62032: सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्¶
Padacheda: सप्तमी | S | 7 | 1 |
सिद्ध-शुष्क-पक्व-बन्धेषु | S | 7 | 3 |
अकालात् | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
When a word ending in the Locative -7th case does not denote time preserves its original accent when followed by 1. सिद्ध 2. शुष्क 3. पक्व and 4. बन्ध in a compound.
Vasu English Translation¶
When a word ending in the Locative -7th case does not denote time preserves its original accent when followed by 1. सिद्ध 2. शुष्क 3. पक्व and 4. बन्ध in a compound. Thus सांकाश्य꣡सिद्धः or सांका꣡श्यसिद्धः, काम्पिल्य꣡सिद्धः or काम्पि꣡ल्यसिद्धः ॥ The words samkasya and kampilya have acute on the final, and by Phit Sutra (III.16) in the alternative the accent falls on the middle also. So also निध꣡नशुष्कः, ऊक꣡शुष्कः ॥ The word निधन is derived by क्यु affix added to नि-धाञ् and has acute on the middle; the word ऊक is formed from अव् root by the affix कक्, and has acute on the final. So also भ्रा꣡ष्ट्रपक्वः, कुम्भी꣡पक्वः, कलशी꣡पक्वः ॥ The words Kumbhi and Kalasi are formed by ङीष् affix and have acute on the final; the word भ्राष्ट्र is formed by ष्ट्रन् affix, and has acute on the beginning. So also चक्र꣡बन्धः चा꣡रकबन्धः ॥ The word chakra has acute on the final, and charaka being formed by ण्वुल् has acute on the first.
Why do we say ‘when not denoting time’? Observe पूर्वाह्णसिद्धः꣡, अपराह्णसिद्धः꣡ ॥ The compounding takes place by (2.1.41). The accent of the Locative Tatpurusha taught in (6.2.1) was debarred by Krit-accent taught (6.2.144). The present sutra debars this last rule regarding Krit accent, and reordains the Locative Tatpurusha accent when the Krit-words are सिद्ध &c.
Kashika¶
सप्तम्यन्तं पूर्वपदं सिद्ध शुष्क पक्व बन्ध इत्येतेषूत्तरपदेषु प्रकृतिस्वरं भवति, सा चेत् सप्तमी कालाद् न भवति। सां॒का॒श्यसि॑द्घः। का॒म्पि॒ल्यसि॑द्घः। सांकाश्यकाम्पिल्यशब्दौ ण्यप्रत्ययान्तावन्तोदात्तौ। फिषि तु सांकाश्यकाम्पिल्यनासिक्यदार्वाघाटानाम् (फिट् सू० ६५) अन्तः पूर्वं वेति पठ्यते। तत्र पक्षे मध्योदात्तावपि भवतः। शुष्क — ऊ॒कशु॑ष्कः। नि॒धन॑शुष्कः। ऊकशब्दो बहुलवचनादवतेः कक्प्रत्ययान्तोऽन्तोदात्तः। निधनशब्दो निधाञः क्युप्रत्यये मध्योदात्तः। पक्व — कु॒म्भी॑पक्वः। क॒ल॒सीप॑क्वः। भ्राष्ट्॑रपक्वः। कुम्भीकलसीशब्दौ ङीषन्तावन्तोदात्तौ। भ्राष्ट्रशब्दः ष्ट्रन्प्रत्ययान्त आद्युदात्तः। बन्ध — च॒क्रब॑न्धः। चार॑कबन्धः। चक्रशब्दोऽन्तोदात्तः। चारकशब्दो ण्वुलन्त आद्युदात्तः। अकालादिति किम् ? पू॒र्वा॒ह्ण॒सि॒द्धः। अ॒प॒रा॒ह्ण॒सि॒द्धः। सप्तमीस्वरः कृत्स्वरेण बाधितः पुनरयं विधीयते॥
