54057: अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्

Padacheda: अव्यक्त-अनुकरणात् | S | 5 | 1 |

द्व्यच्-अवरार्धात् | S | 5 | 1 |

अनितौ | S | 7 | 1 |

डाच् | S | 1 | 1 |

Sutrartha

अव्यक्तानुकरणवाचिनः शब्दस्य द्वित्वे कृते पूर्वभागे द्वौ वा अधिकाः स्वराः विद्यन्ते चेत् तस्मात् कृ-भू-अस्-धातूनाम् योगे डाच् प्रत्ययः भवति । परन्तु ‘इति’ शब्दस्य योगे अयम् प्रत्ययः न विधीयते ।

अस्य सूत्रस्य अर्थः गहनः अस्ति, अतः सर्वान् बिन्दून् क्रमेण पश्यामः - 1. लोके विद्यमानाः अनेके ध्वनयः वर्णैः स्पष्टरूपेण व्यक्ताः न भवन्ति । Many sounds that occur around us cannot be precisely expressed using the letters in the language. यथा - द्वारस्य ध्वनिः (The sound of a knocking a door), घण्टायाः ध्वनिः (The sound of a bell), फलस्य पतनस्य ध्वनिः (The sound of a fruit falling on ground), जलप्रपातस्य ध्वनिः (The sound of a waterfall), सर्पस्य गमनस्य ध्वनिः ( The sound of crawling of snake) आदयः । एतेषाम् निर्देशार्थम् यद्यपि विशिष्टाः वर्णाः न विद्यन्ते, तथापि जनैः भिन्नासु भाषासु एते ध्वनयः भिन्नानाम् शब्दानाम् प्रयोगेण अवश्यम् निर्दिश्यन्ते । यथा - द्वारस्य ध्वनिः ‘खट्-खट्’ इत्यनेन, घटिकायाः ध्वनिः ‘टिक्-टिक्’ इत्यनेन, सर्पस्य ध्वनिः ‘सर्-सर्’ इत्यनेन, फलस्य पतनस्य ध्वनिः ‘धम्’ इत्यनेन - आदयः । संस्कृतभाषायामपि एतादृशाः शब्दाः प्रचलिताः सन्ति । यथा - पटत् (जलबिन्दूनाम् पतनस्य ध्वनिः - The sound of water droplets), धमत् (बकुरवादनस्य ध्वनिः, The sound of blowing a trumpet), छमत् (crackling noise) - आदयः । एतादृशाः शब्दाः ‘अव्यक्तस्य’ अनुकरणम् कुर्वन्ति (These sounds try to mimic an otherwise-non-reproducible sound) । एते सर्वे शब्दाः ‘अव्यक्त-अनुकरण-वाचिनः’ सन्तीति उच्यते । वर्तमानसूत्रम् एतादृशानामव्यक्त-अनुकरण-वाचिनाम् शब्दानाम् विषये प्रत्ययविधानम् करोति । 2. यदि अव्यक्तानुकरणवाचिनि कस्मिंश्चित् शब्दे द्वौ उत अधिकाः स्वराः सन्ति, तर्हि ‘कृ’, ‘भू’ तथा ‘अस्’ एतेषाम् योगे अस्मात् शब्दात् वर्तमानसूत्रेण ‘डाच्’ इति प्रत्ययः विधीयते । अस्य प्रत्ययस्य विवक्षायाम् , परन्तु प्रत्ययविधानात् पूर्वमेव <!डाचि बहुलम् द्वे भवतः!> इत्यनेन वार्त्तिकेन प्रकृतेः द्वित्वं भवति । In the anticipation of this pratyay, even before the pratyay can actually gets applied, the प्रकृति undergoes a द्वित्व । अस्मात् कृत-द्वित्वात् प्रातिपदिकात् डाच्-प्रत्ययस्य प्रत्यक्षस्थापनम् भवति । यथा - पटत् करोति / पटत् भवति / पटत् स्यात् इत्येव = पटत् + पटत् + डाच् [वर्तमानसूत्रेण डाच्-प्रत्ययः विधीयते । प्रत्ययस्य विवक्षायाम्, परन्तु प्रत्ययविधानाम् पूर्वम् <!डाचि बहुलम् द्वे भवतः!> इति वार्त्तिकम् प्रवर्तते ।अनेन वार्त्तिकेन प्रकृतेः द्वित्वं विधीयते । द्वित्वे कृते अनन्तरम् डाच्-इति प्रत्ययः प्रत्यक्षरूपेण उपतिष्ठति] विशेषः - <!डाचि बहुलम् द्वे भवतः!> इति वार्त्तिकम् भाष्यकारेण प्रकारे गुणवचनस्य (8.4.12) इत्यत्र पाठितमस्ति । डाच्-प्रत्ययस्य विषये प्रत्ययविधानात् पूर्वमेव प्रकृतेः द्वित्वम् विधीयते - इति अस्य वार्त्तिकस्य अर्थः । 3. यत्र द्वित्वं भवति, तत्र परशब्दस्य तस्य परमाम्रेडितम् (8.1.2) इत्यनेन ‘आम्रेडित’ इति संज्ञा भवति । On doing the द्वित्व, the ‘second member’ of the pair gets the term ‘आम्रेडित’ । यदा एतादृशात् आम्रेडितसंज्ञकशब्दात् डाच्-प्रत्ययः विधीयते, तदा द्वित्वे विद्यमानस्य पूर्वशब्दस्य अन्तिमः वर्णः, तथा च आम्रेडितसंज्ञकस्य प्रथमः वर्णः, एतयोः नित्यमाम्रेडिते डाचि (6.1.100) इत्यनेन पररूप-एकादेशः भवति । यथा- पटत् + पटत् + डाच् [तस्य परमाम्रेडितम् (8.1.2) इत्यनेन द्वितीयस्य पटत्-शब्दस्य आम्रेडितसंज्ञा] → पटपटत् + डाच् [प्रथमस्य ‘पटत्’ शब्दस्य अन्तिमः वर्णः (= तकारः) तथा च आम्रेडितसंज्ञकस्य पटत्-शब्दस्य प्रथमः वर्णः (= पकारः) एतयोः नित्यमाम्रेडिते डाचि (6.1.100) इत्यनेन पररूप-एकादेशः (पकारः) विधीयते । त् + प् → प् इत्याशयः ।] विशेषः - नित्यमाम्रेडिते डाचि (6.1.100) इति सूत्रम् कौमुद्याम् वार्त्तिकरूपेण पाठ्यते, परन्तु काशिकायाम् एतत् सूत्रम् सूत्ररूपेण स्वीकृतमस्ति । तथा च, अनेन सूत्रेण एकादेशः तदा एव भवति यदा पूर्वशब्दे ‘अत्’ इति अन्ते विद्यते । प्रायः सर्वे अनुकरणवाचिनः शब्दाः (यथा - पटत्, दमत्, धमत् - आदयः) ‘अत्’ इत्यनेनैव समाप्यन्ते, अतः सर्वेषां विषये अस्य सूत्रस्य प्रसक्तिः विद्यते एव । 