62023: सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये¶
Padacheda: सविध-सनीड-समर्याद-सवेश-सदेशेषु | S | 7 | 3 |
सामीप्ये | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The first member of a तत्-पुरुष समास preserves its original accent when the second member is 1. सविध 2. सनीड 3. समर्याद 4. सवेश and 5. सदेश in the sense of ‘what can be found in the vicinity thereof’.
Vasu English Translation¶
The first member of a तत्-पुरुष समास preserves its original accent when the second member is 1. सविध 2. सनीड 3. समर्याद 4. सवेश and 5. सदेश in the sense of ‘what can be found in the vicinity thereof’. Thus मद्रसविधम्, गान्धारिसविधम्, काश्मीरसविधम् ॥ So also मद्रसनीडम्, मद्रसमर्यादम्, मद्रसवेशम् and मद्रसदेशम् ॥ So also with गान्धारि and काश्मीर ॥ The accents of these words have been taught before in Sutra (6.2.12), (6.2.13). The words सविध &c, are derived from सह विधया &c, but they all mean ‘in the vicinity’: मद्रसविधं = मद्राणां सामिप्यम् ॥ Why do we say when meaning in the vicinity thereof? Observe सह मर्यादया वर्तते = समर्यादं क्षेत्रम् ‘a field having boundary’. देवदत्तस्य समर्यादं = देवदत्तसमर्यादम् ‘the bounded field of Devadatta’. Why do we say सविध &c? Observe देवदत्तसमया ॥
Kashika¶
सविध सनीड समर्याद सवेश सदेश इत्येतेषूत्तरपदेषु सामीप्यवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। म॒द्रस॑विधम्। गान्धा॑रिसविधम्। का॒श्मीर॑सविधम्। म॒द्रस॑नीडम्। गान्धा॑रिसनीडम्। का॒श्मीर॑सनीडम्। मद्रस॑मर्यादम्। गान्धा॑रिसमर्यादम्। का॒श्मीर॑समर्यादम्। म॒द्रस॑वेशम्। गान्धा॑रिसवेशम्। का॒श्मीर॑सवेशम्। म॒द्रस॑देशम्। गान्धा॑रिसदेशम्। का॒श्मीर॑सदेशम्। पूर्वपदान्युक्तस्वराणि। सविधादीनां सह विधयेत्येवमादिका व्युत्पत्तिरेव केवलम्। समीपवाचिनस्त्वेते समुदायाः। मद्राणां सविधं समीपमित्यर्थः। सामीप्य इति किम् ? सह मर्यादया वर्तते समर्यादं क्षेत्रम्। देवदत्तस्य समर्यादं दे॒व॒द॒त्त॒स॒म॒र्या॒दम्। सविधादिष्विति किम् ? दे॒व॒द॒त्त॒स॒म॒या॥
Siddhanta Kaumudi¶
एषु पूर्वं प्रकृत्या । मद्रसविधम् । गान्धारसनीडम् । काश्मीरसमर्यादम् । मद्रसवेशम् । मद्रसदेशम् । सामीप्ये किम् । सह मर्यादया समर्यादं क्षेत्रम् । चैत्रसमर्यादम् ॥
Padamanjari¶
उदाहरणेषु षष्टीसमासः, मद्रादीनां पूर्वमेव स्वर उक्तः॥
Nyaas¶
सह विषया सविधः, तेन सहेति तुल्ययोगे (2.2.28) इति बहुव्रीहिः, वोपसर्जनस्य (6.3.82) इति सहसय सभावः। एवं सनीडादिष्वपि बहुव्रीहिः सभावश्च वेदितव्यः। मद्रसविधमित्यादयः षष्ठीसमासाः। ननु च सह विषयेत्येवमादावर्थे सविधादयः शब्दा व्युत्पाद्यन्ते, तत् कथमेषां सामीप्ये वृत्तिः? इत्याह -सह विषयेत्यवमादिका इत्यादि। आदिशब्देन सह नीडेन सह मर्यादयेत्येवमादीनां ग्रहणम्। एवकारोऽवधारणार्थोऽभिधेयव्यवच्छेदं करोति -व्युत्पत्तिनिमित्तमेव, नाभिधेयमिति। समीपवाचिनस्त्वेते इति। अत्रापि तुशब्दोऽवधारणार्थ एव। वसमीपवाचिन एव, न तु सह विधयेत्येवमादिवाक्यार्थवाचिन इति॥
Prakriyasarvasvam¶
सामीप्यार्थेष्वेषु परेषु तत्पुरुषे प्राक्पदं प्रकृत्या स्यात् । व्रजसविधमित्यादि- घञन्तो व्रजः ।