62021: आशङ्काबाधनेदीयस्सु संभावने

Padacheda: आशङ्क-आबाध-नेदियस्सु | S | 7 | 3 |

संभावने | S | 7 | 1 |

Sutrartha


Vasu English Summary

The first member of a तत्-पुरुष समास preserves its original accent before words आशङ्क , आबाध and नेदीयस् , when it treats about a supposition.

Vasu English Translation

The first member of a तत्-पुरुष समास preserves its original accent before words आशङ्क , आबाध and नेदीयस् , when it treats about a supposition. The word संभावनम् = अस्तित्वाध्यवसायः ‘the hesitation about the existence of a thing’. Thus ग꣡मनाशङ्कं वर्तते ‘one fears the journey’; so also व꣡चनाशङ्कं, व्याह꣡रणाशङ्कं, &c. Similarly ग꣡मनाबाधम् वर्तते = गमनं बाध्यते इति संभाव्यते “it has stepped in as an obstacle to journey”. So also व꣡चनाबाधम्, व्याह꣡रणाबाधम् ॥ Similarly ग꣡मनेदीयो वर्त्तते, व꣡चननेदीयः व्याह꣡रणनेदीयः = गमनमिति निकटतरमिति संभाव्यते “the journey stands directly before”.

Why do we say when a supposition is meant? Observe परमनेदीयः ॥ All the above words are formed by ल्युट् affix and have लित् accent. (6.1.193).

Kashika

प्रकृत्या पूर्वपदं तत्पुरुष इति वर्तते। आशङ्क आबाध नेदीयस् इत्येतेषूत्तरपदेषु संभावनवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। अस्तित्वाध्यवसायः संभावनम्। गम॑नाशङ्कं वर्तते। गमनमाशङ्क्यत इति संभाव्यते। वच॑नाशङ्कम्। व्या॒हर॑णाशङ्कम्। आबाध — गम॑नाबाधम्। वच॑नाबाधम्। व्या॒हर॑णाबाधम्। गमनं बाध्यत इति संभाव्यते। नेदीयस् — गम॑ननेदीयः। व्या॒हर॑णनेदीयः। गमनमतिनिकटतरमिति संभाव्यते। संभावन इति किम् ? प॒र॒म॒ने॒दी॒यः। पूर्वपदानि ल्युडन्तान्युक्त स्वराणि॥

Siddhanta Kaumudi

अस्तित्वाध्यवसायः संभावनम् । गमनाशङ्कमस्ति । गमनाबाधम् । गमननेदीयः । गमनमाशङ्क्यते आबाध्यते निकटतरमिति वा संभाव्यते । संभावने किम् । परमनेदीयः ॥

Padamanjari

शकि शङ्कायाम् बाधृ विलोडने, आङ्पूर्वाभ्यां कर्मणि घञ् । अतिशयेनान्तिको नेदीयः, अन्तिकबाढयोर्नेदसाधौ । अस्तित्वाध्यवसायः - अस्तित्वनिश्चयः। गमनाशङ्कादयो विशेषणसमासाः, मयूरव्यंसकादयो वा ॥

Nyaas

शकि शङ्कायाम् (धातुपाठः-86) इत्येतस्मात्? गुरोश्च हलः (3.3.103) इत्यकारप्रत्ययः। केचित्तु घञन्तसय शङ्कशब्दस्य ग्रहणमिति वर्णयन्ति। बाधु लोडने (धातुपाठः-5) इत्यस्मादाङ्पूर्वात्? धञि आबाधः। अत्यर्थमन्तिकं नेदीयः। अन्तिकशब्दस्य अन्तिकबाढयोर्नेदसाधौ (5.3.63) इतीयसुनि परतोनेदादेशः। अस्तित्वाध्यवसायः इति। असतित्वनिश्चय इत्यर्थः। गमनाशङ्कम् इति। षष्ठीसमासः। क्रियाविशेषणत्वान्नपुंसकलिङ्गम्, लोकाश्रयत्वाद्वा लिङ्गस्य॥

Prakriyasarvasvam

एषु परेषु सम्भावनार्थतत्पुरुषे प्राक्पदं प्रकृत्या स्यात् । गमनशङ्कं वर्तते । गमनाबाधम् । गमननेदीयः । गमनमाशङ्क्यते, आबाध्यते, अन्तिकतरमिति च संभाव्यत इत्यर्थः ।