62134: चूर्णादीन्यप्राणिषष्ठ्याः¶
Padacheda: चूर्णादीनि | S | 1 | 3 |
अ-प्राणि-षष्ठ्याः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The words चूर्ण etc. in a तत्-पुरुष समास have acute accent (उदात्त) on the first syllable when preceding word ends in a Genitive 6th-Case and does not denote a living being.
Vasu English Translation¶
The words चूर्ण etc. in a तत्-पुरुष समास have acute accent (उदात्त) on the first syllable when preceding word ends in a Genitive 6th-Case and does not denote a living being. Thus मुद्गचू꣡र्णम्, ससूरचू꣡र्णम्, but मत्स्यचू꣡र्णम् where the first term is a living being, and परमचू꣡र्णम् where it is not Genitive. Another reading of the sutra is चूर्णादीन्यप्राण्युपग्रहात्, the word उपग्रह being the ancient name of षष्ठी given by old Grammarians.
1 चूर्ण, 2 करिव, 3 करिप, 4 शाकिन, 5 शाकट, 6 द्राक्षा, 7 तूस्त, 8 कुन्दुम (कुन्दम), 9 दलप, 10 चमसी, 11 चक्कन (चकन चक्वन), 12 चौल ॥
The word चूर्ण is derived from the root चूरी दाहे (Divadi 50) with the affix क्त; करिव and करिप are formed with the upapada करि and the verbs वा ‘to go’ and पा ‘to protect’ respectively, and the affix क (करिणं वाति = करिव) (3.2.3); शक with the affix इनण् added diversely (Unadi II.56); शक with अटच (Unadi IV. 81) gives शकट; this with अण् (तद्वहति) gives शाकट; द्राक् क्षरति = द्राक्षा (Prishodaradi); तुस् (शब्दे) with क्त gives तूस्त the penultimate being lengthened; the word कुन्दु is formed by the affix क्विप् added to the root दु with the upapada कु (कुन्दुनोति कुत्सितं वा दुनोति) the augment मुस् being added to कु ॥ कुन्दुं मिमीते = कुन्दुमः ॥ दल with the affix कपन् gives दलपः, चम with असच् forms चमस, then is added ङीष्; चक्कन is formed by अच् (3.1.134) added to कन् and reduplication. चोलस्यापत्यं = चौलः ॥
Kashika¶
उत्तरपदादिरिति वर्तते, तत्पुरुष इति च। चूर्णादीन्युत्तरपदानि अप्राणिवाचिनः षष्ठ्यन्तात् पराणि तत्पुरुषे समास आद्युदात्तानि भवन्ति। मु॒द्ग॒चूर्ण॑म्। म॒सू॒र॒चूर्ण॑म्। अप्राणिषष्ठ्या इति किम्? म॒त्स्य॒चू॒र्णम्। षष्ठ्या इति किम्? प॒र॒म॒चू॒र्णम्॥ चूर्ण। करिप। करिव। शाकिन। शाकट। द्राक्षा। तूस्त। कुन्दम। दलप। चमसी। चक्कन। चौल। चूर्णादिः। चूर्णादीन्यप्राण्युपग्रहादिति सूत्रस्य पाठान्तरम्। तत्रोपग्रह इति षष्ठ्यन्तमेव पूर्वाचार्योपचारेण गृह्यते॥
Siddhanta Kaumudi¶
एतानि प्राणिभिन्नषष्ठ्यन्तात्पराण्याद्युदात्तानि तत्पुरुषे । मुद्गचूर्णम् । अप्रेति किम् । मत्स्यचूर्णम् ॥
Padamanjari¶
