62034: राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु

Padacheda: राजन्य-बहुवचन-द्वन्द्वे | S | 7 | 1 |

अन्धक-वृष्णिषु | S | 7 | 3 |

Sutrartha


Vasu English Summary

The first member of a द्वन्द समास formed of names denoting the क्षत्रिय (warrior) clans in the plural number retains its original accent when the warrior belongs to the clan of अन्धक or वृष्णि।

Vasu English Translation

The first member of a द्वन्द समास formed of names denoting the क्षत्रिय (warrior) clans in the plural number retains its original accent when the warrior belongs to the clan of अन्धक or वृष्णि। Thus श्वाफल्क꣡चैत्रकाः, चैत्रक꣡रोधका, शि꣡निवासुदेवाः ॥ The words Svaphalka and Chaitraka are formed by अण् affix (4.1.114) and have acute on the last (3.1.3). The word शिनि has acute on the first syllable, and does not change in denoting Patronymic. Why do we say ‘in denoting a Warrior clan’? Observe द्वैप्यहैमायनाः ॥ Here द्वैप्य is derived from द्वीप by the affix यञ् (IV. 3. I0) = द्वीपे भवाः; हैमायनः = हैमेरपत्यं युवा ॥ These names belong to Andhaka and Vrishni clans, but are not the warrior-names. The word राजन्य here means those Kshatriyas who belong to the family of annointed kings and warriors (अभिषिक्तवंश्याः); these (Dvaipya and Haimayana) do not belong to any such family. Why do we say ‘in the Plural number’? Observe संकर्षणवासुदेवौ꣡ ॥ Why do we say ‘in a Dvandva compound’? Observe वृष्णीनां कुमाराः = वृष्णिकुमाराः꣡ ॥ Why do we say ‘of Andhaka and Vrishni clans’? Observe कुरुपञ्चालाः꣡ ॥

Kashika

राजन्यवाचिनां बहुवचनान्तानां यो द्वन्द्वोऽन्धकवृष्णिषु वर्तते, तत्र पूर्वपदं प्रकृतिस्वरं भवति। श्वा॒फ॒ल्कच॑ैत्रकाः। च॒ैत्र॒करो॑धकाः। शिनि॑वासुदेवाः। श्वाफल्कशब्दश्चैत्रकशब्दश्च ऋष्यन्धकवृष्णिकुरुभ्यश्च (४.१.११४) इत्यणन्तावन्तोदात्तौ। शिनिशब्द आद्युदात्तः, स तदपत्येष्वभेदेन वर्तते। राजन्य इति किम् ? द्व॒ैप्य॒ह॒ैमा॒य॒नाः। द्वीपे भवा इति द्वीपादनुसमुद्रं यञ् (४.३.१०)। हैमेरपत्यं युवा हैमायनः। अन्धकवृष्णय एते न तु राजन्याः। राजन्यग्रहणमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम्। एते च नाभिषिक्तवंश्याः। बहुवचनग्रहणं किम् ? सं॒क॒र्ष॒ण॒वा॒सु॒दे॒वौ। द्वन्द्व इति किम् ? वृष्णीनां कुमारा वृ॒ष्िणकु॒मा॒राः। अन्धकवृष्णिष्विति किम् ? कु॒रु॒प॒ञ्चा॒लाः (तै० ब्रा० १.८.४.१)॥

Siddhanta Kaumudi

राजन्यवाचिनां बहुवचनान्तानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या । श्वाफल्कचैत्रकाः । शिनिवासुदेवाः । शिनिराद्युदात्तो लक्षणया तदपत्ये वर्तते । राजन्येति किम् । द्वैप्यभैमायनाः । द्वीपे भवा द्वैप्याः । भैमेरपत्यं युवा भैमायनः । अन्धकवृष्मय एते न तु राजन्याः । राजन्यग्रहमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम् । नैते तथा । बहुवचनं किम् । संकर्षणवासुदेवौ । द्वन्द्वे किम् । वृष्णीनां कुमाराः वृष्णिकुमाराः । अन्धकवृष्णिषु किम् । कुरुपञ्चालाः ॥

