62039: क्षुल्लकश्च वैश्वदेवे

Padacheda: क्षुल्लकः | S | 1 | 1 |

च | S | 0 | 0 |

वैश्वदेवे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The words महत् and क्षुल्लक retain their accent before the word वैश्वदेव।

Vasu English Translation

The words महत् and क्षुल्लक retain their accent before the word वैश्वदेव। Thus महा꣡वैश्वदेवम्, and क्षुल्लक꣡वैश्वदेवम् ॥ The word kshullaka is derived thus क्षुधं लाति = क्षुल्लः to which the Diminutive क (5.3.73)&c)) is added : and the word has udatta on the final.

Kashika

क्षुल्लक इत्येतत् पूर्वपदं महांश्च वैश्वदेव उत्तरपदे प्रकृतिस्वरं भवति। क्षु॒ल्ल॒कव॑ैश्वदेवम्। म॒हाव॑ैश्वदेवम्। क्षुयं लातीति क्षुल्लः। तस्मादज्ञातादिषु प्रागिवात् केऽन्तोदात्तः क्षुल्लकशब्दः॥

Siddhanta Kaumudi

चान्महान् । क्षुल्लकवैश्वदेवम् । महावैश्वदेवम् । क्षुधं लातीति क्षुल्लः । तस्मादज्ञातादिषु केऽन्तोदात्तः ॥

Padamanjari

क्षुधं लातीति क्षुल्लः। आतोऽनुपसर्ग कः, तोर्लि इति परसवर्णः ॥

Nyaas

क्षुधं लातीति क्षुल्लः इति। आतोऽनुपसर्गे कः (3.2.3) इति कप्रत्ययः। तोर्लि (8.4.59) इति परसवर्णः॥

Prakriyasarvasvam

अस्मिन्परे क्षुल्लको महांश्च प्रकृत्या स्यात् । क्षुल्लकवैश्वदेवम् । क्षुल्लात् *कः । महावैश्वदेवम् ।