Sutras 21 - 40¶
- 62021: आशङ्काबाधनेदीयस्सु संभावने
- 62022: पूर्वे भूतपूर्वे
- 62023: सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये
- 62024: विस्पष्टादीनि गुणवचनेषु
- 62025: श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये
- 62026: कुमारश्च
- 62027: आदिः प्रत्येनसि
- 62028: पूगेष्वन्यतरस्याम्
- 62029: इगन्तकालकपालभगालशरावेषु द्विगौ
- 62030: बह्वन्यतरस्याम्
- 62031: दिष्टिवितस्त्योश्च
- 62032: सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्
- 62033: परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु
- 62034: राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु
- 62035: संख्या
- 62036: आचार्योपसर्जनश्चान्तेवासी
- 62037: कार्तकौजपादयश्च
- 62038: महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु
- 62039: क्षुल्लकश्च वैश्वदेवे
- 62040: उष्ट्रः सादिवाम्योः