4. ‘डाच्’ प्रत्यये चकारडकारयोः इत्संज्ञा लोपश्च भवति, ‘आ’ इत्येव अवशिष्यते । प्रत्ययस्य डित्त्वात् टेः (6.4.143) इति टिलोपः भवति । यथा - पटपटत् + डाच् → पटपटत् + आ [डकारस्य चुटू (1.3.7) इति इत्संज्ञा । चकारस्य हलन्त्यम् (1.3.3) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति द्वयोः लोपः भवति ] → पटपट् + आ [टेः (6.4.143) इति टिलोपः] → पटपटा इयम् सर्वा प्रक्रिया ‘कृ’ / ‘भू’ / ‘अस्’ एतेषाम् योगे एव भवतीति स्मर्तव्यम् । यथा - पटपटा करोति, पटपटा भवति, पटपटा स्यात् । इदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् - - अव्यक्तानुकरणवाचिनः शब्दस्य (यथा पटत्) - द्वित्वे कृते (यथा - पटत् पटत्) - पूर्वभागे (यथा - पटत् इत्यत्र) - द्वौ वा अधिकाः स्वराः विद्यन्ते चेत् (यथा - प् + अ + ट् + अ + त् इत्यत्र द्वौ स्वरौ स्तः) - तस्मात् (यथा - पटत् पटत् इत्यस्मात् कृतद्वित्वात् शब्दात्) - कृ-भू-अस्-धातूनाम् योगे (यथा - करोति, भवति, स्यात् - एतेषाम् योगे) - डाच् प्रत्ययः भवति (यथा - पटत् + पटत् + डाच् + करोति = पटपटा करोति) । सम्पूर्णा प्रक्रिया अधः पुनरेकवारं दत्ता अस्ति - पटत् करोति / पटत् भवति / पटत् स्यात् इत्येव = पटत् + पटत् + डाच् [वर्तमानसूत्रेण डाच्-प्रत्ययः । <!डाचि बहुलम् द्वे भवतः!> इति वार्त्तिकेन डाच्-प्रत्ययस्य विषये द्वित्वम् । द्वित्वे कृते अनन्तरम् डाच्-प्रत्ययविधानम् ।] → पटपटत् + डाच् [तस्य परमाम्रेडितम् (8.1.2) इत्यनेन द्वितीयस्य पटत्-शब्दस्य आम्रेडितसंज्ञा । नित्यमाम्रेडिते डाचि (6.1.100) इति पूर्ववर्ण-परवर्णयोः पररूपएकादेशः] → पटपटत् + आ [डकारस्य चुटू (1.3.7) इति इत्संज्ञा । चकारस्य हलन्त्यम् (1.3.3) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति द्वयोः लोपः भवति ] → पटपट् + आ [टेः (6.4.143) इति टिलोपः] → पटपटा यथा - पटपटा करोति, पटपटा भवति, पटपटा स्यात् । अन्यानि कानिचन उदाहरणानि - 1. धमत् धमत् करोति = धमधमा करोति । एवमेव - धमधमा भवति, धमधमा स्यात् । 2. दमत् दमत् करोति = दमदमा करोति । एवमेव - दमदमा भवति, दमदमा स्यात् । 3. छमत् छमत् करोति = छमछमा करोति । एवमेव - छमछमा भवति, छमछमा स्यात् । 4. घरटत् घरटत् करोति = घरटघरटा करोति । एवमेव - घरटघरटा भवति, घरटघरटा स्यात् । स्मर्तव्यम् - एतेषु सर्वेषु उदाहरणेषु मूलः अव्यक्तानुकरणवाचि शब्दः तु ‘धमत्’ / ‘दमत्’ / ‘छमत्’ / ‘घरटत्’ इत्येव अस्ति । परन्तु डाच्-प्रत्ययस्य विवक्षायाम् द्वित्वं कृत्वा कृतद्वित्वस्य शब्दस्यैव विग्रहवाक्ये प्रयोगः क्रियते । अस्मिन् सूत्रे ‘अनितौ’ (= न इतौ) इति अपि निर्दिश्यते । अतः वाक्ये ‘इति’ शब्दस्य प्रयोगः भवति चेत् डाच्-प्रत्ययः न विधीयते (अतः द्वित्वादीनि कार्याणि अपि न भवन्ति) । यथा - ‘पटत् इति करोति’ इति उच्यते चेत् अत्र वर्तमानसूत्रस्य प्रयोगः न भवति, अपितु अव्यक्तानुकरणस्यात इतौ (6.1.98) इत्यनेन ‘पटिति करोति’ इति रूपम् सिद्ध्यति । इदानीमस्य सूत्रस्य विषये केचन प्रमुखाः बिन्दवः ज्ञातव्याः - 1. यदि अव्यक्तानुकरणवाचिनि शब्दे एकः एव स्वरः अस्ति, तर्हि तस्य विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । यथा - ‘श्रत्’ अस्य शब्दस्य विषये केवलम् ‘श्रत् करोति’ इत्येव भवति । अत्र डाच्-प्रत्ययः एव नैव विधीयते, यतः डाच्-प्रत्यये कृते द्वित्वे कृते ‘प्रथमशब्दे’ द्वौ अच्-वर्णौ नैव लभ्येते । 2. यदि ध्वनेः निर्देशः व्यक्तरूपेण भवितुमर्हति, तर्हि वर्तमानसूत्रस्य प्रसक्तिः न विद्यते । यथा, कस्यचन शिशुः ‘अ’, ‘क्’ , ‘स्’ एतादृशान् ध्वनीन् करोति चेत् एते सर्वे वर्णैः व्यक्ताः ध्वनयः सन्ति । अतः एतेषाम् विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । 3. ध्वनेः विशेषणरूपेण प्रयुक्तानाम् शब्दानाम् विषये अपि अस्य सूत्रस्य प्रयोग न क्रियते । यथा - ‘ईषद् करोति’ (makes a little sound), ‘दीर्घः करोति’ ( makes a prolonged sound) - एतादृशेषु वाक्येषु स्वयं ध्वनिः न उच्यते, अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । 