62136: कुण्डं वनम्

Padacheda: कुण्डम् | S | 1 | 1 |

वनम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The word कुण्ड at the end of a तत्-पुरुष समास denoting ‘a wood or forest’ has acute accent (उदात्त) on the first syllable.

Vasu English Translation

The word कुण्ड at the end of a तत्-पुरुष समास denoting ‘a wood or forest’ has acute accent (उदात्त) on the first syllable. The word कुण्ड here denotes ‘a wood’ by metaphor. Thus दर्भकु꣡ण्डम्, शरकु꣡ण्डम् ॥ Why do we say when denoting ‘a wood’? Observe मृतकुण्डम् ॥ The word कुण्ड means (1) a basin (2) a caste called kunda. Some say it means ‘forest’ also primarily and metaphorically. The force here is that of समुदाय, i.e. शरवणसमुदायः = शरकुण्डम् ॥

Bhashya

कुण्डं वनम् (2796) (6364 उपसंख्यानवार्तिकम् ॥ 1 ॥) - कुण्डाद्युदात्तत्वे तत्समुदायग्रहणम् - कुण्डाद्युदात्तत्वे तत्समुदायग्रहणं कर्तव्यम् । वनसमुदायवाची चेत्स कुण्डशब्दो भवतीति वक्तव्यम् । इह मा भूत् - मृत्कुण्डम् ॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठाध्यायस्य द्वितीये पादे प्रथममाह्निकम् ॥

Kashika

कुण्डशब्दोऽत्र कुण्डसादृश्येन वने वर्तते। कुण्डमित्येतदुत्तरपदं वनवाचि तत्पुरुषे समास आद्युदात्तं भवति। द॒र्भ॒कुण्ड॑म्। श॒र॒कुण्ड॑म्। वनमिति किम्? मृ॒त्कु॒ण्डम्॥

Siddhanta Kaumudi

कुण्डमाद्युदात्तं वनवाचिनि तत्पुरुषे । दर्भकुण्डम् । कुण्डशब्दोऽत्र सादृश्ये । वनं किम् । मृत्कुण्डम् ॥

Padamanjari

कुण्डशब्ददीऽत्रेत्यादि । जनविशेषाभिधायी कुण्डशब्दस्तस्य नान्तरेण साद्दश्यम्, ततोऽन्यत्र वने वृत्तिः सम्भवतीति भावः । अन्ये तु वनेऽपि मुख्य एव कुण्डशब्द इत्याहुः । तत्र वनशब्देन विशेषणेन भाजन विशेषवाजी निवर्त्यते, समुदायवाची चात्र वनशब्दः, न तूदकवाची, आह हि - कुण्डाद्यौदातत्वे तत्समुदायग्रहणमिति, तच्छब्देन पूर्वदार्थः परामृश्यते । उपर आह - वनसमुदाये इति वक्तव्यम्, न तु वने इति ए, तेन शरवणसमुदायः शरकुण्डशब्देनोच्यत इति ॥

Nyaas

कुण्डशब्देऽत्रि कुण्डसादृश्येतन वने वर्तते इति। यथा कुण्जं कस्यचिदुदकादेराश्रयस्तथा वनमपि। अतः कुण्जसादृश्येनात्र कुण्डशब्दो वने वर्तते। भवति हि सादृश्येन ताच्छब्द्यं यथा -अग्निमणिवक इति। मृत्कुण्डम् इति। अत्र कुण्ड आकारविसेषो मृद्विकारे वर्तते, न वने। तेन समासान्तोदात्तत्वमेव भवति॥

Prakriyasarvasvam

वनं समुदायः । तद्वाचि कुण्डं परमाद्युदात्तं स्यात् । दर्भकुण्डं तद्वनम् ।