62040: उष्ट्रः सादिवाम्योः

Padacheda: उष्ट्रः | S | 1 | 1 |

सादिवाम्योः | S | 7 | 2 |

Sutrartha


Vasu English Summary

The word उष्ट्र retains its accent before सादि and वामि।

Vasu English Translation

The word उष्ट्र retains its accent before सादि and वामि। Thus उ꣡ष्ट्रसादि and उ꣡ष्ट्रवामि ॥ The word उष्ट्र is derived from उप् by ष्ट्रन् affix (Unadi IV. 162) and has acute on the first (6.1.197). This is either a Karmadharaya or a Genitive compound. In some texts the above examples are given with a visarga in the masculine, and not Neuter.

Kashika

उष्ट्रशब्दः पूर्वपदं सादिवाम्योरुत्तरपदयोः प्रकृतिस्वरं भवति। उष्ट्॑रसादि। उष्ट्र॑वामि। उष्ट्रशब्द उषेः ष्ट्रन्प्रत्ययान्तः (प० उ० ४.१६३) आद्युदात्तः। कर्मधारयोऽयं षष्ठीसमासो वा॥

Siddhanta Kaumudi

उष्ट्रसादी । उष्ट्रवामी । उषेः ष्ट्रनि उष्ट्रशब्द आद्युदात्तः ॥

Padamanjari

उष्ट्रशब्दः ष्ट्रन्प्रत्ययान्त इति। उष दाहे इत्येतस्मात् ष्ट्रन् इति वर्तमाने उषिखनिभ्यां कित् इत्येवं व्युत्पादितत्वात् ॥

Nyaas

सर्वधातुभ्यः ष्ट्रन् (पं।उ।4।158) इत्यस्मात्? ष्ट्रन्नितयनुवरतमाने उषिखनिभ्यां कित्? (पं।उ।4।161) इत्येवं व्युत्पादितत्वात्॥

Prakriyasarvasvam

अनयोः (उष्ट्रः प्रकृत्या स्यात्) । उष्ट्र ष्ट्रन् । उष्ट्रसादिः । उष्ट्रवामिः । कर्मधारयः षष्ठीसमासो वा ।