Sutras 41 - 60¶
- 54041: वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि
- 54042: बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्
- 54043: संख्यैकवचनाच्च वीप्सायाम्
- 54044: प्रतियोगे पञ्चम्यास्तसिः
- 54045: अपादाने चाहीयरुहोः
- 54046: अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः
- 54047: हीयमानपापयोगाच्च
- 54048: षष्ठ्या व्याश्रये
- 54049: रोगाच्चापनयने
- 54050: अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः
- 54051: अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च
- 54052: विभाषा साति कार्त्स्न्ये
- 54053: अभिविधौ सम्पदा च
- 54054: तदधीनवचने
- 54055: देये त्रा च
- 54056: देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्
- 54057: अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्
- 54058: कृञो द्वितीयतृतीयशम्बबीजात् कृषौ
- 54059: संख्यायाश्च गुणान्तायाः
- 54060: समयाच्च यापनायाम्