62132: पुत्रः पुंभ्यः

Padacheda: पुत्रः | S | 1 | 1 |

पुम्भ्यः | S | 5 | 3 |

Sutrartha


Vasu English Summary

The word पुत्र coming after a Masculine noun in a तत्-पुरुष समास has a acute accent (उदात्त) on the first syllable.

Vasu English Translation

The word पुत्र coming after a Masculine noun in a तत्-पुरुष समास has a acute accent (उदात्त) on the first syllable. Thus कौनटिपु꣡त्रः, दामकपु꣡त्रः, माहिषपु꣡त्रः ॥ Why do we say ‘a पुत्र’? Observe कौनटिमातुलः ॥ Why do we say ‘after a masculine word’? Observe गार्गीपुत्रः, वात्सीपुत्रः ॥

Kashika

पुत्रशब्दः पुंशब्देभ्य उत्तरस्तत्पुरुष आद्युदात्तो भवति। कौ॒न॒टि॒पुत्रः॑। दा॒म॒क॒पुत्रः॑। मा॒हि॒ष॒क॒पुत्रः॑। पुत्र इति किम्? कौ॒न॒टि॒मा॒तु॒लः। पुम्भ्य इति किम्? गा॒र्गी॒पु॒त्रः। वा॒त्सी॒पु॒त्रः॥

Siddhanta Kaumudi

पुम्शब्देभ्यः । परः पुत्रशब्द आद्युदात्तस्तत्पुरुषे । दाशकिपुत्रः । माहितपुत्रः । पुत्रः किम् । कौनटिमातुलः । पुम्ब्यः किम् । दाक्षीपुत्रः ॥

Padamanjari

कुनटस्यापत्यं कौनटिः । दामकमाहिषकशब्दौ संज्ञायां कन् इति कन्नन्तौ ॥

Nyaas

कौनटिपुत्रः इति। पुत्रशब्द उक्तस्वरहः। कुनटस्यापत्यं कौनटिः, तेनायमाद्युदात्तः। दामकमाहिषकशब्दावपि कन्नन्तावाद्युदात्तौ। गार्गीपुत्रः, वात्सीपुत्रः इति। गार्गयवात्स्यशब्दाभ्याम्? यञश्च (4.1.16) इति ङीप्। तेन गार्गीवात्सीशब्दौ ञित्स्वरेणाद्युदातौ। सर्वत्रास्मस्तत्पुरुषाधिकारे प्रत्युदाहरणे समासस्य (6.1.223) इत्यन्तोदात्तत्वं वेदितव्यम्॥

Prakriyasarvasvam

पुंशब्देभ्यः परः पुत्रः आद्युदात्तः स्यात् । नन्दपुत्रः । स्त्रियां तु गोपीपुत्रः ।