4. अस्मिन् सूत्रे ‘द्व्यच् अवरार्धात्’ इति उच्यते । अस्य अर्थः अयम् - द्वित्वे कृते यः ‘अवरार्धः’ शब्दः (the lower half / the first half), तस्मिन् द्वौ वा अधिकाः स्वराः भवेयुः - इति । वस्तुतः द्वित्वे कृते विद्यमानः ‘अवरार्धः’ शब्दः स्वयमव्यक्तवाची शब्दः एव अस्ति । The first half of the result of द्वित्व, by definition, is the original word itself । अतः ‘द्व्यच् अवरार्धात्’ अस्य अर्थः - ‘मूलशब्दे द्वौ वा अधिकाः स्वराः भवेयुः’ इत्येव विद्यते । अतः वस्तुतः आचार्यः पाणिनिः ‘अनेकाच्’ इत्येव ब्रूयात् चेदपि पर्याप्तम् , सुलभम् च । अतएव कौमुदीकारः वदति - अनेकाच इत्येव सूत्रयितुमुचितम् । प्रायः पाणिनिना एतत् सूत्रम् पूर्वचार्याणाम् व्याकरणेषु स्वीकृतमस्ति, अतः तादृशम् एव स्थापितम् स्यात् - इति पण्डिताः अस्मिन् विषये मन्यन्ते । 5. वर्तमानसूत्रेण विहितः डाच्-प्रत्ययः ‘अस्’, ‘भू’, ‘कृ’ एतेषाम् योगे एव भवति । परन्तु अत्र एतेषाम् धातूनाम् केवलम् ‘तिङन्तरूपम्’ आवश्यकम् इति कोऽपि नियमः नास्ति । अतः एतेषामन्येषाम् रूपाणां विषये अपि अस्य सूत्रस्य प्रसक्तिः विद्यते । यथा - [अ] सन्नन्तरूपाणि - पटपटा चिकीर्षति, पटपटा बोभूयति - आदयः । [आ] णिजन्तरूपाणि - पटपटा कारयति, पटपटा भावयति - आदयः । [इ] कृदन्तरूपाणि - पटपटाकृतम्, पटपटाभवितव्यम्, पटपटासन् - आदयः । 6. ‘डाच्’ अस्मिन् प्रत्यये चकारस्य ग्रहणम् किमर्थम् कृतमस्ति ? वस्तुतः तु चित्-प्रत्ययान्तशब्दस्य अन्तिमः स्वरः चितः (6.1.163) इत्यनेन उदात्तः भवति । इत्युक्ते, अत्र चकारग्रहणेन प्रत्ययस्य ‘आ’ इति स्वरस्य उदात्तत्वम् निर्दिश्यते, यतः अयम् ‘आ’ इति स्वरः तद्धितान्तशब्दस्य अन्तिमः स्वरः अपि अस्ति । परन्तु एतत् उदात्तत्वम् तु आद्युदात्तश्च (3.1.3) इत्यनेनैव सिद्ध्यति, यतः ‘आ’ इति स्वरः प्रत्ययस्यापि आदिस्वरः अस्ति । अतः अत्र चकारग्रहणस्य प्रयोजनमस्ति वा - इति प्रश्नः उपतिष्ठति वस्तुतः चकारग्रहणस्य अत्र प्रयोजनद्वयम् विद्यते - अ) ‘पटपटा असि’ एतादृशेषु वाक्येषु सन्धिकार्यम् कृत्वा ‘पटपटासि’ इति सिद्धे सवर्णदीर्घेन जायमानः टकारोत्तरः अकारः स्वरितो वाऽनुदात्ते पदादौ (8.2.6) इत्यनेन विकल्पेन स्वरितत्वम् प्राप्नोति । एतत् स्वरितत्वं बाधयितुम्, तथा च आकारस्य उदात्तत्वम् पुनःस्थापयितुमस्मिन् प्रत्यये चकारग्रहणम् क्रियते । चकारग्रहणेन एतत् ज्ञाप्यते, यत् सन्धिकार्यात् अनन्तरमपि आकारः उदात्तः एव स्यात् - इति । आ) लोहितादिडाज्भ्यः क्यष् (3.1.13) अस्मिन् सूत्रे ‘डाच्’ इति प्रत्ययस्य विशिष्टनिर्देशः आवश्यकः, अतः तदर्थमपि ‘डाच्’ इति अत्र गृह्यते । यदि अत्र केवलम् ‘डा’ इत्येव उच्येत, तर्हि लोहितादिडाज्भ्यः क्यष् (3.1.13) अस्मिन् सूत्रे अपि ‘डा’ इत्येव निर्देशः आवश्यकः स्यात्, येन लुटः प्रथमस्य डारौरसः (2.4.85) तथा च सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः (7.1.39) इत्यत्र निर्दिष्टस्य डा-प्रत्ययस्य अपि अनिष्टम् ग्रहणम् स्यात् । परन्तु तत् न इष्यते, अपितु ‘क्यष्’ प्रत्ययः केवलम् ‘डाच्’ प्रत्ययात् परः एव भवितुमर्हति । अतः वर्तमानसूत्रे ‘डाच्’ इत्यत्र चकारग्रहणं कृत्वा अन्येभ्यः डा-प्रत्ययेभ्यः तस्य पृथग् निर्देशः क्रियते । 7. लोहितादिडाज्भ्यः क्यष् (3.1.13) इत्यनेन सूत्रेण डाच्-प्रत्ययान्तशब्दात् ‘क्यष्’ इति कश्चन सनादिप्रत्ययः भवति । वस्तुतः तु डाच्-प्रत्ययः केवलम् ‘कृ’ / ‘भू’ / ‘अस्’ - एतेषाम् योगे एव विधीयते । एवं सति ‘क्यष्’ प्रत्ययस्य योगे डाच्-प्रत्ययः कथं स्यात् - इति प्रश्नः विधीयते । अस्य उत्तरम् एतत् - लोहितादिडाज्भ्यः क्यष् (3.1.13) इति सूत्रमेव अस्य ज्ञापकम्, यत् ‘क्यष्’ प्रत्ययस्य योगे अपि प्रातिपदिकात् डाच्-प्रत्यय भवति । यथा, पटत् + पटत् + डाच् + क्यष् → पटपटाय । एतादृशः निर्मितः यः ‘पटपटाय’ शब्दः, तस्य सनाद्यन्ताः धातवः (3.1.32) इति धातुसंज्ञा भवति, अतः तस्य अग्रे ‘पटपटायति / पटपटायते’ इति रूपाणि भवन्ति । अयम् क्यष्-प्रत्ययः ‘भवति’ इत्यस्यैव अर्थे विधीयते, अतः ‘पटपटायति’ इत्युक्ते ‘पटपटा भवति’ इत्येव । 8. डाच्-प्रत्ययान्तशब्दानाम् (यथा, ‘पटपटा’, ‘दमदमा’ - आदीनाम्) ऊर्यादिच्विडाचश्च (1.4.61) इत्यनेन ‘निपात’ तथा ‘गति’द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् (1.1.37) इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः ‘अव्यय’संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा ‘गतिसंज्ञा’कारणात् कुगतिप्रादयः (2.2.18) इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - पटपटाकृतम्, पटपटाभूतः, पटपटासन् - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र ‘पटपटा करोति’ एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः (1.4.80) इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः ‘पटपटा करोति’ इत्येव वक्तव्यम्, न हि ‘करोति पटपटा’ इति । 