62126: चेलखेटकटुककाण्डं गर्हायाम्

Padacheda: चेल-खेट-कटुक-काण्डम् | S | 1 | 1 |

गर्हायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The words 1. चेल 2. खेट 3. कटुक and 4. काण्ड at the end of a तत्-पुरुष समास have acute accent (उदात्त) on the first syllable when a reproach is meant.

Vasu English Translation

The words 1. चेल 2. खेट 3. कटुक and 4. काण्ड at the end of a तत्-पुरुष समास have acute accent (उदात्त) on the first syllable when a reproach is meant. Thus पुत्रचेल꣡म्, भार्याचेल꣡म्, उपानत्खेट꣡म्, नगरखेट꣡म्, (खेट इति तृणनाम, तद्वद् दुर्बला उपानत्) दधिक꣡टुकम् (कटुकमस्वादु) उदश्वित्क꣡टुकम्, भूतका꣡ण्डम् ( काण्डमिति शरनाम, तद्यथा सत्वपीडाकरमेवं भूतमपि) प्रजाका꣡ण्डम् ॥ The reproach is denoted of the sons &c by comparing them to चेल &c. The analysis will be पुत्रश्चेलमिव i. e. चेलवत् तुच्छम् and the compounding takes place under (2.1.56): the Vyaghradi class being an akrtigana. When reproach is not meant, we have परमचेलम् ॥

Bhashya

चेलखेटकटुककाण्डं गर्हायाम् (2786)

Kashika

चेल खेट कटुक काण्ड इत्येतान्युत्तरपदानि तत्पुरुषे समासे गर्हायां गम्यमानायामाद्युदात्तानि भवन्ति। पु॒त्र॒चेल॑म्। भा॒र्या॒चेल॑म्। उ॒पा॒न॒त्खेट॑म्। न॒ग॒र॒खेट॑म्। द॒धि॒कटु॑कम्। उ॒द॒श्वि॒त्कटु॑कम्। भू॒त॒काण्ड॑म्। प्॒रजा॒काण्ड॑म्। चेलादीनां सादृश्येन पुत्रादीनां गर्हा। तत्र पुत्रश्चेलमिवेति विगृह्य व्याघ्रादेराकृतिगणत्वाद् **उपमितं व्याघ्रादिभिः०**(२.१.५६) इति समासः। गर्हायामिति किम्? प॒र॒म॒चे॒लम्॥

Siddhanta Kaumudi

चेलादीन्युत्तरपदान्याद्युदात्तानि । पुत्रचेलम् । नागरखेटम् । दधिकटुकम् । प्रजाकाण्डम् । चेलादिसादृश्येन पुत्रादीनां गर्हा व्याघ्रादित्वात्समासः । गर्हायां किम् परमचेलम् ॥

Padamanjari

पुत्रचेलमिति । चेलवतुच्छमित्यर्थः । खेट इति तृणनाम, तद्वद् दुर्बला उपानत्खेटम्। कटुअकम् - अस्वादु, तथा दध्यपि गतस्वादुकत्वात् कटुअकम्। काण्डमिति शरनाम, तद् यथा सत्वपीडाकरम्, एवं भूतमपि ॥

Nyaas

वेलृ चेलृ केलृ चलने (धा।पा 535,536,537) अस्मात्? संज्ञायां घञ्, चेलम्=वस्त्रमुच्यते। खिट उत्त्रासने (धातुपाठः-302) [त्रासे-धातुपाठः-] अस्मादपि भावे घञ् -खेटः, तृणनामैतत्। ञित्स्वरेण चेलखेटशब्दावाद्युदात्तौ। कटुशब्दात्? संज्ञायां कन्? (4.3.145) , गुणवचनमेतदाद्युदात्तम्। काण्डमप्याद्युदात्तमेवेत्युक्तम्। चेलादीनां सादुश्येन पुत्रादीनां गर्हा इति। यता चेलमकुलीनेन तन्तुवायेनोपजनितमेवं पुत्रोप्यकुलीनजो यः स पुत्रचेलम् इत्युच्यते। यथा काण्डं सत्वपीडाकरमेवं भूतमपि। तत्र पुत्रशब्दः प्रत्ययस्वरेणान्तोदात्तः। स हि अमिचिमिदिशसिभ्यः क्यः (द।उ।8।86,पं।उ।4।163) इत्यनुवर्तमाने `पुरो ह्रस्वश्च (द।उ।8।87,पं।उ।4।164) [पूञो ह्रस्वश्च -द।उ।,पुवो ह्रस्वश्च -पं।उ।] इति पुत्रशब्दः क्तप्रत्ययान्तो व्युत्पाद्यते। भार्याशब्दः `ऋहलोण्र्यत् (3.1.124) इति ण्यदन्तत्वादन्तस्वरितः। णह बन्धने (दा।पा।1166) अस्मादुपपूर्वात्? क्विप्? नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ (6.3.116) इत्यादिना पूर्वपदस्य दीर्घत्वम्, नहो धः (8.2.34) इति नकारस्य धकारः, तस्य चर्त्वम् -तकारः। उपानच्छब्दः कृत्स्वरेणान्तोदात्तः। नगा अस्मिन्? विद्यन्त इति नगरात् कुत्सनप्रावीण्ययोः (4.2.128) इत्यस्मादेद निपातनाद्रप्रत्ययः, तेन नगरमन्तोदात्तम्। दधीति आदृगम (3.2.171) इत्यादिन क्विन्प्रत्ययान्तो दधातेव्र्युत्पाद्यते, तेनाद्युदात्तः। उदकेन शूयत इत्युदइआत्, क्विप्। क्विब्वचिप्रच्छि (द।उ।10।2) इत्यादिना बहुलवचनाद्दीर्धोऽस्य न भवति। उदकस्योदः संज्ञायाम् (6.3.57) इत्युदभावः, कृत्स्वरेणान्तादात्तः। बूतशब्दोऽपि निष्ठान्तत्वादन्तोदात्तः। प्रजाशब्दः उपसर्गे च संज्ञायाम् (3.2.99) इति डप्रत्ययान्तः, -कतेन कृत्स्वरेणान्तोदात्तः। परमचेलम् इति। अत्र पूजा गम्यते, न गर्हा॥

Prakriyasarvasvam

एतानि परपदानि गर्हायां द्योत्यायामाद्युदात्ताः स्युः । पुत्रचेलम् । विद्वत्खेटम् । दधिकटुकम् मनुष्यकाण्डम् । वस्त्रतृणास्वादुशरा (द्य ?) र्थाः चेलादयः । तत्तुल्याः पुत्रादय इत्यर्थः ।। तादृशा एवमुक्ताः । *तुच्छत्वदुर्बलत्वदुः स्वादुत्वभूतद्रोहित्वानि गर्हा । ‘उपमितं व्याघ्र—’ (२-१-५६) इति समासः ।