62135: षट् च काण्डादीनि

Padacheda: षट् | S | 1 | 3 |

च | S | 0 | 0 |

काण्डादीनि | S | 1 | 3 |

Sutrartha


Vasu English Summary

The six words - 1. काण्ड 2. चीर 3. पलल 4. सूप 5. शाक and 6. कूल of sūtras (6.2.126)-129 preceded by a non-living Genitive 6th-Case word have acute accent (उदात्त) on the first syllable.

Vasu English Translation

The six words - 1. काण्ड 2. चीर 3. पलल 4. सूप 5. शाक and 6. कूल of sūtras (6.2.126)-129 preceded by a non-living Genitive 6th-Case word have acute accent (उदात्त) on the first syllable. As दर्भका꣡ण्डम्, शरका꣡ण्डम्; दर्भची꣡रम्, कुशची꣡रम् ॥ In the last two examples चीर is not used as a comparison, that case being governed by (6.2.127), तिलप꣡ललम्, मूलकशाक꣡म्, मुद्गसू꣡पः ॥ Here पलल, सूप and शाक do not denote mixing, which is governed by (6.2.128). नन्दीकू꣡लम्, समुद्रकू꣡लम्, here the compound does not denote a Name, which would be the case under (6.2.129). Why these ‘six’ only? Observe राजसूदः ॥

Kashika

षट् पूर्वोक्तानि काण्डादीन्युत्तरपदान्यप्राणिषष्ठ्या आद्युदात्तानि भवन्ति। ॰काण्डं गर्हायाम्**(६.२.१२६) इत्युक्तमगर्हायामपि भवति। द॒र्भ॒काण्ड॑म्। श॒र॒काण्ड॑म्। **चीरमुपमानम् (६.२.१२७) इत्युक्त मनुपमानमपि भवति। द॒र्भ॒चीर॑म्। कु॒श॒चीर॑म्। पललसूपशाकं मिश्रे (६.२.१२८) इत्युक्त ममिश्रेऽपि भवति। ति॒ल॒पल॑लम्। मु॒द्ग॒सूपः॑। मू॒ल॒क॒शाक॑म्। कूलं संज्ञायाम् (६.२.१२९) इत्युक्त मसंज्ञायामपि भवति। न॒दी॒कूल॑म्। स॒मु॒द्॒रकूल॑म्। षडिति किम्? रा॒ज॒सू॒दः॥

Siddhanta Kaumudi

अप्राणिषष्ठ्या आद्युदात्तानि । दर्भकाण्डम् । दर्भचीरम् । तिलपललम् । मुद्गसूपः । मूलकशाकम् । नदीकूलम् । षट् किम् । राजसूदः । अप्रेति किम् । दत्तकाण्डम् ॥

Nyaas

चेलखेटकटुककाण्डम् (6.2.126) इत्यादिषु चतुर्षु योगेषु सन्निविष्टानि काण्डादीनि षट्? गृह्यन्ते। यद्येवं तैरेव योगैरेषामाद्युदात्तत्वं सिद्धम्, तत्किमर्थमिदम्? यत्र तैर्विहित ततोऽन्यत्रापि यथा स्यात्? प्राणिषष्ठआश्च मा भूदित्येवमर्थञ्च। दर्भकाण्डम् इति। दृदलिभ्यां भः (पं।उ।3।151) इति भप्रत्ययान्तो दर्भशब्दोऽन्तोदात्तः। तृणधान्यानाञ्च द्व्यषाम् (फि।सू।2।27) इति वा। शरकाण्डम् इति। शरशब्दोऽप्यनन्तरेणैव द्व्यषाम् इत्याद्युदात्तः। एवं कुशशब्दोऽपि। तथा तिलशब्दोऽपि। पललमूलकशब्दावुक्तस्वरौ। नदडति पचादिषु पठते, तेन टित्त्वान्नदशब्दान्ङीप्? यस्येति च (6.4.148) इत्यकारलोपः, अनुदात्तस्य च यत्रोदात्तलोपः (6.1.161) इति ङीप उदात्तत्वम्। तेन नदीशब्दोऽन्तोदात्तः। पाटलापालङ्काम्बासागरार्थानाम् (फि।सू।1।2) इति फिषा समुद्रशब्दोऽन्तोदात्तः। राजसूदः इति। शूदशब्दः षङ्भ्यः परः पठते। तेनात्र समासान्तोदात्तत्वमेव भवति। सर्वे च ते दर्भकाण्डादयः षष्ठीसमासाः॥

Prakriyasarvasvam

काण्डचीरपललसूपशाककूलानि षट् परपदान्यप्राणिषष्ठ्या उक्तान्यत्रार्थेऽपि आद्युदात्तानि स्युः । काण्डमगर्हायामपि शरकाण्डम् । चीरमनुपमानेऽपि कुशचीरम् । पललादित्रयममिश्रेऽपि लवणपललम् । मुद्गसूपः । मूलकशाकम् । कूलमनाम्न्यपि नदीकूलम् ।