62022: पूर्वे भूतपूर्वे¶
Padacheda: पूर्वे | S | 7 | 1 |
भूतपूर्वे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The first member of a तत्-पुरुष समास preserves its original accent when the second member is the word पूर्व and the sense is ‘this had been lately…’.
Vasu English Translation¶
The first member of a तत्-पुरुष समास preserves its original accent when the second member is the word पूर्व and the sense is ‘this had been lately…’. -‘.
Kashika¶
पूर्वशब्द उत्तरपदे भूतपूर्ववाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। आढ्यो भूतपूर्व आ॒ढ्यपू॑र्वः। पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते। तत्र विशेषणं विशेष्येण० (२.१.५७) इति समासः। मयूरव्यंसकादिर्वा द्रष्टव्यः। द॒र्श॒नीय॑पूर्वः। सु॒कु॒मा॒रपू॑र्वः। भूतपूर्व इति किम्? प॒र॒म॒पू॒र्वः। उ॒त्त॒म॒पू॒र्वः। अत्र परमश्चासौ पूर्वश्चेति समासः, न तु परमो भूतपूर्व इति। तथा च सत्युदाहरणमेव भवति ॥
Siddhanta Kaumudi¶
आढ्यो भूतपूर्वः आढ्यपूर्वः । पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते । भूतपूर्वे किम् । परमपूर्वः ॥
Padamanjari¶
आढ्यो भूतपूर्व इति। यः पूर्वमाढ।ल् आसीत्स एवमुच्यते। अत्रेत्यादि। परमश्चासौ पूर्वश्चेति। सोऽयं वाक्यार्थः पूज्यमानतालक्षणः, तस्मिन्निह प्रत्युदहरणे समास इत्यर्थः। न त्विति । परमो भूतपूर्व इति। योऽयं वाक्यार्थः पूर्व परम आसीदित्यवंरूपः, न तस्मिन् तत्र समास इति यावत्, किं कारणम् इत्याह-तथा एचेति । ह्यर्थे ॥
Nyaas¶
आढओ भूतपूर्वः इति। यः पूर्वमाढ आसीत्? स एवमुच्यते। समासे गम्यमानार्थत्वाद्भूतशब्दो न प्रयज्यते, यथा -दध्योदन इत्यत्रोपसिक्तशब्दः। परमपूर्वः इति। अत्र सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (2.1.61) इत्यादिना समासः। अत्र परमश्चासौ पूर्वश्चेति समासः इति। इतिकरणोऽर्थनिर्देशार्थः। परमश्चसौ पूर्वश्चेति योऽयं वाक्यार्थः पूज्यमानतालक्षणः, तस्मिन्निह प्रत्युदाहरणे समास इत्यर्थः। न तु परमो भूतः इति। तुशब्दोऽवधारणे। परमो भूतपूर्व इति योऽयं वाक्यार्थः परमपूर्वकाललक्षणः, तस्मिन्नेवातर समास इत्यर्थः। किं कारणम्? इत्याह -तथा च इत्यादि। चशब्दो हि हीत्यर्थे। अयं समासो न भवति। एवं सत्यदाहरणमेवेदं भवति, न प्रत्युदाहरणम्, पूर्वशब्दस्य भूतपूर्ववाचित्वात्। यस्तु प्रायेण पुस्तकेषु पाठोऽत्र परमश्चासौ भूतपूर्वश्चेति विग्रहो न तु परमो भूतपूर्वः इति; स प्रमादपाठो वेदितव्यः; वाक्यद्वयेऽपि भूतपूर्वयोर्गम्यमानत्वात्॥
Prakriyasarvasvam¶
पूर्वशब्दे परे भूतपूर्वार्थे तत्पुरुषे प्राक्पदं प्रकृत्या स्यात् । दर्शनीयो भूतपूर्वो दर्शनीयपूर्वः ।