62027: आदिः प्रत्येनसि

Padacheda: आदिः | S | 1 | 1 |

प्रत्येनसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

In a कर्मधारय समास of कुमार followed by प्रत्येनस् the acutely accented (उदात्त) falls on the first syllable of कुमार।

Vasu English Translation

In a कर्मधारय समास of कुमार followed by प्रत्येनस् the acutely accented (उदात्त) falls on the first syllable of कुमार। The word प्रत्येनस् = प्रतिगत एनसा or प्रतिगतमेनो यस्य ॥ Thus कु꣡मारप्रत्येनाः ॥ The word udatta is required to be read into the sutra to complete the sense : for the construction of the sutra requires it, and the anuvritti of the ‘first member preserves its accent’ would be inappropriate because the word आदि is employed here.

Kashika

कर्मधारय इति वर्तते। प्रतिगत एनसा, प्रतिगतमेनो वा यस्य स प्रत्येनाः। तस्मिन्नुत्तरपदे कर्मधारये कुमारस्यादिरुदात्तो भवति। कुमा॑रप्रत्येनाः। उदात्त इत्येतदत्र सामर्थ्याद् वेदितव्यम्। पूर्वपदप्रकृतिस्वर एव ह्ययमादेरुपदिश्यते॥

Siddhanta Kaumudi

कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्मधारये । प्रतिगतमेनोऽस्य प्रत्येनाः । कुमारप्रत्येनाः ॥

Padamanjari

प्रतिगत एनसेति। अवादयः कुष्टाद्यर्थे तृतीयया इति तत्पुरुषः । द्वितीये तु विग्रहे बहुव्रीहिः । कथं पुननन्तरेणोदातग्रहमुदातस्वरो लभ्यते इत्याह - उदात इत्येतदिति । सामर्थ्यमेव दर्शयति । पूर्वपदेति । प्रकृत्येति हि वर्तते, तत्रैवमभिसम्बन्धः - पूर्वत्र कुमारशब्दे प्रकृतिभावेन यः स्वरः सथापितः सोऽत्रादेर्भवतीति॥

Nyaas

प्रतिगत एनसा इति। अनेन अवादयः क्रुष्टाद्यर्थे तृतीयया (वा।92) इति तत्पुरुषत्वं प्रत्येनःशब्दस्य दर्शयति। प्रतिगतमेनो वा यस्य इति। अनेन बहुव्रीहित्वम्। कुमारप्रत्येनाः इति। अत्वसन्तस्य चाधातोः (6.4.14) इति दीर्घः। ननु च नेह सूत्र उदात्तग्रहणमस्ति, तत्? कथमुदात्तस्वरो लभ्यते? इत्याह -उदात्त इत्येतदिह इत्यादि। किं पुनस्तत्सामर्थ्यम्? इत्याह -पूर्वपद इत्यादि। न हि प्रकृतिस्वरादन्य एव स्वर उच्यते। किं तर्हि? प्रकृतिस्वर एव; यतः प्रकृत्येति वर्तते। तत्रैवमभिसम्बन्धः क्रियते -प्रकृतिभावेन कमारशब्दस्य यः स्वरः प्राप्तः स आदेर्भवतीति। एवञ्च सामर्थ्यादुदात्तो लभ्यते। स एव हि कुमारशब्दस्य प्रकृतिभावेन स्वरः॥

Prakriyasarvasvam

कर्मधारयेऽस्मिन्परे कुमारस्यादिरुदात्तः स्यात् । कुमारप्रत्येनाः । प्रतिगत- एनसा प्रतिगतमेनो वा यस्येति व्युत्पत्तिः ।