63060: मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च¶
Padacheda: मन्थ-ओदन-सक्तु-बिन्दु-वज्र-भार-हार-वीवध-गाहेषु | S | 7 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
उद is optionally substituted for उदक before 1. मन्थ 2. ओदन 3. सक्तु 4. बिन्दु 5. वज्र 5. भार 6. हार 7. वीवध and 8. गाह।
Vasu English Translation¶
उद is optionally substituted for उदक before 1. मन्थ 2. ओदन 3. सक्तु 4. बिन्दु 5. वज्र 5. भार 6. हार 7. वीवध and 8. गाह। Thus उदकेन मन्थः = उदमन्थ or उदकमन्थः । उदकेनौदन, उदौदनः or उदकोदनः । सक्तु । उदकेन सक्तुः, उदसक्तु or उदकसक्तुः । बिन्दु । उदकस्य बिन्दुः, उदबिन्दुः or उदकबिन्दुः । वज्र । उदकस्य वज्रः, उदवज्रः or उदकवज्रः । भार । उदकं बिभर्तीति उदभारः or उदकभारः । हार । उदकं हरतीति, उदहारः or उदकहारः । वीवध । उदकस्य वीवध, उदवीवधः or उदकवीवधः । गाह । उदकं गाहत इति, उदगाहः or उदकगाहः ॥
Kashika¶
मन्थ ओदन सक्तु बिन्दु वज्र भार हार वीवध गाह इत्येतेषुत्तरपदेषूदकस्य उद इत्ययमादेशो भवत्यन्यतरस्याम्। उदकेन मन्थ उदमन्थः, उदकमन्थः। ओदन — उदकेनौदन उदौदनः, उदकौदनः। सक्तु — उदकेन सक्तु ः उदसक्तु ः, उदकसक्तु ः। बिन्दु — उदकस्य बिन्दुः उदबिन्दुः, उदकबिन्दुः। वज्र — उदकस्य वज्र उदवज्रः, उदकवज्रः। भार — उदकं बिभर्तीति उदभारः, उदकभारः। हार — उदकं हरतीति उदहारः, उदकहारः। वीवध — उदकस्य वीवध उदवीवधः, उदकवीवधः। गाह — उदकं गाहत इति उदगाहः, उकदगाहः॥
Siddhanta Kaumudi¶
उदमन्थः । उदकमन्थः । उदौदनः । उदकौदनः ॥
Balamanorama¶
मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च - मन्थौदन ।उदकस्य उदादेशो वे॑ति शेषः । अपूरयितव्यार्थं वचनम् । उदमन्थ उदकमन्थ इति । उदकमिश्रो मन्थ इति विग्रहः । द्रवद्रव्यसंपृक्ताः सक्तवो मन्थः । भर्जितयवपिष्टानि-सक्तवः । उदौदन उदकौदन इति । उदकमिश्र इत्यर्थः । इत्यादीति । उदसक्तवः, उदकसक्तवः । उदबिन्दवः, उदकबिन्दवः । उदवज्रः, उदकवज्रः । उदभारः, उदकभारः । उदहारः, उदकहारः । उदवीवधः, उदकवीवधः । उदगाहः, उदकगाहः । वीवधस्तु जलाद्याहरणयोग्य उभयतःशिक्यः स्कन्तबाह्रः काष्ठविशेषः ।
Tattvabodhini¶
मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च - मन्थौद । उदमन्थ इति । द्रवद्रव्यसंस्कृताः सक्तवो — मन्थः ।उदकेन मन्थः॑इति विग्रहेतृतीये॑ति योगविभागात्समास इति हरदत्तः ।इयङुवङ्भाविनामव्ययानां च नेति वाच्यम् । शुक्लीभाव इति ।ऊर्यादिच्विडाचश्चे॑ति च्व्यन्तत्वान्निपातत्वेऽव्ययत्वम् ।अभ्रुकुंसादीनामिति वक्तब्यम् । भ्रूकुंस इत्यादि ।भ्रकुंसश्च भुकुंसश्च भ्रूकुंसश्चेति नर्तकः॑इत्यमरः ।तन्द्री प्रमीला भ्रकुटिर्भ्रूकुटिः स्त्रिया॑मिति च ।
Padamanjari¶
द्रवद्रव्यसंयुक्ताः सक्तवः - मन्थः । उदकेन मन्थ इति । तृतीयेति योगविभागात्समासः । अथ प्रथ्यत इति क्रियाशब्दः, तदा कर्तृकरणे कृता बहुलम् इत् समासः, सक्त्वौदनाभ्यामन्नेन व्यञ्चनम् इति, बिन्दुवज्रवीवधैः षष्ठीति भारहारगाहैः कर्मण्यणन्तैः उपपदमतिङ् इति समासः, उदकस्य वज्रं क्रूरम्, यदपां क्रूरमिति दर्शनात् । अन्येऽपि यथासम्भवं समासा भवन्त्येव उदकं वज्रमिव भिन्दानो दृदयमसाहिनोदवज्रः ॥
Nyaas¶
द्रवद्रव्यसंपृक्ताः सक्तवो मन्थ इत्युच्यते। तत्र मन्थशब्दोऽयं यद्यव्युत्पन्नं प्रातिपदिकम्, तदोदकेन मन्थ इति तृतीया (2.1.30) इति योगविभागात्? समासः। अथ व्युत्पाद्यते -मध्यत इति मन्थः, तदा कर्तृकरणे कृता बहुलम् (2.1.32) इति समासः। सकत्वोदनाभ्यां अन्नेन व्यञ्जनम् (2.1.34) इति समासः। बिन्दुवज्रवीवधैः षष्ठी (2.2.8) इति भारहारगाहैरणन्तैः उपपदमतिङ् (2.2.19) इति॥
Prakriyasarvasvam¶
एषूदको वा । उदकार्द्रो मन्थः उदमन्थः । उदकसिक्तः उरौदनः । उदसक्तुः । उदविन्दुः । अपां क्रूरांशः उदवज्रम् । वज्रतुल्यं शापाद्युदकं वा । उदभारः । उदहारः । उदवीवधः । उदगाहः । भारादौ कर्मण्यण्, घञ् वा । सर्वं यथासम्भव- मिति हरः । विकल्पादुदकमन्थ इत्यादि ॥
Sutra Prayogas¶
प्रथमोदबिन्दवः (कुमारसम्भवम्): मन्थौदनसक्तुबिन्दुवज्रभारहारविवधगाहेषु च इति उदकशब्दस्य उदादेशः।
अघघर्मोदकबिन्दुमौक्तिकैः (शिशुपालवधम्): मन्थौदन… इत्यादिना विकल्पादुदकशब्दस्योदादेशाभावः।
रामाणामनवरतोदगाहभाजाम् (शिशुपालवधम्): मन्थौदनसक्तुबिन्दुवज्रभारहारविवधगाहेषु च इति उदकस्य उदादेशः।
श्रमोदबिन्दून् (शिशुपालवधम्): मन्थौदन- इत्यादिना उदकस्योदादेशः।
बृहदमलोदबिन्दुचित्रै (शिशुपालवधम्): मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च इति उदकशब्दस्य उदादेशः।