63061: इको ह्रस्वोऽङ्यो गालवस्य

Padacheda: इकः | S | 6 | 1 |

ह्रस्वः | S | 1 | 1 |

अङ्यः | S | 6 | 1 |

गालवस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

According to the opinion of गालव a short vowel is substituted in a compound before the second member for the long इक् vowels (ई , ऊ , ॠ) unless it is the long vowel of the feminine affix ई (ङी).

Vasu English Translation

According to the opinion of गालव a short vowel is substituted in a compound before the second member for the long इक् vowels (ई , ऊ , ॠ) unless it is the long vowel of the feminine affix ई (ङी). In other words, for ई, when it is not the Feminine affix ई (ङी) and for ऊ, a short इ and उ are substituted in a compound before the second member. Thus ग्रामणिपुत्रः or ग्रामणीपुत्रः, ब्रह्मबन्धुपुत्रः or ब्रह्मबन्धूपुत्रः ॥ Why do we say इक् vowels? Observe खट्वापादः, मालापादः ॥ Why do we say ‘not the long ई of the Feminine affix ङी’? Observe गार्गीपुत्रः, वात्सीपुत्रः ॥ The name of Galava is mentioned pujartha for the anuvritti of ‘optionally’ was present in this sutra. It is a limited option pujartha, (vyavasthita vibhasha), and does not apply to कारीषगन्धीपति &c which are governed by (6.3.139).

Vart:- It does not apply to Avyayibhava compounds, nor to those words which take इयङ् or उवङ् augment in their declension, as श्रीकुलम्, भ्रूकुलम्, काण्डीभूतम्, कुडपीभूतं, वृषलीभूतम् ॥

Vart:- It does however apply to भ्रुकुंस &c, as भ्रुकुंसः, भ्रुकुटिः ॥ Others say अ is substituted for भ्र &c as भ्रकुंसः and भ्रकुटिः ॥

Bhashya

इको ह्रस्वोऽङ्यो गालवस्य (2920) (ह्रस्वाधिकरणम्) (6458 उपसंख्यानवार्तिकम् ॥ 1 ॥) - इको ह्रस्वत्वमुत्तरपदमात्रे - इको ह्रस्वत्वमुत्तरपदमात्रे वक्तव्यम् । इहापि यथा स्यात् - अलाबुकर्कन्धुदृन्भुफलम् - इति । किं पुनः कारणं न सिध्यति ? (6459 उपसंख्यानफलबोधकवार्तिकम् ॥ 2 ॥) - सर्वान्ते लोकविज्ञानम् - लोकविज्ञानाद्धि यदेतत् सर्वान्त्यं पदं तस्मिन् पूर्वपदस्य ह्रस्वत्वं स्यात् ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) अथवा एवं विग्रहः करिष्यते - अलाबूश्च कर्कन्धूश्च - अलाबुकर्कन्ध्वौ, अलाबुकर्कन्ध्वौ च दृन्भूश्च - अलाबुकर्कन्धुदृन्भ्वः, अलाबुकर्कन्धुदृन्भूनां फलं - अलाबुकर्कन्धुदृन्भुफलम् - इति । यद्येवं दृन्भ्वाः पूर्वनिपातः प्राप्नोति । राजदन्तादिषु पाठः करिष्यते ॥ (उपसंख्यानानर्थक्ये प्रकारान्तरबोधकभाष्यम्) अथवा एवं विग्रहः करिष्यते - दृन्भ्वाः फलं - दृन्भुफलं, कर्कन्धूश्च दृन्भुफलं च - कर्कन्धुदृन्भुफलम्, अलाबूश्च कर्कन्धुदृन्भुफलं च - अलाबुकर्कन्धुदृन्भुफलमिति । एवमपि फलेनाकृतोऽभिसंबन्धो भवति । नैष दोषः । प्रत्येकं फलशब्दः परिसमाप्यते ॥ (6460 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 3 ॥) ?B- इयङुवङव्ययप्रतिषेधः - इयङुवङ्भाविनामव्ययानां च प्रतिषेधो वक्तव्यः । श्रीकुलम्, भूकुलम् । काण्डीभूतम्, कुड्यीभूतम् - वृषलकुलम् ॥ (पर्युदासभाष्यम्) अभ्रूकुंसादीनामिति वक्तव्यम् । भ्ररुकुंसः,भ्ररुकुंसः। भ्ररुकुटिः, भ्ररुकुटिः। अपर आह - अकारो भ्रूकुंसादीनामिति वक्तव्यम् । भ्रकुंसः । भ्रकुटिः ॥