9. इदम् सूत्रम् समर्थानाम् प्रथमात् वा (4.1.82) अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः ‘डाच्’ प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - ‘पटत् पटत् करोति’ , ‘पटत् पटत् भवति’, ‘पटत् पटत् स्यात्’ - आदयः । 10. अस्मिन् सूत्रे ‘द्व्यच् अवरार्धात्’ इति ग्रहणम् वस्तुतः दोषपूर्णमस्ति, यतः अनेन अत्र अन्योन्याश्रयः दोषः (circularity) विधीयते । तद् एतादृशम् - अव्यक्तशब्दस्य डाच्-प्रत्यये परे द्वित्वे कृते तस्य अवरस्मिन् भागे द्वौ वा अधिकाः अच्-वर्णाः सन्ति चेदेव तत्र डाच्-प्रत्ययः भवेत् - इति अस्य सूत्रस्य अर्थः । अत्र एतादृशः अन्योन्याश्रयः दृश्यते - अ) द्वित्वस्य कारणम् डाच्-प्रत्ययः, यतः डाच्-प्रत्यये कृते एव द्वित्वम् सम्भवति । अतः प्रारम्भे डाच्-प्रत्ययं कृत्वा ततः द्वित्वम् करणीयम् । आ)परन्तु डाच्-प्रत्ययार्थम् द्वित्वमावश्यकम्, यतः द्वित्वे कृते एव ‘अवरार्ध’भागस्य निर्माणं भवति, यस्मिन् द्वौ वा अधिकाः अच्-वर्णाः सन्ति चेदेव डाच्-प्रत्ययविधानम् । अतः प्रारम्भे द्वित्वं कृत्वा ततः डाच्-प्रत्ययः प्रयोक्तव्यः । Thus, the word ‘अवरार्ध’ has caused a circular dependency in this sutra. The द्वित्व can only be done after डाच् प्रत्यय gets attached, where as the डाच् प्रत्यय can only be applied after doing द्वित्व and then counting the number of अच् letters in the अवरार्ध. This is indeed a problem. अस्य अन्योन्याश्रयदोषस्य समाधानम् कर्तुम् व्याख्यानानि ‘विषयसप्तम्याः’ साहाय्यं स्वीकुर्वन्ति । इत्युक्ते, <!डाचि बहुलम् द्वे भवतः!> अस्मिन् वार्त्तिके विद्यमाना ‘डाचि’ इति विषयसप्तमी स्वीक्रियते । अस्य अर्थः अयम् - अ) द्वित्वविधानम् डाच्-प्रत्ययं कृत्वा ततः न भवति, अपितु डाच्-प्रत्ययस्य विवक्षायाम् प्रारम्भे एव भवति । In the anticipation of the डाच्-प्रत्यय, the doubling (द्वित्व) happens well-in advance. आ) द्वित्वे कृते अवरार्धभागे विद्यमानान् द्वौ अच्-वर्णान् दृष्ट्वा ततः डाच्-प्रत्ययः प्रत्यक्षं विधीयते । On doing the द्वित्व, and on confirming that there are indeed two or more अच्-letters in the अवरार्ध, the डाच् प्रत्यय will then actually appear in the prakriya. इ) यदि द्वित्वे कृते अवरार्धभागे केवलं एकः एव अच्-वर्णः भवति, तर्हि डाच्-प्रत्ययः नैव विधीयते, अतः द्वित्वमपि मूलरूपेणैव न भवति । If, on doing the द्वित्व, it turn out that there is only one अच्-letter in the अवरार्ध, then the डाच् प्रत्यय will actually not be attached, and hence the द्वित्व will also not actually happen. अनेन ‘विषयसप्तमी’विधानेन अन्योन्याश्रयस्य समाधानम् तु भवति, परन्तु तदर्थम् क्लिष्ट-स्पष्टीकरणमावश्यकम् विद्यते ।The concept of विषयसप्तमी indeed solves the problem of circular dependency, but the explanation is unnecessarily complex and tedious । वस्तुतः तु अस्य प्रश्नस्य सरलम् समाधानमपि एकम् विद्यते - ‘अवरार्ध’ इत्यस्य शब्दस्य सूत्रात् प्रत्याख्यानम् कृत्वा अन्योन्याश्रयः दोषः अपि निर्गच्छति । A better solution for the circular dependency is to get rid of the problematic word ‘अवरार्ध’ in the first place । अतएव कौमुदीकारः वदति - *अनेकाच इत्येव सूत्रयितुमुचितम् । एवं हि डाचीति परसप्तम्येव द्वित्वे सुवचेत्यवधेयम् * । इत्युक्ते, यदि इदम् सूत्रम् ‘अव्यक्तानुकरणात् अनेकाच् अनितौ डाच्’ इत्येव क्रियते, तर्हि अयमन्योन्याश्रयः नैव विधीयते,अतः, ‘डाचि’ इत्यपि विषयसप्तमी नैव आवश्यकी ।अस्य अर्थः एतादृशः - अ) [अव्यक्तानुकरणात् अनेकाच् अनितौ डाच्] - यदि अव्यक्तानुकरणवाची शब्दः (यथा - पटत्, छमत् - आदयः) अनेकाच् अस्ति, तर्हि तस्मात् डाच्-प्रत्ययः भवति । आ)[<!डाचि बहुलम् द्वे भवतः!>] - डाच्-प्रत्यये परे अङ्गस्य द्वित्वम् विधीयते । अत्र डाच्-प्रत्ययविधानम् ‘अवरार्ध’स्य प्रतिक्षां नैव करोति, अतः तत् द्वित्वात् प्रारम्भे एव भवितुमर्हति । एतादृशम् वस्तुतः ‘अनेकाच्’ इत्येव अत्र सुवचम् ।

