63071: श्येनतिलस्य पाते ञे

Padacheda: श्येनतिलस्य | S | 6 | 1 |

पाते | S | 7 | 1 |

ञे | S | 7 | 1 |

Sutrartha


Vasu English Summary

मुम् is the augment of the words श्येन and तिल before पात when the affix ञ् follows.

Vasu English Translation

मुम् is the augment of the words श्येन and तिल before पात when the affix ञ् follows. Thus श्येनपातोऽस्यां क्रीडायां = श्येनंपाता, तैलंपाता ॥ See (4.2.58). Why do we say before ञ? Observe श्येनपातः ॥

Kashika

श्येन तिल इत्येतयोः पातशब्द उत्तरपदे ञप्रत्यये परे मुमागमो भवति। श्येनपातोऽस्यां क्रियायां श्यैनंपाता। तैलंपाता। ञ इति किम्? श्येनपातः॥

Siddhanta Kaumudi

श्येन तिल एतयोर्मुमागमः स्यात् ञप्रत्ययपरे पातशब्दे उत्तरपदे । श्येनपातोऽस्यां वर्तते श्यैनंपाता मृगया । तिलपातोऽस्यां वर्तते तैलंपाता स्वधा । श्येनतिलस्य किम् । दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः ॥

Balamanorama

श्येनतिलस्य पाते ञे - श्येनतिलस्य । मुमागम इति । ‘अरुर्द्विष’ दित्यतस्तदनुवृत्तेरिति भावः । ञप्रत्यये इति । ञप्रत्यये परे यः पातशब्दस्तस्मिन्नित्यर्थः । उत्तरपदे इति । ‘अलुगुत्तरपदे’ इत्यतस्तदधिकारादिति भावः । श्येनपात इति । पतनं पातः । भावे घञ् । श्यैनंपातेति । श्येनपातशब्दाद्धञन्ताञ्ञः । यद्यपि पातशब्द एव घञन्तस्तथापि कृद्ग्रहणपरिभाषया श्येनपातशब्दस्यापि ग्रहणं बोध्यम् । श्येनस्य पात इति कृद्योगषष्ठआ समासः । तथाच श्येनपातशब्दस्यादिवृद्धिः । तैलंपाता स्वधेति । स्वधाशब्दः स्त्रीलिङ्ग पित्र्यक्रियायां वर्तते, ‘नमः स्वधायै’ इत्यादिदर्शनात् ।स्वधे॑त्यनेन क्रीडायामिति नानुवर्तते इति सूचितम् । तदस्यामिति प्रकृते पुनरस्यामिति ग्रहणात् ।

Tattvabodhini

श्येनतिलस्य पाते ञे - दण्डापातोऽस्यां तिथाविति ।

Padamanjari

एश्येनपातोऽस्यां क्रियायामिति । यद्यपि घञः सास्यां क्रियेति ञः इत्यतः क्रियाग्रहणं प्रकृत्यर्थविशेषणम्, न प्रत्ययार्थः, श्येनपातोऽस्यां तिथौ श्येनपाता तिथिरिति तत्रोदाहृतत्वात् , तथाप्यस्यामिति स्त्रीलिङ्गमात्रस्य प्रत्ययार्थत्वात्कियाया अपि प्रत्ययार्थत्वामविरुद्धम् । श्यैनम्पातेति । पतनं पातः श्येनस्य पातः, कर्तरि षष्ठ।ल समासः, ततः घञः सास्याम् इति ञः ॥

Nyaas

ञप्रत्यये परे इति। ञः प्रत्ययो यस्मादुत्तरपदात्? तत्? तथोक्तम्। श्यैनम्पाता इति। पतनं पातः, भावे घञ्, श्येनस्य पातः श्येनपातः। कृद्योगा च षष्ठी समस्यते (वा।86) इति समासः, घञः साऽस्यां क्रियेति ञः (4.2.58) ॥

Prakriyasarvasvam

ञान्ते पातशब्दे परेऽनयोर्मुं स्यात् । श्येनपातोऽस्यामस्तीति श्यैनम्पाता मृगया । तैलम्पाता पितृक्रिया ।।