62123: तत्पुरुषे शालायां नपुंसके¶
Padacheda: तत्पुरुषे | S | 7 | 1 |
शालायाम् | S | 7 | 1 |
नपुंसके | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The word शाला at the end of a तत्-पुरुष समास when exhibited in the Neuter has acute on the first syllable.
Vasu English Translation¶
The word शाला at the end of a तत्-पुरुष समास when exhibited in the Neuter has acute on the first syllable. Thus ब्राह्मणशा꣡लम्, क्षत्रियशा꣡लम् ॥ The compound becomes Neuter by (2.4.25). Why do we say “in a Tatpurusha”? Observe दृढशाल ब्राह्मणकुलम् which is a Bahuvrihi compound and therefore first member retains its accent (VI.2. I), and as the first member is a Nishtha word, it has acute on the final. Why do we say “the word शाला?” Observe ब्राह्मणसेनम् ॥ Why do we say ‘in the Neuter’? Observe ब्राह्मणशाला ॥ Compare (6.2.86).
Kashika¶
शालाशब्दान्ते तत्पुरुषे समासे नपुंसकलिङ्ग उत्तरपदमाद्युदात्तं भवति। ब्र्रा॒ह्म॒ण॒शाल॑म्। क्ष॒त्र्िाय॒शाल॑म्। विभाषा सेनासुराच्छायाशालानिशानाम् (२.४.२५) इति नपुंसकलिङ्गता। तत्पुरुष इति किम्? दृ॒ढशा॑लं ब्राह्मणकुलम्। शालायामिति किम्? ब्रा॒ह्म॒ण॒से॒नम्। नपुंसक इति किम्? ब्रा॒ह्म॒ण॒शा॒ला॥
Siddhanta Kaumudi¶
शालाशब्दान्ते तत्पुरुषे नपुंसकलिङ्गेउत्तरपदमाद्युदात्तम् । ब्राह्मणशालम् । तत्पुरुषे किम् । दृढशालं ब्राह्मणकुलम् । शालायां किम् । ब्राह्मणसेनम् नपुंसके किम् । ब्राह्मणशाला ॥
Padamanjari¶
दृढशालमिति । बहुव्रीहिरयम् । तत्र पूर्वपदप्रकृतिस्वर एव भवति, पूर्वपदं च निष्ठान्तत्वादन्तोदातम् । ननु चात्र लक्षणप्रतिपदोक्तपरिभाषयैव भविष्यति सत्यम्, उतरार्थं तत्पुरुषग्रहणमवश्यं कर्तव्यं तदिहैव क्रियते, परिभाषाया अनाश्रयणाय ॥
Nyaas¶
शालशब्दः कूलतीर (6.2.120) इत्यत्रोक्तस्वरः। ब्राआहृणशालम्, क्षत्त्रियशालम् इति ब्राआहृणशब्दोऽणन्तत्वादन्तोदात्तः। क्षत्रियशब्दस्तु मध्योदात्तः, क्षत्राद्? धः (4.1.138) इति घप्रत्ययान्तत्वात्। दृढशालम् इति। बहुव्रीहिरयम्, तेन पूर्वपदप्रकृतिस्वर एव भवति। पूर्वपदं च निष्ठान्तत्वादन्तोदात्तम्। ननु च लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।3) विभाषा सेना (2.4.25) इति प्रतिपदोक्ता या नपुंसकलिङ्गता सैव ग्रहिष्यते। न हि दृढशालमित्यत्र प्रतिपदोक्ता नपुंसकता, किं तर्हि? अभिधेयवशेन लक्षणोक्ता अभिधेयवल्लिङ्गवचनानि भवन्ति (व्या।प।73) इति। तत्? किमेतन्निवृत्यर्थेन तत्पुरुषग्रहणेन? एवं तर्ह्रु त्तरार्थं तत्पुरुषग्रहणम्। चेलखेट कटुककाण्डं गर्हायाम् (6.2.126) इत्यनेन दधि च तत्? कटुकं चेति दधिकटुकमित्यत्रैव यथा स्यात्। दधिकटुकम्, उदइआत्कटुकम् इति। उत्तरार्थं तु तत्क्रियमाणं विस्पष्टार्थत्वमुपपादयतीत्येतदर्थमपि भवति। लक्षणप्रतिपदोक्तपरिबाषा (व्या।प।3) चेह नाश्रयितव्या भवति -एतदर्थं तत्पुरुषग्रहणस्य दृढशालमित्येतत्? प्रत्युदाहरणमुपन्यस्तम्॥
Prakriyasarvasvam¶
शालान्ते क्लीबे तत्पुरुषे परपदमाद्युदात्तं स्यात् । गोपशालम् । छात्त्र्यादिपूर्वेत्वे तु ‘छात्त्र्यादयः शालायाम्’ (६-२-८६) इति प्राक्पदमाद्युदात्त (त्व ?) मेव । छात्त्रिशालम् ।