62124: कन्था च

Padacheda: कन्था | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

In a Neuter तत्-पुरुष समास ending in कन्था the acute accent (उदात्त) falls on the first syllable of the second member.

Vasu English Translation

In a Neuter तत्-पुरुष समास ending in कन्था the acute accent (उदात्त) falls on the first syllable of the second member. Thus सौशमिक꣡न्थम्, आह्वरक꣡न्थम्, चप्यक꣡न्थम् ॥ The word सौशमिः denotes the descendant of सुशमः (शोभनः शमो यस्य) आह्वर is formed by the preposition आ with the verb ष्ठ्वृ and the affix क (3.1.136) The compound is Neuter by (3.4.20). These are Genitive compounds. When the word is not Neuter we have दाक्षिकन्था ॥

Kashika

तत्पुरुषे समासे नपुंसकलिङ्गे कन्थाशब्द उत्तरपदमाद्युदात्तं भवति। सा॒ैश॒मि॒ कन्थ॑म्। आ॒ह्व॒कन्थ॑म्। च॒प्प॒कन्थ॑म्। संज्ञायां कन्थोशीनरेषु (२.४.२०) इति नपुंसकलिङ्गता। षष्ठीसमासा एते। नपुंसक इत्येव — दा॒क्षि॒क॒न्था॥

Siddhanta Kaumudi

तत्पुरुषे नपुंसकलिङ्गे कन्था शब्द उत्तरपदमाद्युदात्तम् । सौशमिकन्थम् । आह्वरकन्थम् । नपुंसके किम् । दाक्षिकन्या ॥

Padamanjari

शोभवनः शमो यस्य तस्यापत्यं सौशमिः । आङ्पूर्वात् ह्वयतेः आतश्चोपसर्गे इति कः चप सान्तवने औणादिकः पः बहुलवचनादिडभावः - चप्पः ॥ आदिश्चिहणादीनाम् ॥थ 6.2.125 ॥ चिनोतेः क्विप्, चित्, हन्तेः पचाद्यच्, हनः, चिहणम् - निपातनातलोपो णत्वं च । मल मल्ल धारणे, ताअभ्यां रप्रत्ययः, निपात्नाल्लस्य डत्वम् - मडरः, मद्दुरः । विगततुलस्येदं वैतुलम् । पटदिति कायति - पटत्कः । कै गै रै शब्दे । आतोऽनुपसर्गे कः । बिडमादेते बिडालः । ला आदाने सोपसर्गादप्यस्मादेव निपातनात्कः, तस्यापत्यं बैडालिः, तस्येव कर्णावस्य बैडालिकर्णः । अपहे तु इकारान्तं पठन्ति - बैडालिकणिरिति । कुक्कु रटतीति, कुक्कुटः, निपातनाद्रशब्दस्य लोपः, चिनोतेः क्विप् , चित्, कणतेरच्, कणः, चिता कणः, चिक्कणः, निपातनातकारस्।य ककारः । तकारमेवान्ये पठन्ति । चिहणादयश्चैते गौत्रनामधेयाति स्मर्यन्ते । आदिरिति वर्तमान इति । पूर्वं ह्यादिग्रहणमुतरपदाभिसम्बद्वमिह पूर्वपदानां चिहणादीनामाद्यौदातत्वमिष्यते, अतस्तदर्थं पुनरादिग्रहणं कृतम् ॥

Nyaas

कथि क्लेशने () अस्मात्? गुरोश्च हलः (3.3.103) इत्यकारः, तेन कन्थान्तोदात्ता। सौशमिकन्थम् इति। शोभनः शमोऽस्य शुशमः तस्यापत्यम् (4.1.92) इत्यत इञ्। तेनाद्युदात्तः सौशमिशब्दः। आह्वकन्थम् इति। आङ्पूर्वस्य ह्वयतेः आतश्चोपसर्गे (3.3.106) इति कः, तेनाह्वशब्दस्याथादिस्वरेणा (6.2.143) न्तोदात्तः। चप्पकन्थम् इति। चप सान्त्वने (धातुपाठः-399), अस्मात्? पानी विषिभ्यः पः (द।उ।7।2) इति बहुलवचनाच्चपोऽपि भवति। तेन चप्पशब्दोऽन्तोदात्तः॥

Prakriyasarvasvam

ad_ref: ६. २. १२४