Kashika

इगन्तस्याङ्यन्तस्योत्तरपदे ह्रस्वो भवति गालवस्याचार्यस्य मतेनान्यतरस्याम्। ग्रामणिपुत्रः, ग्रामणीपुत्रः। ब्रह्मबन्धुपुत्रः,ब्रह्मबन्धूपुत्रः। इक इति किम्? खट्वापादः। मालापादः। अङ्य इति किम्? गार्गीपुत्रः। वात्सीपुत्रः। गालवग्रहणं पूजार्थम्। अन्यतरस्यामिति हि वर्तते। व्यवस्थितविभाषा चेयम्। तेनेह न भवति — कारीषगन्धीपुत्र इति। इयङुवङ्भाविनामव्ययानां च न भवति। श्रीकुलम्। भ्रूकुलम्। काण्डीभूतम्। वृषलीभूतम्। भ्रूकुंसादीनां तु भवत्येव। भ्रुकुंसः। भ्रुकुटिः। अपर आह॥ भ्रुकुंसादीनामकारो भवतीति वक्तव्यम्॥ भ्रकुंसः। भ्रकुटिः॥

Siddhanta Kaumudi

इगन्तस्याङ्यन्तस्य ह्रस्वो वा स्यादुत्तरपदे । ग्रामणिपुत्रः ग्रामणीपुत्रः । इकः किम् । रमापतिः । अङ्यः इति किम् । गौरीपतिः । गालवग्रहणं पूजार्थम् । अन्यतरस्यामित्यनुवृत्तेः ।<!इयङुवङ्भाविनामव्ययानां च नेति वाच्यम् !> (वार्तिकम्) ॥ श्रीमदः । भ्रूभङ्गः । शुक्लीभावः ।<!अभ्रुकुंसादीनामिति वक्तव्यम् !> (वार्तिकम्) ॥ भ्रुकुंसः । भ्रुकुटिः । भ्रूकुंसः । भ्रूकुटिः । अकारोऽनेन विधीयत इति व्याख्यान्तरम् । भ्रकुंसः । भ्रकुटिः । भ्रुवा कुंसो भाषणं शोभा वा यस्य स स्त्रीवेषधारी नर्तकः । भ्रुवः कुटिः कौटिल्यम् ॥

Balamanorama

इको ह्रस्वोऽङ्यो गालवस्य - इको ह्रस्वो । अङ्य इति च्छेदः । ग्रामणीपत्र इति । कर्मधारयः, षष्ठीसमासो वा । नीधातोरीकारोऽयं, नतु ङीप्प्रत्यय इति भावः । ननु गालवग्रहणस्य विकल्पार्थकत्वं किं न स्यादित्यत आह — अन्यतरस्यामित्यनुवृत्तेरिति । इयङुवङ्भाविनामिति । तदर्हाणामित्यर्थः । श्रीमदः भ्रूभङ्ग इति । श्रीभ्रूशब्दौ अजादिप्रत्यये परे इयङुवङ्र्हाविति भावः । शुक्लीभाव इति । अभूततद्भावे च्विप्रत्यये ‘अस्य च्वौ’ इति ईत्त्वम् । ‘च्वौ’ इति दीर्घः । ऊर्यादिच्विडाचश्चे॑ति निपातत्वादव्ययत्वमिति भावः । अभ्रूकुंसादीनामिति । भ्रूशब्दस्य उवङ्भावितया ह्रस्वनिषेधो यः प्राप्तः स नेत्यर्थः । अकारोऽनेनेति ।अ भ्रूकुंसादीना॑मिति वार्तिके ‘अ’ इति लुप्तप्रथमाकं पृथक्पदम् । तथा च भ्रूकुंसादीनामवयवो यो भ्रूशब्दस्तस्य अकारोऽन्तादेशः स्यादिति व्याख्यानान्तरमित्यर्थः । भ्रुवा कुंसो भाषणमिति । तत्तदर्थज्ञापनमित्यर्थः ।भ्रुकुंसश्च भ्रुकुंसश्च भ्रूकुसश्चेति नर्तकः॑ इत्यमरः,भ्रकुटिर्भ्रुंकुटिर्भ्रूकुटिः स्त्रियामि॑ति च ।