चूरी दाहे अस्मात् क्तः चूर्णम्। वा गतिगन्धनयोः, पा रक्षणे - आभ्यां करिशब्द उपपदे आतोऽनुपसर्गे कः, करिवम्, करिपम्। महेरिनण्, बहुलवचनात् शकेरपि भवति - शाकिनम्, शकादिभ्योऽटच्, शकटम्, तद्वहतीति शकटादण् - शाकटम् । द्राक् क्षरति द्राक्षा, पृषोदरादिः । तुस शब्दे ततो बहुलवचनात् क्तः उपधादीर्घत्वं च । कुअं दुनोति, कुत्सितं वा दुनोतीति क्किप्, अस्मादेव निपातनातुगभावः, पूर्वपदस्य च मुम् कुन्दुअं मिमीते कुन्दुमः । दलेः कपन्, दलपः । चमेरसच् चमसः ततो जातिलक्षणो ङीष् - चमसी । कनी दीप्तिकान्तिगतिषु - अस्मात् पचाद्यच्, अस्मादेव निपातनाद् द्वर्वचनम् - चक्कनः । च्कन इत्यन्ये पठन्ति, तत्रापि निपातनादेव रुपसिद्धिः । चोलस्यापत्यम् द्व्यचः इत्यण् - चौलः । एते चूर्णादयः । एपूर्वाचार्योपचारेणेति । उपचारः प्रयोगः ॥
Nyaas¶
चूरी दाहे (धातुपाठः-1158), अस्मान्निष्ठा, ते चूर्णमन्तोदात्तम्। करिणः पातीति आतोऽनुपसर्गे कः (3.2.3) पकारस्य पक्षे वकारो निपात्यते -करिपः, करिवः। कृत्स्वरेण थाथादिस्वरेण वान्तोदात्तः। महेरितण्? च (द।उ।5।19) बहुलवचनाच्छकेरपि भवति, शाकिनम्, प्रत्ययस्वरेण मद्योदात्तम्। शकादिभ्योऽटच् (द।उ।5।2;पं।उ।4।81) [शकादिभ्योऽटन् -।दौ;पं।उ।] शकटम्। तद्वहतीति शकटवण्? शाकटम्। प्रत्ययस्वरेणान्तोदात्तः। द्राग्द्रूतं क्षीयत इति द्राक्षा, पृषोदरादित्वात्। अन्तोदात्तोऽयं शब्दः। तुस ह्यस ह्लस रसशब्दे (धातुपाठः-710, 711,712,713), ततो बहुलवचनात्? हसिमृग्रिणवामिदमिलूपूधुर्वीभ्यस्तन् (द।उ।6।7,पं।उ।3।86) [हसिमृग्रिण्वमिदमितमिलूपूधूर्विभ्यस्तन् -द।उ; हसिमृगरण्वामिदमूलपूर्विभ्यस्तन् -पं।उ।] इति तन्, निपातनाद्दीर्घश्च। तूस्तमाद्युदात्तम्। कुत्सितं दुनोतीति `क्विबवचिप्रच्छि इत्यादौ सूत्रे (वा।288) क्विबिति योगविभागः। दुदु उपतापे (दा।पा।1256) इत्यस्मादपि क्विप्, बहुलवचनात्? अनित्यत्वाद्वागमशासनस्य (व्या।प।99) तुगभावः, पूर्वपदस्य च बहुलवचनादेव मुम् -कुन्दु, तन्मिमीत इति माङ्माने (दा।पा।1088) इत्यस्मात्? कः, कुन्दुमोऽन्तोदात्तः। उषिकुटिदलिकचिखजिभ्यः कपन् (द।उ।7।9) तेन दलप आद्युदात्तः। अत्यविचमितमिनमि (द।उ।9।44) इत्यादिनाऽसच् -चमसः, ततो जातिलक्षणो ङीष्? (4.1.63) चमसी। चक तृप्तौ (धातुपाठः-783) इत्यस्मात्? कविप्, चक्। कनी दीप्तिकान्तिगतिषु (धातुपाठः-460) [कन दीप्तिकान्तिगतिषु -धातुपाठः-] तस्मादच्, कनः। चककनः। चोलस्यापत्यं चौलः, द्व्यञ्मगधकलिङ्गसूरमसादण् (4.1.170) इत्यादिनाऽण्। एते चूर्णादयः। मुद्गचूर्णम् इति। मुदि ग्रोर्गग्गौ (द।उ।3।66) इति मुद्गोऽन्तोदात्तः। मसूरचूर्णम् इति। मसेरूरन् (द।उ।8।95) मसूर आद्युदात्तः। मत्स्यचूर्णम् इति। मत्स्यः प्रातिपदिकस्वरेणान्तोदात्तः। तत्रोयग्रह इति षष्ठन्तमेव इति। अनेन तुल्यार्थतां सूत्रयोर्दर्शयति। कथं पुनरुपग्रहः षष्ठन्तमेव गृह्रते? इत्याह -पूर्वाचार्योपचारेण इति। पूर्वाचार्या हि षष्ठन्तमुपग्रह इत्येवमुपचरन्ति स्म। तेनेह पूर्वा चार्योपचारेण हेतुना षष्ठन्तमेवोपग्रह इति गृह्रते। समासस्वरापवादो योगः एवमुत्तरेऽपि त्रयः॥
Prakriyasarvasvam¶
चूर्णचौलच*मसीचलनकरिपकरिचकुन्दमदलवद्राक्षातूस्तशाकिनशाकठान्यप्रा- णिषष्ठ्याः’ (स. ८-४-१४७) अप्राण्यर्थषष्ठ्यन्तात् पराण्येतानि आद्युदात्तानि स्युः । मुद्गचूर्णम् । न्यग्रोधचमसीत्यादि । प्राणिषष्ठ्यास्तु शङ्खचूर्णम् ।