Sutras 121 - 140¶
- 62121: कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे
- 62122: कंसमन्थशूर्पपाय्यकाण्डं द्विगौ
- 62123: तत्पुरुषे शालायां नपुंसके
- 62124: कन्था च
- 62125: आदिश्चिहणादीनाम्
- 62126: चेलखेटकटुककाण्डं गर्हायाम्
- 62127: चीरमुपमानम्
- 62128: पललसूपशाकं मिश्रे
- 62129: कूलसूदस्थलकर्षाः संज्ञायाम्
- 62130: अकर्मधारये राज्यम्
- 62131: वर्ग्यादयश्च
- 62132: पुत्रः पुंभ्यः
- 62133: नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः
- 62134: चूर्णादीन्यप्राणिषष्ठ्याः
- 62135: षट् च काण्डादीनि
- 62136: कुण्डं वनम्
- 62137: प्रकृत्या भगालम्
- 62138: शितेर्नित्याबह्वज्बहुव्रीहावभसत्
- 62139: गतिकारकोपपदात् कृत्
- 62140: उभे वनस्पत्यादिषु युगपत्