62025: श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये¶
Padacheda: श्र-ज्य-अवम-कन्-पापवत्सु | S | 7 | 3 |
भावे | S | 7 | 1 |
कर्मधारये | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In a कर्मधारय समास the first member consisting of a भाव (verbal noun) preserves its original accent before the adjective forms built from श्र – प्रशस्यस्य श्रः (5.3.60), ज्य – ज्य च (5.3.61), अवम and कन् – युवाल्पयोः कनन्यतरस्याम् (5.3.64), and before a form built from the word पाप।
Vasu English Translation¶
In a कर्मधारय समास the first member consisting of a भाव (verbal noun) preserves its original accent before the adjective forms built from श्र – प्रशस्यस्य श्रः (5.3.60), ज्य – ज्य च (5.3.61), अवम and कन् – युवाल्पयोः कनन्यतरस्याम् (5.3.64), and before a form built from the word पाप। Thus ग꣡मनश्रेष्ठम्, or ग꣡मनश्रेयः, व꣡चनज्येष्ठम् or वचनज्यायः, ग꣡मनावमम्, व꣡चनावमम्, ग꣡मनकनिष्ठम् or गमनकनीयः ॥ So also ग꣡मनपापिष्ठम्, ग꣡मनपापीयः ॥ All the first members are ल्युट् formed words and have लित् accent i. e. on the first syllable. (6.1.193). The words श्र, ज्य and कन् are substitutes which certain adjectives take in the comparative and superlative degree, and the employment of these forms in the sutra indicates that the comparative and superlative words having these elements should be taken as second members, and so also of पाप, the comparative and superlative are taken, for this is the meaning here of the word पापवत् ॥
Why do we say “श्र &c”? Observe गमनशोभनम् ॥ Why do we say ‘a verbal Noun’? Observe गमनश्रेयः, where the word गमन is = गम्यतेऽनेन ‘the carriage’. Why do we say ‘a Karmadharaya compound’? Observe गमनं श्रेयः = गमनश्रेयः ॥
Kashika¶
श्र ज्य अवम कन् इत्येतेषु पापशब्दवति चोत्तरपदे कर्मधारये समासे भाववाचि पूर्वपदं प्रकृतिस्वरं भवति। गम॑नश्रेष्ठम्। गम॑नश्रेयः। ज्य — वच॑नज्येष्ठम्। वच॑नज्यायः। अवम — गम॑नावमम्। वच॑नावमम्। कन् — गम॑नकनिष्ठम्। गम॑नकनीयः। पापवत् — गम॑नपापिष्ठम्। गम॑नपापीयः। ल्युडन्तान्येतानि पूर्वपदानि लित्स्वरेणाद्युदात्तानि। श्रज्यकनामादेशानां ग्रहणमिति सामर्थ्यात् तद्वदुत्तरपदं गृह्यते। श्रादिष्विति किम् ? ग॒म॒न॒शो॒भ॒नम्। भाव इति किम् ? गम्यतेऽनेनेति गमनम्, तत् श्रेयो ग॒म॒न॒श्रे॒यः। कर्मधारय इति किम् ? गमनस्य श्रेयो ग॒म॒न॒श्रे॒यः॥
Siddhanta Kaumudi¶
श्र ज्य कन् इत्यादेशवति अवमशब्दे पापशब्दवति चोत्तरपदे भाववाचि पूर्वपदे प्रकृत्या । गमनश्रेष्ठम् । गमनज्यायः । गमनावमम् । गमनकनिष्ठम् । गमनपापिष्ठम् । श्रेत्यादि किम् । गमनशोभनम् । भावे किम् । गम्यतेऽनेनेति गमनम् । गमनं श्रेयो गमनश्रेयः । केति किम् । षष्ठीसमासे मा भूत् ॥
Nyaas¶
गमनश्रेष्ठम् इति। ल्युट्? च (3.3.115) इति ल्युट्; विशेषणसमासः। अतिशयेन प्रशस्यः श्रेयः। दृष्ठन्नीयसुनोः प्रशस्यस्य श्रः (5.3.60) इति श्रादेशः। वचनज्येष्ठम् इति। अत्रापि। तयोरेव प्रत्यययोः परतः प्रशस्यशब्दस्य ज्यादेशः। गमनकनिष्ठम्, गमनकनीयः इति। इष्ठन्नीयसुनोः परतो युवशब्दस्याल्यशब्दस्य च युवाल्पयोः कनन्यतरस्याम् (5.3.64) इति कनादेशः। ननु च श्रज्यकनाम् इति कथम्? इतिकरणो हेतौ। यस्माच्छ्रज्यकनामिहादेशानां ग्रहणं ते चाजादौ प्रत्यये प्रशस्यादीनां विधीयन्त इति केवलानामसम्भवः। तस्मात्? सामर्थ्यात्? तद्वदुत्तरपदं गृह्रते॥
Prakriyasarvasvam¶
एषु परेषु कर्मधारये भावार्थं प्राक्पदं प्रकृत्या स्यात् । गमनश्रेष्ठम् । वचनज्येष्ठम् । गमनावमम् । वचनकनिष्ठम् । गमनपापिष्ठम् । ‘विन्मतोर्लुक्’ (५-३-६५) मयूरव्यंसकादिः ।