ञापितमेतदुत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधीर्नास्ति? (पु।प।पा।26) त्यत आह - `अनवययस्येत्येतदेव इत्यादि। यद्यत्र खित्प्रत्ययमात्रं गृह्रेत न तदन्तम्, ततोनव्ययस्येति प्रतिषेधोऽपार्थकः स्यात्। न ह्रव्ययात् परः खित्? प्रत्ययः सम्भवति; धातोरेव तस्य विधानात्। ततश्चानर्थकत्वादनव्ययस्येत्येतन्नोक्तं स्यात्। उक्तञ्च - तस्मादेतदेवै तज्ज्ञापयति - खिदन्तस्यात्र ग्रहणमिति॥

Prakriyasarvasvam

खिदन्ते परपदेऽनव्ययस्याजन्तस्य ह्रस्वः स्यात् । पुनर्मुम् । शूत्कारैर्नासिकां शब्दयतीति नासिकन्धमो वराहः । स्तनन्धयो बालः । क्रममनादृत्य नासिकन्धयो गज इत्यपि । स्तननासिकाभ्यां तत्स्थं पयो लक्ष्यते ।

Sutra Prayogas

  • नाडिंधमान् (भट्टिकाव्यम्): खित्यनव्ययस्य इति नाडिंधम इत्यत्र ह्रस्वः।