62028: पूगेष्वन्यतरस्याम्

Padacheda: पूगेषु | S | 7 | 3 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The first syllable of कुमार is optionally acutely accented (उदात्त) when the second member is a word denoting ‘the name of a horde’.

Vasu English Translation

The first syllable of कुमार is optionally acutely accented (उदात्त) when the second member is a word denoting ‘the name of a horde’. The word पूग means ‘a multitude, a collection &c’. See (5.3.112) also. Thus कु꣡मारचातकाः or कुमार꣡चातका (6.2.26), or कुमारचातकाः꣡ ॥ So also कु꣡मारलोहध्वजाः or कुमार꣡लोहध्वजाः or कुमारलोहध्वजाः꣡ ॥ So also with कु꣡मार꣡बलाहकाः꣡, कु꣡मार꣡जीमूतकाः꣡ ॥ Here चातक &c, are horde-names; and the affix ञ्य is added to them by (5.3.112): which is elided in the Plural by (2.4.62). In the above examples when the word ‘Kumara’ is not accented on the first syllable, it gets accent on the last by (6.2.26), when the प्रतिपदोक्त maxim is not applied : when that maxim is applied, the final of the compound takes the accent by the general rule (6.1.223).

Kashika

पूगा गणाः तद्वाचिन्युत्तरपदे कर्मधारये समासे कुमारस्यान्यतरस्यामादिरुदात्तो भवति। कुमा॑रचातकाः, कु॒मा॒रचा॑तकाः, कु॒मा॒र॒चा॒त॒काः। कुमा॑रलोहध्वजाः, कु॒मा॒रलो॑हध्वजाः, कु॒मा॒र॒लो॒ह॒ध्व॒जाः। कुमा॑रबलाहकाः, कु॒मा॒रब॑लाहकाः,कु॒मा॒र॒ब॒ला॒ह॒काः। कुमा॑रजीमूताः, कु॒मा॒रजी॑मूताः, कु॒मा॒र॒जी॒मू॒ताः। चातकादयः पूगशब्दाः, तेभ्यः पूगाञ्ञ्योऽग्रामणीपूर्वात् (५.३.११२) इति ञ्यः प्रत्ययः, तस्य तद्राजस्य बहुषु० (२.४.६२) इति लुक्। अत्र यदाद्युदात्तत्वं न भवति, तदा कुमारश्च (६.२.२६) इति पूर्वपदप्रकृतिस्वरत्वमेके कुर्वन्ति। ये तु तत्र प्रतिपदोक्त स्य ग्रहणमिच्छन्ति तेषां समासान्तोदात्तत्वमेव भवति॥

Siddhanta Kaumudi

पूगा गणास्तेषूक्तं वा । कुमारचातकाः । कुमारजीमूताः । आद्युदात्तत्वाभावे कुमारश्च (SK3760) इत्येव भवति ॥

Prakriyasarvasvam

गणेषु परेषु कर्मधारये कुमारस्यादिरुदात्तो वा स्यात् । कुमारशिबयः । पूगात्र ्ञ्यस्य ‘तद्राज-’ (२-४-६२) इति लुक् ।