Vasu English Summary

The affix डाच् comes after the half of a word denoting an imitation of an inarticulate sound when such half consists of at least two syllables and when it is not followed by the quotation-mark इति।

Vasu English Translation

The affix डाच् comes after the half of a word denoting an imitation of an inarticulate sound when such half consists of at least two syllables and when it is not followed by the quotation-mark इति। The sound in which the letters अ आ &c are not distinctly expressed is called avyakta ‘unmanifest’ or ‘inarticulate’. The imitation of such a sound is called avyakta-anukarana. That whose half consists of at least two syllables is called dvyajavarardha, that is a polysyllabic word of four syllables or more when doubled, the smallest number of whose vowels are two, not less, when halved. The phrase “when joined with kri, bhu and asti” is understood here. The affix comes after that word which when reduplicated is such that its half (ardha) is at least (avara) of two syllables (dvyach). When the affix डाच् is added there is reduplication of the word. That is first the word is reduplicated and then the affix is added. Thus पटत् is a sound imitation word. By reduplication it becomes पटपटत् (eg. पटत् + पटत् = पटप् पटत् the final त् of the first word is changed in to the form of the next letter प्, and then for two प one is substituted by (6.1.100)). Thus पटपटत् करोति = पटपटा करोति “he makes a sound like patat patat”. So also with भवति and स्यात् ॥ So also दमदमा करोति, भवति or स्यात् ॥ The final अत् of पटपटत् is elided by (6.4.143) before the affix डाच् having an indicatory ड्, the real affix being आ ॥

Why do we say “when it is name of an imitative sound?” Observe दृषत् करोति “it makes or turns to stone”. Why do we say “after that half which consists of at least two vowels”? Observe श्रत् करोति ‘he utters the exclamation srat’. Why do we say “at least”? Observe खरटखरटा करोति where the half consists of more than two syllables and the rule still applies. So also त्रपटत्रपटा करोति ॥ Why do we say “when इति does not follow”? Observe पटिति करोति (6.1.98). The च् of डाच् is for the sake of accent, it prevents the circumflex (swarita) accent. Thus, पटपटा꣡ + अ꣡सि ॥ Here first the अ of असि which was udatta, becomes anudatta by (8.1.28). Then by (8.2.5), आ꣡ of टा and अ of असि coalesce into an udatta आ꣡, as पटपटासि ॥ But then comes in rule (8.2.6) which would make this आ optionally svarita, the indicatory च् prevents it. Some read द्व्यजवरार्ध्यात्, the य however does not change the sense.

