63079: ग्रन्थान्ताधिके च

Padacheda: ग्रन्थान्ताधिके | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

स is substituted for सह when it has the sense of ‘up to the end’.

Vasu English Translation

स is substituted for सह when it has the sense of ‘up to the end’. Thus सकलं = कलान्तं ज्योतिषमधीते ॥ So also समुहूर्तम् = (मुहूर्तान्तम्) ॥ स संग्रह (= संग्रहान्तम्) व्याकरणमधीते ॥ These are all Avyayibhava compounds by अन्तवचने (2.1.6). Therefore, when a word, denoting time, is the second member, सह would not be changed to स, because of the prohibition in (6.3.81). The present sutra removes that prohibition by anticipation, with regard to time-denoting words even, when the meaning is that ‘of the end of a book’. When the sense is that of ‘more’, we have सद्रोणाखारी, समाषः कार्षापणः सकाकिणीको माषः ॥

Bhashya

ग्रन्थान्ताधिके च (2938) (सूत्राक्षेपभाष्यम्) ग्रन्थान्ते वचनानर्थक्यमव्ययीभावेन कृतत्वात् । अव्ययीभावे चाकाले इत्येव सिद्धम् । (सिद्धान्तभाष्यम्) यस्तर्हि कालोत्तरपदो ग्रन्थान्तस्तदर्थमिदं वक्तव्यम् । सकाष्ठं ज्योतिषमधीते । सकलम्, समुहूर्तम् ॥

Kashika

ग्रन्थान्तेऽधिके च वर्तमानस्य सहशब्दस्य स इत्ययमादेशो भवति। सकलं ज्यौतिषमधीते। समुहूर्तम्। ससंग्रहं व्याकरणमधीयते। कलान्तं मुहूर्तान्तं संग्रहान्तम् इति अन्तवचने (२.१.६) इत्यव्ययीभावः समासः। तत्र अव्ययीभावे चाकाले (६.३.८१) इति कालवाचिन्युत्तरपदे सभावो न प्राप्नोतीत्ययमारम्भः। अधिके — सद्रोणा खारी। समाषः कार्षापणः। सकाकिरणीको माषः॥

Siddhanta Kaumudi

अनयोः परयोः सहस्य सः स्यादुत्तरपदे । समुहूर्तं ज्योतिषमधीते । सद्रोणा खारी ॥

Balamanorama

ग्रन्थान्ताधिके च - ग्रन्थान्ताधिके च । ग्रन्थान्तश्च अधिकश्चेति समाहारद्वन्द्वः । अनयोरर्थयोरिति ।विद्यमानस्ये॑ति शेषः । समुहूर्तमिति । मुहूर्तविधिपरग्रन्थपर्यन्तं ज्योतिःशास्त्रमधीत इत्यर्थः । अन्तवचनेऽव्ययीभावः ।अव्ययीभावे चाऽकाले॑ इत्यत्र कालपर्युदासादप्राप्ते सभावे ग्रन्थान्तग्रहणम् । सद्रोणा खारीति । द्रोणपरिमाणादधिकेत्यर्थः । मयूरव्यंसकादित्वात्सहशब्दस्याधिकवाचिनः समासः, सभावश्च ।

Padamanjari

सकलमिति । कला - कालविशेषः, तत्सहचरितो ग्रन्थोऽपि कला । एवं समुहूर्तमित्यत्रापि । ससंग्रहमिति । एततु प्रमादाल्लिखितम्, अत्र हि अव्ययीभावे चाकाले इति वक्ष्यमाणेनैव सिद्धः सभावः । कालवाचिन्युतरपद इति । कालादयः शब्दा यद्यपि तत्सहचरितग्रन्थपराः, तथाप्यधीत इति पदान्तरप्रयोजनसमधिगम्यत्वाद् ग्रन्थपरत्वं बहिरङ्गमिति कालश्रयः प्रतिषेध एव स्यादिति मन्यते । सद्रोणेति । तेन सहेति तुल्ययोगे इति बहुव्रीहिरयम् । तेन वोपसर्जनस्य इति विकल्पे प्राप्ते नित्यार्थं वचनम् ॥

Nyaas

सकलम् इति। कला=कालविशेषः, तत्सहचारितो ग्रन्थस्तथोच्यते। सह कलया वर्तत इति सकलम्। एवं समुहूर्तम् इत्येतदपि वेदितव्यम्। ससंग्रहम् इति। एतदुदाहरणं प्रमादादिदानीन्तनैः कुलेखकैर्लिखितम्, तत्र हि अव्ययीभावे चाकाले (6.3.81) इत्येवं सभावः सिद्धः? इत्याह - तत्र` इत्यादि। कथं पुननं प्राप्नोति, यावता कालमुहूर्तशब्दौ तावत्? साहचर्यादत्र ग्रन्थे वर्तते? एवं मन्यते - प्रकरणादिना वाक्येन ग्रन्थविषयता तयोर्गम्यते। मुख्यस्तु काल एवाभिधेय इति। सद्रोणा खारी इत्यादि। तेन सह (2.2.28) इत्यादिना बहुव्रीहिः॥

Prakriyasarvasvam

ग्रन्थान्तवचनेऽधिकार्थे च सहस्य सः स्यात् । समुहूर्तं ज्योतिषमधीते । अन्तवचनेऽव्ययीभावः । ‘अव्ययीभावे चाकाले (६-३-८१) इति सभावो मुहूर्त्तादिकाले ग्रन्थपरे न प्राप्नोतीत्ययं विधिः । अधिके-सद्रोणा खारी ।।