63078: सहस्य सः संज्ञायाम्

Padacheda: सहस्य | S | 6 | 1 |

सः | S | 1 | 1 |

संज्ञायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

स is substituted for सह , in a Name.

Vasu English Translation

स is substituted for सह , in a Name. Thus साश्वत्थम्, सपलाशम्, सशिंशपम् ॥ Why when it is a Name? Observe सहयुध्वा, सहकृत्वा ॥ The word स꣡ह has acute on the first syllable, because all Particles have acute on the first syllable. The substitute स coming in the room of the acute स and the grave ह, will have an accent mid-way between स꣡ acute and ह॒ grave, namely, it would have the svarita accent. But, as a matter of fact, it has the acute accent. As स꣡पुत्रः, स꣡भार्यः ॥ These are Bahuvrihi. In Avyayibhava, the samasa-accent will prevail (6.1.223), as सेष्टि꣡, सपशुबन्ध꣡म् ॥

Bhashya

सहस्य सः संज्ञायाम् (2937) (सादेशाधिकरणम्) (6480 पूर्वपक्षिवार्तिकम् ॥ 1 ॥) - सहस्य हलोपवचनम् - सहस्य हलोपो वक्तव्यः ॥ सादेशे हि सति स्वरे दोषः । आन्तर्यत उदात्तानुदात्तयोः स्थाने स्वरित आदेशः प्रसज्येत । सपुत्रः । सभार्यः ॥ (सिद्धान्तभाष्यम्) स तर्हि लोपो वक्तव्यः । न वक्तव्यः । आद्युदात्तनिपातनं करिष्यते, स निपातनस्वरः प्रकृतिस्वरस्य बाधको भविष्यति । एवमप्युपदेशिवद्भावो वक्तव्यः । स यथैव निपातनस्वरः प्रकृतिस्वरं बाधते, एवं समासस्वरमपि बाधेत - सेष्टि, सपशुबन्धम् - इति ॥

Kashika

सहशब्दस्य स इत्ययमादेशो भवति संज्ञायां विषये। साश्वत्थम्। सपलाशम्। सशिंशपम्। संज्ञायामिति किम्? सहयुध्वा। सहकृत्वा। सादेश उदात्तो निपात्यते। उदात्तानुदात्तवतो हि सहशब्दस्यान्तर्यतः स्वरितः स्यात्। स च निपातनस्वरः पूर्वपदप्रकृतिस्वरत्वं यत्र, तत्र उपयुज्यते। अन्यत्र समासान्तोदात्तत्वेन बाध्यत एव — से॒ष्टि, स॒प॒शु॒ब॒न्धम् इति॥

Siddhanta Kaumudi

उत्तरपदे । सपलाशम् । संज्ञायां किम् । सहयुध्वा ॥

Balamanorama

सहस्य सः संज्ञायाम् - सहस्य सः । उत्तरपदे इति । शेषपूरणेनोक्तमिदम् । सहेत्यस्य स इत्यादेशः स्यादुत्तरपदे इत्यर्थः ।वोपसर्जनस्ये॑त्यस्यापवादः । सपलाशमिति ।तेन सहे॑ति बहुव्रीहिः । वनविशेषस्य संज्ञेयम् । सहयुध्वेति ।सबे चे॑ति क्वनिप् । असंज्ञात्वान्न सभावः ।

Tattvabodhini

सहस्य सः संज्ञायाम् - सहयुध्वेति ।सहे चे॑ति क्वनिप् । स्त्रियामपिवनो न हशः॑इति निषेधान्ङीब्राऔ न । समुहूर्तमिति । अन्तवचनेऽव्ययीभावः ।अव्ययीभावे चाऽकाले॑इत्यत्र कालपर्युदासादप्राप्ते सभावे ग्रन्थान्तग्रहणम् ।

Padamanjari

सहयुध्वेति । युध्यतेः क्वनिप् राजनि युधि कृञः सहे चेति सादेशः । उदातो निपात्यत इति । अन्यथा तु किं स्यात् इत्यत आह - उदातानुदातावतोहीति । सहशब्दे निपाता आद्यौदाताः इति सशब्द उदातः, शेषनिधाते हशब्दोऽनुदातः, तेनासावुदातानुदातवान् तस्य स्थाने भवत् सशब्द आन्तर्यतः स्वरितः स्यात्, तन्मा भूदेष देष इति उदातो निपात्यते । यद्येवम्, अव्ययीभावेऽपि तस्यैवोदातत्वं श्रूयेत तत्राद्द - स चेति । अयमभिप्रायः - समासे कृते समासस्वरश्च प्राप्नोति, अयं चादेशः, तत्र परत्वादस्मिन्नादेशे उदातेऽभिनिर्वृते पुनः प्रसङ्गविज्ञानात् समासस्वरः, स च सतिशिष्ट इति तस्यैव श्रवणम् । उदातनिपातनस्य तु यत्र पूर्वपदप्रकृतिस्वरत्वं बहुव्रीहितत्पुरुषयोस्तत्रैव श्रवणमिति । सेष्टि, सपशुबन्धमिति । अन्तवचनेऽव्ययीभावः ॥

Nyaas

साआत्थम् इति। सहाआत्थेनेति तेन सहेति तुल्ययोगे (2.2.28) इति बहुव्रीहिः। सहयुध्वा, सहकृत्वा इति। दृशेः क्वनिप् (3.2.94) इत्यनुवर्तमाने राजनि युधि कृञः (3.2.95) , सहे च (3.2.96) इति क्वनिप्, उपपदसमासः, सर्वनामस्थाने; (6.4.8) इति दीर्घः। किं पुनः कारणं सादेश उदात्तो निपात्यते? इत्यत आह -`उदात्तानुदात्तवतो हि इत्यादि। निपाता आद्युदाता भवन्ति` (फि।सू।4।80) इति सहशब्द आद्युदात्त एव, शेषमनुदात्तम्। तेनासावुदात्तानुदात्तवान्, ततश्चान्तर्यतस्तस्य स्थाने सशब्दः स्वरितः। तस्मान्मा भूदेष दोष इत्युदात्तो निपात्यते। यद्येवम्, अव्ययीभावेऽपि उदात्त एव स्वरः प्राप्नोति? इत्यत आह -स च निपातस्वरः इत्यादि। यत्र इत्यादि। बहुव्रीहौ तत्पुरुषे वा। बहुव्रीहौ प्रकृत्या पूर्वपदम् (6.2.1) इति सहेत्येतस्य समासान्तोदात्तत्वापवादः प्रकृतिस्वरत्वं भवति। तत्पुरुषेऽपि तत्पुरुषे तुल्यार्थ (6.2.2) इत्यादिना। तस्मात्? तत्रैव स निपातस्वरः प्रसज्यते। अव्ययीभावे तु समासान्तोदात्तत्वापवादः प्रकृतिस्वरो न केनचिद्विहित इति ततर समासान्तोदात्तत्वेनैव भवितव्यम्। अतस्तेन बाध्यत एव। सेष्टि, सपशृबन्धम् इति। इष्टिरन्तो यस्य पशुबन्धोऽन्तो यस्येति, अव्ययं विभक्ति (2.1.6) इत्यादिना समासः, अन्तवचने। अत्र परत्वात्? प्रथमसतावन्नपतस्वरः, ततः समासान्तोदात्तत्वम्। तच्च सति निपातस्वरे शिष्यत इति सतिशिष्टम्, अतस्तेन निपातस्वरो बाध्यते; सतिशिष्टस्वरस्य वलयस्त्वात्॥

Prakriyasarvasvam

साश्वत्थं सपलाशमित्याख्या ।।