62127: चीरमुपमानम्¶
Padacheda: चीरम् | S | 1 | 1 |
उपमानम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The word चीर at the end of a तत्-पुरुष समास has acute accent (उदात्त) on the first syllable when something is compared with it.
Vasu English Translation¶
The word चीर at the end of a तत्-पुरुष समास has acute accent (उदात्त) on the first syllable when something is compared with it. Thus वस्त्रम् चीरमिव = वस्त्रचीर꣡म्, पटचीर꣡म्, कम्बलचीर꣡म् ॥ Why do we say ‘when comparison is meant?’ Observe परमचीरम् ॥
Kashika¶
चीरमुत्तरपदमुपमानवाचि तत्पुरुषे समास आद्युदात्तं भवति। वस्त्रं चीरमिव व॒स्त्र॒चीर॑म्। प॒ट॒चीर॑म्। क॒म्ब॒ल॒चीर॑म्। उपमानमिति किम्? प॒र॒म॒ची॒रम्॥
Siddhanta Kaumudi¶
वस्त्रं चीरमिव वस्त्रचीरम् । कम्बलचीरम् । उपमानं किम् । परमचीरम् ॥
Balamanorama¶
चीरमुपमानम् - इकोऽसवर्णे । ‘इक’ इति षष्ठी ।एङः पदान्ता॑दित्यतःपदान्ता॑दित्यनुवर्तते । तच्च षष्ठन्ततया विपरिणम्यते ।अची॑ति चानुवर्तते । ततश्चपदान्तस्येकोऽसवर्णेऽचि परे ह्रस्वः स्या॑दित्येकं वाक्यम् । चकारात्प्रकृत्यान्तः पादमित्यतः प्रकृत्येत्यनुकृष्यते । ह्रस्व इति तत्रापि संबध्यते । ततश्चउक्तो ह्रस्वः प्रकृत्या स्वभावेन अवतिष्ठत॑ इति वाक्यान्तरं सम्पद्यते । फलितमाह — पदान्ता इक इत्यादिना । यदि चकारो न क्रियेत, तर्हि पदान्तस्य इकोऽसवर्णेऽचि परे ह्रस्वः स्यादित्येव लभ्यते । तस्य ह्रस्वस्य प्रकृतिभावो न लभ्येत । ततश्च चक्री-अत्रेति स्थिते ईकारस्य ह्रस्वे सति तस्य यणादेशे चक्र्यत्रेत्येव स्यात् । वक्रि-अत्रेति ह्रस्वसमुच्चितप्रकृतिभावविशिष्टं रूपं न स्यात् । इष्यते तदपि । अतः प्रकृत्येत्यनुकर्षणार्थश्चकार आवश्यक इति सूत्रकारस्य ह्मदयम् ।
Padamanjari¶
वस्त्रचीरमिति । वस्त्रं चीरमिवेति पूर्ववद्व्याध्रादिसमासः ॥
Nyaas¶
सुसूदागृधिभ्यः क्रन् (द।उ।8।42,पं।उ।2।25)[सुसूदाञ्गृधिब्यः क्रन् -द।उ।,पं।उ।] इति वर्तमाने -शुसिचिमीनां दीर्घश्च (द।उ।8।43,पं।उ।2।26) इति क्रन्प्रत्ययान्तश्चीरशब्दः, तेनाद्युदात्तः। वस्त्रचीरम् इति। पूर्ववद्व्याघ्रादित्वात्? समासः। वसेराच्छादनार्थात्? ष्ट्रन्? वस्त्रम्, तेनाद्युदात्तम्। कम्बलचीरम् इति। घृतादीनाञ्च (फि।सू।1।21) इति कम्बलशब्दोऽन्तोदात्तः॥
Prakriyasarvasvam¶
उपमानार्थं चीरमाद्युदात्तं स्यात् । वस्त्रं चीरमिव वस्त्रचीरम् ।