62122: कंसमन्थशूर्पपाय्यकाण्डं द्विगौ

Padacheda: कंस-मन्थ-शूर्प-पाय्य-काण्डम् | S | 1 | 1 |

द्विगौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

In a द्विगु समास (Numeral Determinative Compound) the following second members get acute accent (उदात्त) on their first syllable - 1. कंस 2. मन्थ 3. शूर्प 3. पाय्य and 4. काण्ड।

Vasu English Translation

In a द्विगु समास (Numeral Determinative Compound) the following second members get acute accent (उदात्त) on their first syllable - 1. कंस 2. मन्थ 3. शूर्प 3. पाय्य and 4. काण्ड। Thus द्विकं꣡सः, (द्वाभ्यां कंसाभ्यां क्रीतः the affix टिठन् (5.1.25) is elided by (5.1.28)) त्रिकं꣡सः, द्विम꣡न्थः, (the affix ठक् (4.1.19) is elided by (5.1.28)) त्रिम꣡न्थः, द्विशू꣡र्पः, ( the affix अञ् (5.1.26) is elided) त्रिशू꣡र्पः, द्विपा꣡य्यः, त्रिपा꣡य्यः, द्विका꣡ण्डः, त्रिका꣡ण्डः ॥ Why do we say in a Dvigu? Observe परमकंसः, उत्तमकंसः ॥

Kashika

कंस मन्थ शूर्प पाय्य काण्ड इत्येतान्युत्तरपदानि द्विगौ समास आद्युदात्तानि भवन्ति। द्वि॒कंसः॑। त्र्िाकंसः॑। द्वि॒मन्थः॑। त्र्िामन्थः॑। द्वि॒शूर्पः॑। त्र्िाशूर्पः॑। द्वि॒पाय्यः॑। त्रि॒पाय्यः॑। द्वि॒काण्डः॑। त्रि॒काण्डः॑। द्विगाविति किम् ? प॒र॒म॒कं॒सः। उ॒त्त॒म॒कं॒सः॥

Siddhanta Kaumudi

द्विकंसः । द्विमन्थः । द्विशूर्पः । द्विपाय्यम् । द्विकाण्डम् । द्विगौ किम् । परमकंसः ॥

Padamanjari

द्विकंस इति । द्वाभ्यां कंसाभ्यां क्रीत इति तद्धितार्थे समासः , कंसाट्टिठन् इति टिठन्, तस्य अध्यर्धपूर्व इति लुक् । द्विमन्थ इति । आर्हादगौपुच्छ इत्यादिना ठक्, शेषं पूर्ववत् । द्विशूर्पमिति । शूर्पादञन्यतरस्याम् । द्विपाय्यमिति । पाय्यसान्नाय्य इत्यादिना परिमाणे निपातितः । प्राग्वतेष्ठञ् । द्विकाण्डमिति । देव काण्डे प्रमाणमस्य प्रमाणे द्वयसच् इत्यादिना मात्रजादयः, तेषाम् प्रमाणे लो द्विगोर्नित्यम् इति लुक् ॥

Nyaas

वृतृवदिहनिकमिकषिभ्यः सः (पं।उ।3।62) इति कमेः सः, तेन कंसोऽन्तोदात्तः। मन्थ विलोड्ने (दा।पा।42) अस्मात्? अकर्तरि च कारके संज्ञायाम् (3.3.19) इति घञ्, तेन मन्थ आद्युदात्तः। पानीविषिब्यः पः (पं।उ।3।23) इति वर्तमाने सुशृब्यां निच्च (पं।उ।3।26) इति शृणातेः पः निच्च। बाहुलकादूत्त्वं च। अथ वा -शूर्प माने (धातुपाठः-1612) असमाद्घञ्, तेन शूर्पशब्द आद्युदात्तः। पाय्यशब्दो ण्यति पाय्यसान्नाय्य (3.1.129) इति निपात्यते तेनायमन्तस्वरितः। कुण्डशब्दः पूर्वमेवोक्तस्वरः। द्विकंसः इति। द्वाभ्यां कंसाभ्यां क्रीत इति तद्धितार्थे समासः, ततः प्राग्वतेः संख्यापूर्वपदानां तदन्तविधेरभ्युपगमात्? कंसाट्टिठन् (5.1.25) इति टिठन्, तस्य चापि अध्यद्र्धपूर्व (5.1.28) इत्यादिना लुक्। त्रिकंसः इति। पूर्वेण तुल्यम्। द्विमन्थः इति। आर्हादगोपुच्छ (5.1.19) इत्यादिना ठक्। शेषं समासादि पूर्ववत्। द्विशूर्पः इतिष शूर्पादन्यतरस्याम् (5.1.26) इत्यञ्। शेषं पूर्ववत्। द्विपाय्यः इति। प्राग्वती यष्ठञ्। शेषं पूर्ववत्। द्विकाण्डम् [द्विकाण्डः -काशिका] इति। द्वे काण्डे प्रमाणमस्येति प्रमाणे द्वयसच् (5.2.37) इत्यादिना मात्रजादयः, तेषाम्? प्रमाणे लो द्विगोर्नित्यम् (वा।558, 559) इति लोपः, समासः पूर्ववत्। परमकंसः इति। अत्र समासस्वर एव भवति।

Prakriyasarvasvam

एतानि परपदानि द्विगावाद्युदात्तानि स्युः । द्विकंसः । द्विमन्थः । द्विशूर्पः । द्विपाय्यः । द्विकाण्डः ।