Bhashya

अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् (2334 (डाचोऽधिकरणम्) (चित्करणप्रयोजनभाष्यम्) किमर्थश्चकारः? स्वरार्थः। चितोऽन्त उदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात्॥ (चित्करणस्य निष्फलत्वद्योतकभाष्यम्) नैतदस्ति प्रयोजनम्। एकाजयं तत्र नार्थः स्वरार्थेन चकारेणानुबन्धेन। प्रत्ययस्वरेणैव सिद्धम्॥ अत उत्तरं पठति - (5928 चित्करणप्रयोजनवार्तिकम्॥ 1 ॥) - डाचि चित्करणं विशेषणार्थम् - (भाष्यम्) डाचि चित्करणं क्रियते विशेषणार्थम्। क्व विशेषणार्थेनार्थः? लोहितादिडाज्भ्यः क्यष् 3.1.13 इति। डा इति ह्युच्यमान इडा अतोऽपि प्रसज्येत। अर्थवद्ग्रहणे नानर्थकस्येतीत्येवमेतस्य न भविष्यति। इदं तर्हि प्राप्नोति - नाभा पृथिव्या निहितो दविद्युतत्। तस्माच्चकारः कर्तव्यः॥

Kashika

यत्र ध्वनावकारादयो वर्णा विशेषरूपेण न व्यज्यन्ते सोऽव्यक्तः। तस्यानुकरणमव्यक्तानुकरणम्। द्व्यज् अवरार्धं यस्य तद् द्व्यजवरार्धम्। अवरशब्दोऽपकर्षे। यस्यापकर्षे क्रियमाणे सुष्ठु न्यूनमर्धं द्व्यच्कं संपद्यते, तस्मादव्यक्तानुकरणादनितिपराड् डाच् प्रत्ययो भवति। कृभ्वस्तियोग इत्यनुवर्तते। यस्य च द्विर्वचने कृते द्व्यजवरार्धं ततः प्रत्ययः। डाचि बहुलं द्वे भवतः (वा० ८.१.१२) इति विषयसप्तमी। डाचि विवक्षिते द्विर्वचनमेव पूर्वं क्रियते, पश्चात् प्रत्ययः। पटपटाकरोति। पटपटाभवति। पटपटास्यात्। दमदमाकरोति। दमदमाभवति। दमदमास्यात्। अव्यक्तानुकरणादिति किम्? दृषत्करोति। द्व्यजवरार्धादिति किम् ? श्रत्करोति। अवरग्रहणं किम् ? खरटखरटाकरोति। त्रपटत्रपटाकरोति। अनिताविति किम् ? पटिति करोति। चकारः स्वरार्थः स्वरितबाधनार्थः। पटपटासि। अत्र स्वरितो वानुदात्ते पदादौ (८.२.६) इति स्वरितो न भवति। केचिद् द्व्यजवरार्ध्यादिति यकारं पठन्ति, स स्वार्थिको विज्ञेयः॥

Siddhanta Kaumudi

द्व्यच् अवरं न्यूनं न तु ततो न्यूनम् । अनेकाजिति यावत् । तादृशमर्धं यस्य तस्माड्डाच् स्यात्कृभ्वस्तिभिर्योगे ।<!डाचि विवक्षिते द्वे बहुलम् !> (वार्तिकम्) ।<!नित्यमाम्रेडिते डाचीति वक्तव्यम् !> (वार्तिकम्) ॥ डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररुपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । अव्यक्तानुकरणात्किम् । दृषत्करोति । द्व्यजवरार्धात्किम् । श्रत्करोति । अवरेति किम् । खरटखरटाकरोति । त्रपटत्रपटाकरोति । अनेकाच इत्येव सूत्रयितुमुचितम् । एवं हि डाचीति परसप्तम्येव द्वित्वे सुवचेत्यवधेयम् । अनितौ किम् । पटिति करोति ॥

Laghu Siddhanta Kaumudi

द्व्यजेवावरं न्यूनं न तु ततो न्यूनमनेकाजिति यावत् । तादृशमर्धं यस्य तस्माड्डाच् स्यात् कृभ्वस्तिभिर्योगे । डाचि विवक्षिते द्वे बहुलम् (वार्त्तिकम्) इति डाचि विवक्षिते द्वित्वम् । नित्यमाम्रेडिते डाचीति वक्तव्यम् (वार्त्तिकम्)। डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररूपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । अव्यक्तानुकरणात्किम् ? ईषत्करोति । द्व्यजवरार्धात्किम् ? श्रत्करोति । अवरेति किम् ? खरटखरटाकरोति । अनितौ किम् ? पटिति करोति ॥ इति स्वार्थिकाः ॥ १६ ॥ ॥ इति तद्धिताः ॥