Padamanjari

श्वाफल्कचैत्रकरोधका इति । प्रमादपाठोऽयम् । अत्र त्रिपदे हि द्वन्द्वे यत्यक्वमपेक्षेय पूर्वपदं तस्यैव भवति, ततश्च चैत्रकशब्दस्य स्वरवचनमनुपपन्नं, तस्मात् श्वाफल्कचैत्रकाश्चैत्रकरीधको इति पाठः । एकस्तु चैत्रकशब्दो लेखकैः पुनरुक्तिशङ्कया त्यक्तः । शिनिशब्द आद्यौदात इति । शिङे निन् ह्रस्वश्च बहुलवचनात् । तदपत्येष्विति । यद्यपि शिनिशब्द इति प्रकृतम्, तथापि शब्दस्यापत्यास्यासम्भवाच्छिनेः क्षत्क्षियस्यैव यान्यपत्यानि तेष्वित्यर्थः। अभेदेन - अभेदोपचारेण । ननु च राज्ञोऽपत्ये जातिग्रहणम् इति वचनाद् राजन्यशब्दः क्षत्रियजतिवचनः, ततश्च द्वैप्यभैमायना एइत्युक्तं प्रत्युदाहरण् नोपपद्यते, तेषामपि क्षत्रियत्वाद् अत आह - राजन्यग्रहणमित्यादि । अन्धकवृष्णीनां क्षत्रियत्वाव्यभिचाराद् राजन्यग्रहणमुक्तविशेषपरिग्रहार्थमिति भावः ॥

Nyaas

राजन्यवाचीनि यान्यसमस्तानि बहुवचनान्तानि तदवयवको यो द्वन्द्वः स राजन्यबहुवचनद्वन्दव इत्युक्तः। आआफल्कचैत्रकरोधकाः इति। आआफल्काश्च चैत्रकाश्च रोधकाश्चेति द्वन्द्वः। तत्र रोधकशब्दमपेक्ष्य चैत्रकशब्दस्य पूर्वपदत्वम्, चैत्रकशब्दमपेक्ष्य आआफल्कशब्दस्य, तयोरपि प्रकृतिभावः। अत एव तयोद्र्वयोरपि स्वरं दर्शयितुमाह -आआफल्कशपब्दश्चैत्रकशब्दश्च इत्यादि। शिनिशब्द आद्युदात्तः इति। स हि -वीज्याज्वरिभ्योनिः (द।उ।1।18) इति निप्रत्ययेऽनुवर्तमाने वहिश्रिश्रुद्रुग्लाहात्वरिभ्यो नित् (द।उ।1।21) [वहिश्रियुश्रुग्लाहात्वरिभ्यो -द।उ।] इति विधीयमाने शीङोऽपि भवति। बहुलवचनाद्? ह्रस्वत्वं च तत एव। तेनाद्युदात्तो भविता नित्स्वरेण। तदपत्येषु इति। तस्य शिनेः श्रत्त्रियस्य यान्यपत्यानि तेष्वित्यर्थः। अभेदेन इति। उपचरेणेत्यर्थः। हैमायनाः इति। यञिञोश्च (4.1.101) इति फक्। ननु च राजन्यशब्दोऽयं क्षत्रियजातिवचनः, तथा चोक्तम् -राज्ञोऽपत्ये जातिग्रहणम् (वा।392) इति; राजन्यो भवति क्षत्रियश्चेत्` इति। यश्चान्धकवृष्णिषु वर्तते द्वन्द्वः स तु क्षत्रियवाचिनामेव भवति; अन्धकवृष्णीनां क्षत्रियत्वात्। ततश्च द्वैप्यहैमायना इत्युक्तं प्रत्युदाहरणम्। अयमपि हि राजन्यवाचिनामेव द्वन्द्वः; अन्धकवृष्णिषु वर्तमानत्वदित्यत आह -अन्धकवृष्णयः इत्यादि। अन्धकवृष्णिषु इत्येतावतैव क्षत्रियग्रहणे सिद्धे यद्राजन्यग्रहणं क्रियते, तस्यैतत्? प्रयोजनम् -विशिष्टा येऽभिषिक्तवंश्यास्तेषां ग्रहणं यथा स्यादित्येवमर्थम्। विद्यया जन्मना वा प्राणिनामेकलक्षणः सन्तानः=वंशः, इह तु जन्मना य एकलक्षणः सोऽभिप्रेतः, तत्र भवो वंश्यः, दिगादित्वात्? (4.3.54) । यत्। तत्रैतत्? स्यात्। द्वैप्यहैमायना अप्यभिषिक्तवंश्य एव क्षत्त्त्रियाः? इत्यत आह -एते च इत्यादि। सङ्कर्षणवासुदेवौ इति। सङ्कर्षणश्च वासुदेवश्चेत्येकवचनान्तयोरयं द्वन्द्वः। वृष्णिकुमाराः इति। तत्पुरुषोऽयम्। कुरुपाञ्चालाः इति। अत्र सर्वमस्ति, तथाप्यन्धकवृष्णिग्रहणान्न भवति; तत्रावृत्तेः॥

Prakriyasarvasvam

अन्धकवृष्णिराजवाचिनां बहुवचनान्तानां द्वन्द्वे प्राक्पदं प्रकृत्या स्यात् । श्वाफल्कचैत्ररथाः । ‘ऋष्यन्धक-’ (४-१-११४) इत्यण् । शिनि वासुदेवाः । शिनिरन्तोदात्तः तत्सुतेष्वभेदेन वर्तते । बहुवचनोक्तेः सङ्कर्षणवासुदेवौ ।