Siddhanta Kaumudi¶
अकालवाचि सप्तम्यन्तं प्रकृत्या सिद्धादिषु । साङ्काश्यसिद्धः । साङ्काश्येति ण्यान्तः । आतपशुष्कः । भ्राष्ट्रपक्वः । भ्राष्ट्रेति ष्ट्रन्नन्तः । चक्रबन्धः चक्रशब्दोऽन्तोदात्तः । अकालात्किम् । पूर्वाह्णसिद्धः । कृत्स्वरेण बाधितः सप्तमीस्वरः प्रतिप्रसूयते ॥
Padamanjari¶
ण्यप्रत्ययान्ताविति। वुञ्च्छणादिषु सङ्काशादिभ्यो ण्यः। अवतेः कक्प्रत्ययः, ज्वरत्वर इत्यादिनोठ, ऊकः । कुम्भकलशशब्दाभ्यां जातिलक्षणो ङीष्, भ्राष्ट्रशब्दो भ्रस्जेष्ट्रनि वृद्धौ च व्युत्पादितः । चक्रशब्दः कुञः को द्वे च। सप्तमीस्वर इत्यादि। तत्पुरुषे तुल्यार्थ इत्यादिना सप्तम्यन्स्य यः प्रकृतिभावः परत्वात्थाथादिस्वरेण बाधित इति। यत्र तु कृत्स्वरेण बाधित थैति पाठः, तत्र कृदान्तस्य यः स्वरः थाथादिलक्षणस्तेनेत्यर्थः ॥
Nyaas¶
साङ्काश्यसिद्धः इति। सिद्धशुष्कपक्वबन्धैश्च (2.1.41) इति समासः। साङ्काश्यकाम्पिल्यशब्दौण्यप्रत्ययान्तत्वात् इति। वुच्छण् (4.2.79) इत्यादिना सङ्काशादिलक्षणं चातुरार्थिकप्रत्ययं विधाय व्युत्पादितत्वात्। ऊकशब्दः इत्यादि। कृदाधारार्चिकलिभ्यः कः (द।उ।3।18) इत्यधिकृत्य `सृदृभूशुषिमुषिभ्य कक् [कित् - द।उंउद्रितः पाठः] (द।उ।उ।19) इति कक्प्रत्ययः किद्? विधीयमानोऽवतेरपि भवतीति। तनोकशब्दः कक्प्रत्ययान्तः। ज्वरत्वर (6.4.20) इत्यादिना वतेरूठ्। निधनशब्दो निघाञः क्युप्रत्यये मध्योदात्तः इति। निधनशब्दोऽयं कृपृवृजिमन्दि निधाञः क्युः (द।उ।5।26) [निधाञ्भ्यः मुद्रितः पाठः - द।उ। सप्तम्येकवचने इकोऽचि विभक्तौ (7.1.73) इति नुमं कृत्वा शब्दरूपापेक्षया नपुंसकलिङ्गं वेदितव्यम्। क्युरित्येतस्मिन्? शब्दरूपे प्रत्ययसंज्ञकं इत्यर्थः। कुम्भीकलसीशब्दौ ङीपन्तौ इति। तेनान्तोदात्ताविति भावः। ङीषन्तता तु जातेरस्त्रीविषयात् (4.1.63) इत्यादिना विहितेन ङीषा वेदितव्यमा। भ्राष्ट्रशब्दः ष्ट्रन्प्रत्ययान्तः इति। ष्ट्रन् (द।उ।8।79) इति वर्तमाने भ्रस्जिगमिनमिहनिविष्यशां वृद्धिश्च [विश्यशां इति मुद्रितन्यासपाठः]
Prakriyasarvasvam¶
सप्तम्यन्तं सिद्धादौ परे प्रकृत्या स्यात्, (तच्चेत्कालात्परं न भवति) साङ्काश्यसिद्धः । निधानशुष्कः । कुम्भीपक्वः । चक्रबन्धः ।
Sutra Prayogas¶
करेणुवर्याः (किरातार्जुनीयम्): सप्तमी इति योगविभागात् सप्तमीसमासः।