63063: ङ्यापोः संज्ञाछन्दसोर्बहुलम्¶
Padacheda: ङि-आपोः | S | 6 | 2 |
संज्ञा-छन्दसोः | S | 7 | 2 |
बहुलम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The short is diversely substituted for the feminine affixes ई and आ (ङी and आप्) in a Name and in the छन्दस् (Vedas).
Vasu English Translation¶
The short is diversely substituted for the feminine affixes ई and आ (ङी and आप्) in a Name and in the छन्दस् (Vedas). As रेवतिपुत्रः, रोहिणिपुत्रः, भरणिपुत्रः ॥ Sometimes not, as नान्दीकरः, नान्दीघोषः, नान्दीविशालः ॥ So also in the Vedas, as कुमारिदारा, प्रदर्विदा; sometimes the shortening does not take place, as फाल्गुनीपौर्णमासी, जगतीछन्दः ॥ आप् ending words in Name: शिलवहम्, शिलप्रस्थम्; sometimes there is no shortening, as, लोमकागृहम्, लोमकाखण्डम् ॥ So also in the Vedas:- अजक्षीरेण जुहोति, ऊर्णम्रदा पृथिवीं विश्वधायसम् ॥ Sometimes there is no shortening, as, ऊर्णासूत्रेण कवयो वयन्ति ॥
Kashika¶
ङ्यन्तस्याबन्तस्य च संज्ञाछन्दसोर्बहुलं ह्रस्वो भवति। ङ्यन्तस्य संज्ञायाम् — रेवतिपुत्रः। रोहिणिपुत्रः। भरणिपुत्रः। न च भवति — नान्दीकरः। नान्दीघोषः। नान्दीविशालः। ङ्यन्तस्य छन्दसि — कुमारिदा। उर्विदा। न च भवति — फाल्गुनीपौर्णमासी। जगतीछन्दः। आबन्तस्य संज्ञायाम् — शिलवहम्। शिलप्रस्थम्। न च भवति — लोमकागृहम्। लोमकाषण्डम्। आबन्तस्य छन्दसि — अजक्षीरेण जुहोति। ऊर्ण॑म्रदाः पृथि॒वी दक्षि॑णावत (शौ० सं० १८.३.४९)। न च भवति — ऊर्णासू॒त्रेण॑ क॒वयो॑ वयन्ति (मा० सं० १९.८०)॥
Siddhanta Kaumudi¶
रेवतिपुत्रः । अजक्षीरम् ॥
Balamanorama¶
ङ्यापोः संज्ञाछन्दसोर्बहुलम् - ङ्यापोः ।उत्तरपदे ह्रस्वः स्या॑दिति शेषः । रेवतिपुत्र इति । कस्यचित्संज्ञेयम् । अथ छन्दस्युदाहरति — अजक्षीरमिति । अजायाः क्षीरमिति विग्रहः ।परमं वा एतत्पयो यदजक्षीर॑मिति तैत्तिरीये ।
Padamanjari¶
बहुलग्रहणात्कवचिटुअतरपदेऽपि भवति - अनुगायन्ति नयो गभिणय इति । एवं कृत्वा फाल्गुनीपौर्णमासीति प्रत्युदादाहरणोपपतिः, कर्मधारये पुंवद्भावः प्राप्नोति । ऊर्णम्रदा इति । ऊर्णावन् म्रदीयसीति यावत्, छान्दस ईयसीशब्दस्यारारः । तैतिरीयास्तु दीर्घमधीयते - ऊर्णाम्रदसं चास्तृणामीति ॥
Nyaas¶
रेवतिपुत्रः इति षष्ठीसमासः। एवं रोहिणिपुत्रः इत्यादावपि। कुमारीं ददातीति कुमारिदा। उर्वी ददातीति उर्विदा। आतोऽनुपसर्गे कः (3.2.3) । फाल्गुनी इत्यादि। फाल्गुनी चासौ पौर्णमासौ चेति फाल्गुनी पौर्णमासौ, विशेषणम् (2.1.56) इत्यादिना समासः। एवं जगतीच्छन्दः इत्यत्रापि।शिलवहम्, शिलप्रस्थम् इति। शिलाशब्दसय वहप्रस्थशब्दाभ्यां षष्ठी (2.2.8) इत्यनेन समासः। लोमकागृहम्, लोमकाषण्डम् इति। अत्रापि लोमकाशब्दसय गृहषण्डशब्दाभ्याम्। अजक्षीरेण इति। अत्राप्यजाशब्दस्य क्षीरशब्देन। `ऊर्णमृत् [ऊर्णमृदा -काशिका। ऊर्णम्रवा -पदमञ्जरी] इति। ऊर्णासहिता मृद्? ऊर्णमृत्। शाकपर्थिवादित्वादुत्तरपदलोपी समासः॥
Prakriyasarvasvam¶
नाम्नि वेदे च ङ्यापोर्बहुलं ह्रस्वः स्यात् । कालिदासः । स्त्रीणां वनं प्रमदवनम् । मन्दुराजातो मन्दुरजः । बहुलोक्तेः क्वचिन्न । तेन ‘जहाहि प्रमदावनमि’ति भट्टिः ॥
Sutra Prayogas¶
वैदेहिबन्धोः (रघुवंशम्): ङ्यापोः संज्ञाछन्दसोर्बहुलम् इति ह्रस्वः।
रजनि-चर-पतिं (भट्टिकाव्यम्): ङयापोः संज्ञाच्छन्दसोर्बहुलम् इति संज्ञायां ह्रस्वत्वम्।