63077: नगोऽप्राणिष्वन्यतरस्याम्¶
Padacheda: नगः | S | 1 | 1 |
अप्राणिषु | S | 7 | 3 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The Negative Particle is optionally retained unchanged in नगो when it does not mean a living animate being.
Vasu English Translation¶
The Negative Particle is optionally retained unchanged in नगो when it does not mean a living animate being. Thus नगाः or अगाः ‘trees’, or ‘mountains’, literally ‘what do not move’. The affix ड is added to गम् ॥ Why do we say when not referring to animate beings. Observe अगः वृषलः शीतेन ॥ No alternative form is allowed here.
Kashika¶
नग इत्यत्राप्राणिष्वन्यतरस्यां नञ् प्रकृत्या भवति। नगा वृक्षाः, अगा वृक्षाः। नगाः पर्वताः, अगाः पर्वताः। न गच्छन्तीति नगाः। गमेर्डप्रत्ययः (प॰ उ॰ १.११४)। अप्राणिष्विति किम्? अगो वृषलः शीतेन॥
Siddhanta Kaumudi¶
नग इत्यत्र नञ्प्रकृत्या वा । नगाः अगाः पर्वताः । अप्राणिषु इति किम् । अगो वृषलः शीतेन । नित्यं क्रीडा (SK711) इत्यतो नित्यमित्यनुवर्तमाने ॥
Nyaas¶
गमेर्डप्रत्ययः इति। डप्रकरणे अन्यत्रापि दृश्यते (वा।256) इति वचनात्॥
Prakriyasarvasvam¶
अप्राण्यर्थे नग इति वा स्यात् । नगो वृक्षः शैलश्च । अगो वा । प्राणिनि त्वगो वृषलः शीतेन ॥