54060: समयाच्च यापनायाम्¶
Padacheda: समयात् | S | 5 | 1 |
च | S | 0 | 0 |
यापनायाम् | S | 7 | 1 |
Sutrartha¶
‘समय’ शब्दात् कृ-धातोः योगे यापनायाम् गम्यमानायाम् स्वार्थे डाच्-प्रत्ययः भवति ।
‘यापना’ (= विलम्बनम्, कालक्षेप, delay) अस्मिन् सन्दर्भे ‘कृ’ धातोः योगे ‘समय’ शब्दात् स्वार्थे डाच्-प्रत्ययः भवति । यथा - समयम् यापयति इत्येव = समय + डाच् + कृ → समया करोति । प्रक्रिया इयम् - समय + डाच् → समय + आ [इत्संज्ञालोपः] → समय् + आ [टेः (6.4.143) इति टिलोपः] → समया स्मर्तव्यम् - 1. ‘यापनायाम्’ इति निर्देशात् अत्र विग्रहवाक्ये ‘यापयति’ इति शब्दः प्रयुज्यते । 2. डाच्-प्रत्ययान्तशब्दानाम् ऊर्यादिच्विडाचश्च (1.4.61) इत्यनेन ‘निपात’ तथा ‘गति’द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् (1.1.37) इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः ‘अव्यय’संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा ‘गतिसंज्ञा’कारणात् कुगतिप्रादयः (2.2.18) इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - समयाकृत्य / समयाकृतः - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र ‘समया करोति’ एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः (1.4.80) इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः ‘समया करोति’ इत्येव वक्तव्यम्, न हि ‘करोति समया’ इति । 3. इदम् सूत्रम् समर्थानाम् प्रथमात् वा (4.1.82) अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः ‘डाच्’ प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - ‘समयम् यापयति’ इति ।
Vasu English Summary¶
The affix डाच् comes after the word समय when कृ ‘to make’ follows, when the sense is that of ‘neglecting’.
Vasu English Translation¶
The affix डाच् comes after the word समय when कृ ‘to make’ follows, when the sense is that of ‘neglecting’. The word कृ is understood here also. The anuvritti of कृष ceases. The getting of leisure from the duties is called समय or ‘time; the neglect or loss of such time is meant by the word यापना ॥ Thus समया करोति = कालक्षेपं करोति (अद्य मे पारवश्यं, श्वः परश्वो वास्य समय इत्येवं यो बहुषु दिवसेषु अतिवर्त्तते, स एवमुच्यते) ‘who procrastinates’. Why do we say when the sense is that “neglecting”? Observe समयं करोति “he makes time”.
Kashika¶
कृञ इत्येव। कृषाविति निवृत्तम्। कर्तव्यस्यावसरप्राप्तिः समयः, तस्यातिक्रमणं यापना। समयशब्दाद् यापनायां गम्यमानायां डाच् प्रत्ययो भवति कृञो योगे। समयाकरोति। समयं यापयति, कालक्षेपं करोतीत्यर्थः। यापनायामिति किम् ? समयं करोति॥
Siddhanta Kaumudi¶
कृषाविति निवृत्तम् । कृञो योगे डाच् स्यात् । समयाकरोति । कालं यापयतीत्यर्थः ॥
Balamanorama¶
समयाच्च यापनायाम् - समयाच्च । कृषाविति निवृत्तम् । समयशब्दाद्यापनायां गम्यमानायां डाजित्यर्थः । समयाकरोतीति । करोतिरिह यापनायामित्याह — यापयतीति.अतिक्रान्तं करोतीत्यर्थः ।अद्येदं कर्तव्य॑मित्युक्ते विघ्नं कञ्चिदापाद्य कालक्षेपं करोतीति यावत् ।
Tattvabodhini¶
समयाच्च यापनायाम् - समाच्च । कालं यापयतीत्यर्थ इति ।कर्तव्यस्याऽवसरप्राप्तिः समयस्तस्यातिक्रमणं यापना॑इति वृत्तिग्रन्थमुपादाय हरदत्तत आह — — ॒अद्य मे पारवस्यं, आः परआओ वा अस्य समय इत्येव बहुषु दिवसेषु य आह स एवमुच्यते॑इति ।
Padamanjari¶
समयाकरोतीति। ठद्य मे पारवाश्यं श्वः परश्वो वास्य समयःऽ इत्येवं यो बहुषु दिवसेषु अतिवर्तते स एवमुत्यते। समयं करोतीति। समयःउनियमः, सङ्गमो वा - समयनं समय इति ॥
Prakriyasarvasvam¶
अद्यानवसर इत्युक्त्वा समयं गमयति समयाकरोति ॥