Balamanorama

अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् - अव्यक्तानुकरणात् । यत्र ध्वनौ अकारादयो वर्णविशेषा न व्यज्यन्ते सोऽव्यक्तो ध्वनिः । तस्यानुकरणम् — अव्यक्तानुकरणम् ।द्व्यजवरार्ध॑शब्दं व्याचष्टे — द्व्यजिति । द्वावचौ यस्येति विग्रहः । अवरशब्दं व्याचष्टे — न्यूनमिति । द्व्यजेव अवरं=न्यूनसंख्याकमिति सामानाधिकरण्येनान्वयः । न तु ततो न्यूनमिति । एकाच्कमित्यर्थः । फलितमाह — अनेकाजिति यावदिति । तादृशमर्थमिति । अनेकाच्कमर्धं=भागो यस्य तत् — द्व्यजवरार्धम् । तस्मादित्यर्थः । कृभ्वस्तिभिर्योगे इति । मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । तथा च अनेकाच्कभागयुक्तादव्यक्तानुकरणाच्छब्दात्कृभ्वस्तियोगे डाच् स्यादिति फलितम् । अथ पटच्छब्दादव्यक्तानुकरणाड्डाटमुदाहरिष्यन्पटच्छब्दस्य द्विर्वचनमाह — डाचि विवक्षिते द्वे बहुलमिति । यद्यपि ‘सर्वस्य द्वे’ इति प्रकरणेडाचि द्वे भवत इति वक्तव्य॑मित्येव भाष्ये वार्तिकं पठितम् । तत्र डाचि परत इति नाऽर्थः, तथा सति डाचि सतु पटच्छब्दस्य द्विर्वचनं, सति च द्विर्वचने अद्र्धस्याऽनेकाच्त्वाड्डाजित्यन्योन्याश्रयापत्तेः । अतो डाचि विवक्षिते इत्याश्रितम् । एवंच डाचि विवक्षिते पटच्छब्दस्य द्विर्वचने सति पटत् पटत् इत्यस्यानेकाच्कार्धभागयुक्तत्वाड्डाच् सूपपादः । पटत्, पटत् आ करोतीति स्थिते प्रक्रियां दर्शयति — नित्यमाम्रेडिते डाचीति ।एकः पूर्वपरयो॑रित्यधिकारे पररूपप्रकरणेनाम्रेडितस्यान्त्यस्य तु वे॑ति सूत्रभाष्ये इदं वार्तिकं पठितम् । डाच्परमिति । डाच् परं यस्मादिति विग्रहः । पकार इति । तथा च पटपठत् आ करोतीति स्थिते डित्त्वाट्टिलोपे पटपटाकरोतीति रूपमित्यर्थः । अवरेति किमिति । द्व्यजर्दादित्येवास्त्वित्यर्थः । घरटघरटाकरोतीति । घरटत् इत्यव्यक्तानुकरणाड्डाचि द्विर्वचने पररूपे टिलोपे रूपम् ।द्व्यजर्धा॑दित्युक्ते तु अर्धभागस्य घरटदित्यस्य बह्वच्कत्वाड्डाच् न स्यादित्यर्थः । अनेकाच इत्येवेति ।द्व्यजवरार्धा॑दित्यपनीयअव्यक्तानुकरणादनेकाचोऽनितौ डाजि॑त्येव सूत्रयितुमुचितमित्यर्थः । एवं हीति । ‘अनेकाचोऽनितौ’ इति पाठे सति पटच्छब्दस्य द्वित्वात्प्रागेव अनेकाच्कत्वाड्डाच् संभवतीतिडाचि परतो द्वित्व॑मिति वक्तुं शक्यमिति भावः । पटितीति ।अव्यक्तानुकरणस्ये॑ति पररूपम् ।

Padamanjari

यत्र ध्वनावित्यादि। यद्यप्यनुकार्यमेव रूपमनुकरणे वर्णविशेषरूपेण प्रकाशते, तथापि ठव्यक्तानुकरणस्यात इतौऽ इत्यनुकरणस्थस्याच्छब्दस्य पररूपं विधते। ध्वनिमात्रसाम्येन तु तस्यानुकरण मुच्यते। अवरशब्दोऽपकर्षे इति। अपकर्षःउन्यूनता, प्रवृत्तिनिमितकथनं चैतत्, अपकृष्ट्ंअ त्ववरशब्दस्यार्थः। यस्यापकर्षे क्रियमाणे इत्यादि। अत्रापकर्षःउविभागः, समप्रविभागेऽर्द्वशब्दः, अवरत्वं चाच्कृतमेव, द्व्यच्सन्निधानात्। यस्मिन्विभज्य निरूप्यमाणे सुष्ठुअ न्यूनमपि अल्पमपि अर्ध द्व्यच्छब्दवत्सम्पद्यते न ततो न्यूनम्, अधिकं तु सम्भवतु मा वा भूत्, तद् द्व्यजवरार्द्धमित्यर्थः। यस्येत्यादि। यदि त्वकृते द्विर्वचने यस्य द्व्यजवरार्द्धता ततो डाज् भवतीति विज्ञायते, तदा पटच्छब्दार्दर्न स्यादिति भावः। नन्वेधं सति डाचि परभूते तदाश्रये द्विर्वचने द्व्यजवरार्द्धता भवति, तस्यां च सत्यं कडाचा भवितव्यमितीतरेतराश्रयत्वं प्राप्नोति ? तत्राह - डाचि बहुलमितीत्यादि। सत्यं परसप्तम्यां स्यादेष दोषः; विषयसप्तमी त्वेषा, ततो न दोष इत्यर्थः। उदाहरणे परभागस्य टचिलोपः,’नित्यमाम्रेडिते डाचि’ इति पूर्वतकारस्य परदेश्च पकारस्य पररूपम् - एकं पकारः, द्वितीय उदाहरणे दकारः। दृषत्करोतीति। व्यक्तानुकरणमेतत्, प्रकरणादिना चानुकरणत्वानुगतिः। खरटखरटाकरोतीति। खरटदित्यस्य द्विर्वचनादि पूरववत्।’द्व्यजर्द्धात्’ इत्युच्यमानेऽत्र न स्यात्, न ह्यत्रार्द्धं द्व्यच्कम्, किं तर्हि? त्र्यच्कम्। अवरग्रहणे तु सति भवति; न्यूननिवृत्यर्थत्वादवरशब्दस्य। पटिति करोतीति। ठव्यक्तानुकरणस्यात इतौऽ इति अच्छब्दस्य पररूपत्वम्। तद्यत्र स्याद्, डाजन्तस्य सतित्वं स्यादिति शब्दमनुच्चार्य करोतिरन्तरः स्यात्, इतिश्च, ततः परः एकाच्त्वादस्य प्रत्ययस्वेरेणैव सिद्धमुदातत्वम्,’लोहितादिडाज्भ्यः’ इत्यत्रापि’डाभ्यः’ इत्युच्यमानेऽपि न कश्चिहोषः। इडायां डाशब्दोऽनर्थकः,’नाभा पृथिव्याः’ इत्यादौ सुवादेशस्यापि डाशब्दस्याग्रहणम्; च्छन्दसि ततः क्यपोऽदर्शनात्, तस्मान्नार्थश्चकारेण ? तत्राह - चकार इत्यादि। पटपटा असीति स्थिते’तिङ्ङतिङः’ इति निघातः, एकादेशः। अत्रासति चकारे’स्वरितो वानुदाते’ पदादौऽ इति पक्षे स्वरितः स्यात्। चित्करणसामर्थ्यातु चिदचितोरेकादेशस्य पूर्व प्रत्यन्तवद्भावाच्चित्स्वरेणान्तोदात एव भवति। स स्वार्थिको विज्ञेय इति। अर्थान्तरस्याभावात्। स्वार्थे तु यकारोऽस्मादेव निपातनाद्विज्ञेयः ॥

