62129: कूलसूदस्थलकर्षाः संज्ञायाम्¶
Padacheda: कूल-सूद-स्थल-कर्षाः | S | 1 | 3 |
संज्ञायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The words 1. कूल 2. सूद 3. स्थल and 4. कर्ष have acute accent (उदात्त) on their first syllable when at the end of a तत्-पुरुष समास denoting a Name.
Vasu English Translation¶
The words 1. कूल 2. सूद 3. स्थल and 4. कर्ष have acute accent (उदात्त) on their first syllable when at the end of a तत्-पुरुष समास denoting a Name. Thus दाक्षिकू꣡लम्, आहकिकू꣡लम्, देवसू꣡दम्, भाजीसू꣡दम्, दाण्डायनस्थ꣡ली, माहकिस्थ꣡ली, दाक्षिक꣡र्षः ॥ All these are names of villages. The feminine of स्थल is taken here, formed by ङीष् (4.1.42). When not a name we have परमकूलम् ॥
Kashika¶
कूल सूद स्थल कर्ष इत्येतान्युत्तरपदानि तत्पुरुषे समासे संज्ञायां विषय आद्युदात्तानि भवन्ति। दा॒क्ष्िाकूल॑म्। मा॒ह॒कि॒कूल॑म्। दे॒व॒सूद॑म्। भा॒जी॒सूद॑म्। दा॒ण्डा॒य॒न॒स्थली॑। मा॒ह॒कि॒स्थली॑। दा॒क्षि॒कर्षः॑। ग्रामनामधेयान्येतानि। स्थलग्रहणे लिङ्गविशिष्टत्वात् स्थलीशब्दोऽपि गृह्यते। **जानपदकुण्ड०**(४.१.४२) इत्यनेन ङीष्। संज्ञायामिति किम्? प॒र॒म॒कू॒लम्॥
Siddhanta Kaumudi¶
आद्युदात्तास्तत्पुरुषे । दाक्षिकूलम् । शाण्डिसूदम् । दाण्डायनस्थलम् । दाक्षिकर्षः । ग्रामसंज्ञा एताः । संज्ञायां किम् । परमकूलम् ॥
Padamanjari¶
भजीसूदमिति । भाजीशब्दो जानपदादि सूत्रेण ङीषन्तः ॥
Nyaas¶
कूलशब्द उक्तस्वरः, षूद क्षरणे (धातुपाठः-1717) इत्यस्मात्? इगुपदात्? कः (3.1.135) , तेन सूदोऽन्तोदात्तः। स्थल स्थाने () इत्यस्मात्? पचाद्यच्, तेन स्थलमन्तोदात्तम्। कर्षशब्दः कर्षात्वतो धञोऽन्त उदात्तः इत्यन्तोदात्तः। दाक्षिकूलम् इत्यादि। दाक्षिमाहकिशब्दाविञन्तावाद्युदातौ। देवशब्दः पचाद्यजन्तत्वादाद्युदात्तः। भाजीशब्दो जानपदादिसूत्रेण (4.1.42) ङीषन्तत्वादन्तोदात्तः। दाण्डायनशब्दो नडादित्वात्? (4.1.99) फगन्तः, तेन कितः (6.1.159) इत्यन्तोदात्तः। ननु च सूत्रे स्थलशब्द उपात्तः, तत्कथं स्थलीशब्द उत्तरपदमाद्युदात्तं चोदाह्यियते? इत्याह -स्थलग्रहणम् इत्यादि॥
Prakriyasarvasvam¶
एतानि पराणि ग्रामनाम्नि आद्युदात्तानि स्युः । दाक्षिकूलम् । देवसूदम् । माहिकिस्थली । दाक्षिकर्षः । स्थलेति लिङ्गविशिष्टग्रहात् स्थली गृह्यते ।