Padamanjari

ग्रामणिपुत्र इति । सत्सूद्विष इत्यादिना क्विप्, अग्रग्रमाभ्यान्नयतेः इति णत्वम् । गार्गीपुत्र इति । गार्ग्यशब्दाद् यञश्चेति ङीप् यस्येति च, हलस्तद्धितस्य । कारीषगन्धीपुत्र इति । ष्यङः संप्रसारणम् संप्रसारथणस्यः इति दीर्घः । काण्डीभूतमिति । ऊर्यादिज्विडाश्चेति निपातसंज्ञायामव्ययत्वम् । स्त्रीवेषधारी नर्तकः पुस्षः भ्रुकुअंसः । इहालाबुकर्कन्धुजम्बुफलमिति फलशब्द उतरपदे जम्ब्वा ह्रस्वत्वम्, द्वन्द्वे जम्ब्वामुतरपदे कर्कन्ध्वा ह्रस्वत्वम्, अलाब्वास्तु न प्राप्नोति, कर्कन्ध्व अनुतरपदत्वात् एवं तर्ह्येवं विग्रहः करिष्यते - अलाबूश्च कर्कन्धूश्च अलाबुकर्कन्धवौ, ते च जम्बूश्च अलाबुकर्कन्धुजम्ब्वः, तासां फलमलाबुकर्कन्धुजम्बुफलमिति, एवमपि जम्ब्वाः पूर्वनिपातः प्राप्नोति । एवं कर्कन्धुजम्ब्वोरपि द्वन्द्वे द्रष्टव्यम् । जम्बुशब्दो जम्बुशब्दो राजदन्तादिषु द्रष्टव्यः ॥

Nyaas

ग्रामणिपुत्रः इति। ग्रामं नयतीती सत्यूद्विष (3.2.61) इत्यादिना क्विप्। अग्रग्रामाभ्याञ्च नयतेः (कात्या।वा।5064) इति णत्वम्। गार्गीपुत्रः इति। यञश्च (4.1.16) इति गाग्र्यशब्दान्ङीप्, यस्येति च (6.4.148) इत्यकारस्य लोपः, हलस्तद्धितस्य (6.4.150) इति यकारस्य च। अथ दिकल्पार्थमेव गालवग्रहणं कस्मान्न भवति? इत्याह -अन्यतरस्याम् इत्यादि। कारीषगन्धीपुत्रः इति। करीषगन्ध्यायायः पुत्र इति षष्ठीसमासः ष्यङः सम्प्रसारणम् (6.1.13) इत्यादिना सम्प्रसारणम्, सम्प्रसारणाच्च (6.1.108) इति परपूरवत्वम्, हलः (6.4.2) (इति) सम्प्रसारणस्य दीर्घः। इयङुवङ्भाविनाम् इत्यादि। इयङुवङौ भाविनौ येषां ते तथोच्यन्ते। श्रीकुलम् इति। इयङ्भाविन उदाहरणम्। भ्रूकुलम् इति। उवङ्भाविनश्च। कण्डीभूतम्, वृषलीभूतम् इति। अवप्ययानाम्। काण्डवृषलशब्दाभ्यां अभूततद्भावे (5.4.50) इत्यादिना च्विः, अस्य च्वौ (7.4.32) इतीत्वम्। भ्रूकुंसः इति। भ्रूश्चासौ कुंसश्चेति विशेषणसमासः। एवं भ्रुकुटिः इत्यत्रापि। वक्तव्यम् इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -पृषोदरादित्वाद्भ्रुकुंसादीनामकारो भविष्यतीति॥

Prakriyasarvasvam

अङ्यन्तस्येक उत्तरपदे परे ह्रस्वो वा स्यात् । ग्रामणिपुत्रः । ग्रामणीपुत्रः । वधुजनः । वधूजनः । ङ्यन्तस्य तु गोपीपुत्रः । इयङुवङ्भाविनामव्ययानां च न । श्रीपुत्रः । भ्रूभङ्गः । शुक्लीभावः । च्व्यन्तत्वादव्ययत्वम् । भ्रूकुंसादेस्तु वा ह्रस्वः । भ्रुकुंसः भ्रूकुंसः । भ्रुकुटिः भ्रूकुटिः । एषामत्वं वाच्यमिति केचित् । भ्रकुंसः भ्रकुटिः ॥

Vartika

इयङुवङ्भाविनामव्ययानां च नेति वाच्यम् ।

Sutra Prayogas

  • परिणतजम्बुफलोपभोगहृष्टा (किरातार्जुनीयम्): इको ह्रस्वोऽङ्यो गालवस्य इति ह्रस्वः।

  • आबद्ध-भीम-भ्रुकुटी-विभङ्गः (भट्टिकाव्यम्): इको ह्रस्वोऽङयो गालवस्य इति ह्रस्वः।