Nyaas

अव्यकतस्यानुकरणमव्यक्तानुकरणम् इति। यद्यप्यनुकरणे वर्णविशेषो रूपेण न प्रकाशते, तथापि ध्वनेः समानतया तन्मात्रसादृश्येन स तवनुक्रियत इति तस्याप्यनुकरणमित्युच्यते। द्व्यजर्द्धं भवति तस्मात्? प्रत्ययो भवति, यस्य न ततोऽपि न्यूनतरमेकाज्भवति। यद्यकृते द्विवचने यस्य द्व्यजवराद्र्धता ततो डाज्भवतीति ज्ञायते, ततः पटदित्यादेर्न स्यात्; न ह्यत्र द्व्यजवरमर्द्धं भवतीत्येतच्छेतसि कृत्वाऽऽह - यस्य च इत्यादि। नन्वेवं सति डाचि परभूते तदाश्रये द्विर्वचने कृते द्व्यजवराद्र्धता भवति, तस्याञ्च सत्यां डाजितीतरेतराश्रयः प्रसजति। इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्पन्ते? इत्याह - डाचि बहुलम् इत्यादि। यद्येषा परसप्तमी स्यात्, स्यादेष दोषः; न चैषा परसप्तमी, किं तर्हि? विषयसप्तमी। पटपटाकरोति इति। पटच्छब्दाड्डाचि विवक्षिते विषयभूते बुद्धिस्थेऽनुत्पन्न एव पूर्वं तावद्द्विवैचनं पटच्छब्दस्य क्रियते, तस्मिन्? कृते द्व्यजवराद्र्धतायामुपजातायां डाचि टिलोपः, नित्यमाम्रेडिते डाचि (6.1.100) इति पूर्वस्य तकारस्य पररपत्वलम्, दमदमाकरोति इति। वमच्छब्दस्य पूर्ववद्द्धिर्वचनम्, ततो डाच्। दृषत्करोति इति। अत्रापि द्विर्वचने कृते द्व्यजवराद्र्धत भवतीति। नाव्यक्तस्येदमनुकरणम्। श्रत्करोति इति। भवत्येतदव्यक्तानुकरणम्, न द्व्यजवराद्र्धम्। कृतेऽपि ह्यत्र द्विर्वचने एकाजवरमर्द्धं सम्पद्यते। खरटखरटाकरोति इति। खरटवित्येतस्यानुकरणस्यात्र पटदित्येतस्यानुकरणस्येव पूर्ववद्द्धिर्वचनम्, ततो डाच्। यदि द्व्यजद्र्धम् एतावदुच्येत, इह प्रत्ययो न स्यात्, न ह्यत्र द्व्यजद्र्धतास्ति। अवरग्रहणे तु सतीहापि भवति। तत्र हि द्व्यचोऽद्र्धाद्यस्य न्यूनतरमद्र्ध तत एव प्रत्ययेन भवितव्यम्, अन्यतस्तु सर्वतो भवितव्यमेव; अन्यथाऽवरग्रहणमनर्थकमेवेति द्व्यजद्र्धादित्येवं ब्रायात्। पटिति करोति इति। अव्यक्तानुकरणस्यात इतौ (6.1.98) इत्यच्छब्दस्य पररूपत्वम्। यद्यत्र डाच्? स्यात्, तस्य डाजन्तस्य परमिति शब्दमुच्चार्य करोतिरनन्तरः स्यादिति, न च तत्परम्; तच्चानिष्टम्। अथ चकारः किमर्थः, यावलतान्तोदात्तत्वं कृत्वादस्य प्रत्ययस्वरेणैव सिद्धम्? इत्यत आह - चकारः इत्यादि। पटपटा असि इति स्थिते तिङ्ङतिङः (8.1.28) इत्यसिशब्दस्य निघाते कृते स्वरितो वानुदात्तेऽपदादौ (8.2.6) इति स्वरित एकादेशः प्राप्नेति, न च स्वरित इष्यते, तदर्थ चकारः। स्वार्थिको विज्ञेयः इति। व्यतिरिक्तस्यार्थस्याभावात्। केन पुनः स्वार्थिको यकारः? अनेनैव निपातनेन॥

Prakriyasarvasvam

यस्य शब्दस्य द्विवंचने कृतेऽर्धम् अवरतो द्व्यच् स्यात् न ततो न्यूनं तस्मादव्यक्तशब्दानुकरणरूपाच्छब्दादितिपरत्वाभावे कृभ्वस्तियोगे डाच् स्यात् ।<!डाचि बहुलं द्वे स्तः!> (वा०) इति डाचि विवक्षिते द्वित्वम् । ततो डाच् । पटत् पटत् आ करोति । डित्वात् टिलोपः । पटत्पटाकरोति ।<!नित्यमाम्रेडिते डाचि!> (वा०) डाजन्ताम्रेडिते परे पूर्वान्त्यस्य नित्यं पररूपं स्याद्, इति पूर्वतकारक्षयः । पटपटाकरोति । खरटखरटाभवति । द्व्यचो न्यूनत्वे डान्न । श्रत्करोति । इतौ परेऽपि न । पटिति करोति ॥