62035: संख्या¶
Padacheda: संख्या | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The numeral word standing as the first member of a द्वन्द समास , preserves its accent.
Vasu English Translation¶
The numeral word standing as the first member of a द्वन्द समास , preserves its accent. Thus ए꣡कादश, द्वा꣡दश, त्र꣡योदश or त्रयोद꣡श ॥ The word एक is derived from इण् by कन् affix (Unadi III.43) and has acute on the first (6.1.197). The त्रयस् is the substitute of त्रि (6.3.48) and has acute on the final.
Kashika¶
द्वन्द्वसमासे संख्यावाचि पूर्वपदं प्रकृतिस्वरं भवति। एका॑दश (तै० सं० ४.७.११.१)। द्वाद॑श। त्र॒योद॑श। इण्भीकापाशल्यतिमर्चिभ्यः कन् (प०उ० ३.४३) इति नित्त्वादाद्युदात्त एकशब्दः। त्रेस्त्रयस् आदेशोऽन्तोदात्तो निपात्यते॥
Siddhanta Kaumudi¶
संख्यावाचि पूर्वपदं प्रकृत्या द्वन्द्वे । द्वादश । त्रयोदश । त्रेस्त्रयसादेश आद्युदात्तो निपात्यते ॥
Padamanjari¶
एकादशोति । सङ्ख्याया अल्पीयस्याः इत्येकशब्दस्य पूर्वनिपातः, प्रागेकादशभ्यो च्छन्दसि इति निपातनाद्दीर्घः । द्वादशेति। द्व्यष्टनः सङ्ख्यायाम् इत्यात्वम् ॥
Nyaas¶
एकादश इति। एकश्च दश चेति द्वन्द्वः। द्वादश इति द्व्यष्टनः संख्यायामबहुव्रीह्रशीत्योः (6.3.46) इत्यात्तवम्॥
Prakriyasarvasvam¶
संख्यार्थं प्राक्पदं प्रकृत्या स्यात् । दिव्यैकादश(स्थ?) क्नि एकः द्वादश प्रधयः ।