62125: आदिश्चिहणादीनाम्¶
Padacheda: आदिः | S | 1 | 1 |
चिहणादीनाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
In a Neuter तत्-पुरुष समास ending in कन्था the first syllable of चिहण etc. have the acute accent (उदात्त).
Vasu English Translation¶
In a Neuter तत्-पुरुष समास ending in कन्था the first syllable of चिहण etc. have the acute accent (उदात्त). As चि꣡हणकन्थम्, म꣡डरकन्थम्, म꣡डुरकन्थम् ॥ The repetition of the word आदि in this sutra, though its anuvritti was present, indicates that the first syllable of the first member gets the acute. The word चिहण is derived from the root चिनोति with क्विप् which gives चित् an हन is formed by adding अच् (3.1.134) to हन् ॥ चित् + हन = चिहण the elision of त् is irregular.
Kashika¶
कन्थान्ते तत्पुरुषे समासे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तो भवति। चिह॑णकन्थम्। मड॑रकन्थम्। मडुर इति केचित् पठन्ति। मडु॑रकन्थम्॥ चिहण। मडर। मड्डर। वैतुल। पटत्क। चैत्तालिकर्णः। चैत्तालिकर्णिः इत्यन्ये पठन्ति। कुक्कुट। चिक्कण। चित्कण इत्यपरे। पठन्ति। आदिरिति वर्तमाने पुनरादिग्रहणं पूर्वपदाद्युदात्तार्थम्॥
Siddhanta Kaumudi¶
कन्थान्ते तत्पुरुषे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तः । चिहमकन्थम् । मन्दुरकन्थम् । आदिरिति वर्तमाने पुनर्ग्रहणं पूर्वपदस्याद्युदात्तार्थम् ॥
Nyaas¶
पूर्वेणोत्तरपदस्य सिद्धेऽयं पूर्वपदस्याद्युदात्तत्वार्थ आरम्भः। चिनोतेः क्विप्? चित्। हन्तेः पचाद्यच्? हनः। निपातनात्? तलोपो णत्वं च चिहणः। मल मल्ल धारणे - (दा।पा।493,494) आभ्यां रप्रत्ययः, लस्य निपातनात्? तलोपो णत्वं च चिहणः। मल मल्ल धारणे - (धातुपाठः-493,494) आभ्यां रप्रत्ययः, लस्य निपातनात्? डत्वम्। मडरमडडरशब्दौ मद्योदात्तौ। विगता तुला तस्य स वितुलः, तस्यायं वैतुलः। अणन्तत्वादन्तोदात्तः। पटदिति कायतीति कै गै शब्दे (धातुपाठः-916,917) आतोऽनुपसर्गे कः (3.2.3) पटत्कोऽन्तोदात्तः। चित्तमादत्त इति ला आदाने (धातुपाठः-1058) इत्यस्मादाङ्पूर्वादस्मादेव निपातनात्? कः - चित्तालः, तस्यापत्यमिति अत इञ्? (4.1.95) चैत्तालिः, स कर्मावस्य चैत्तालिकर्णः। बहुव्रीहिरयं पूर्वपदप्रकृतिस्वरेणाद्युदात्तः। पूर्वपदं हि ञित्स्वरेणाद्युदात्त्म्। अन्ये त्विञन्तं चैत्तालिकर्णिरिति समुदायमधीयते। `कुक वृक आदाने (धातुपाठः-91,92) अस्मात्? क्विप् - कुक्; कुट कौटिल्ये (धातुपाठः-1366) इत्यस्मादिगुपधलक्षणः कः, कुटः, कुकः, कुटः, कुक्कुटः। समासस्वरेणान्तोदात्तः। चिनोतेः क्विप्, चित्, कणतेः पचद्यचि कणः, चितः कणाश्च#इक्कणः, तकारस्य ककारो निपातनात्। चित्करण इत्यपरे पठन्ति। चिहणादयश्चैते मुष्यनामधेयानि चेति स्मर्यते। अथादिग्रहणं किमर्थम्? यावतादिरनुवर्तत एव? इत्यत आह - आदिरिति वर्तमाने इत्यादि। पूर्वकं ह्रादिगरहणमुत्तरपदाभिसम्बद्धम्। पूर्वपदानां चिहणादीनामाद्युदात्तत्वमिष्यते। तस्मात्? पूर्वपदभूतानां तेषामाद्युदात्तत्वं यथा स्यादित्येवमर्थं पुनरादिगरहणम्॥
Prakriyasarvasvam¶
‘चिहणचिक्कण२मडरमडुरवैतुलवैडालिकर्णकुक्कुटपटकानाम् ।। (स. ८-४- १३८) कन्थान्ते क्लीबे तत्पुरुषे एषामष्टानामादिरुदात्तः स्यात् । चिहणकन्थं चिक्कणकन्थमित्यादि । गोत्रनामानि । वैडालिकर्णकन्थम् । चित्कणो वैडालि- कर्णिरिति द्वावपि केचित् ।