54045: अपादाने चाहीयरुहोः

Padacheda: अपादाने | S | 7 | 1 |

च | S | 0 | 0 |

अ-हीय-रुहोः | S | 6 | 2 |

Sutrartha

अपादानकारकस्य निर्देशार्थम् प्रातिपदिकात् ‘तसि’ प्रत्ययः भवति । परन्तु ‘हा (त्यागे)’, तथा ‘रुह् (बीजजन्मनि प्रादुर्भावे च)’ एतयोः विषये अयम् प्रत्ययः न विधीयते ।

अपादानकारकस्य विषये सर्वेभ्यः प्रातिपदिकेभ्यः ‘तसि’ प्रत्ययः अनेन सूत्रेण विधीयते । ‘तसि’ इत्यत्र इकारः उच्चारणार्थः अस्ति, सकारस्य इत्संज्ञाबाधनार्थं च स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव अस्य लोपं कृत्वा ‘तस्’ इति प्रयुज्यते । यथा - 1. ग्रामात् आगच्छति इत्येव = ग्राम + तस् → ग्रामतः आगच्छति । अत्र ध्रुवमपायेऽपादानम् (1.4.24) इत्यनेन अपादानकारकम् विधीयते । प्रक्रिया इयम् -

प्रक्रिया इयम् -

ग्रामात् + तसि → ग्रामात् + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः] → ग्राम + ङसिँ + तस् [अलौकिकविग्रहः] → ग्राम + तस् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः (2.4.71) इति ङसिँ-प्रत्ययस्य लोपः] → ग्रामतः [सकारस्य ससजुषो रुँः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] 2. चोरात् बिभेति इत्येव = चोरतः बिभेति । अत्र भीत्रार्थानां भयहेतुः (1.4.25) इत्यनेन अपादानकारकम् भवति । 3. अध्ययनात् पराजयते इत्येव = अध्ययनतः पराजयते । अत्र पराजेरसोढः (1.4.26) इत्यनेन अपादानकारकम् प्रयुज्यते । 4. यवेभ्यो वारयति इत्येव = यवतः वारयति । अत्र वारणार्थानां ईप्सितः (1.4.27) इत्यनेन अपादानम् क्रियते । 5. उपाध्यायात् निलीयते इत्येव = उपाध्यायतः निलीयते । अत्र अन्तर्द्धौ येनादर्शनमिच्छति (1.4.28) इत्यनेन अपादानकारकमनुमन्यते । 6. उपाध्यायात् अधीते इत्येव = उपाध्यायतः अधीते । अत्र अपादानार्थम् आख्यातोपयोगे (1.4.29) इति सूत्रम् प्रयुक्तमस्ति । 7. गोमयात् जायते इत्येव = गोमयतः जायते । अत्र जनिकर्तुः प्रकृतिः (1.4.30) इत्यनेन अपादानस्य निर्देशः कृतः अस्ति । 8. हिमवतः प्रभवति इत्येव = हिमवत्तः प्रभवति । ‘हिमवत्’ इति प्रातिपदिकम् । अत्र भुवः प्रभवः (1.4.31) इति अपादानम् । आदयः । परन्तु यत्र ‘हा’ (त्यागे), उत ‘रुह्’ (बीजजन्मनि प्रादुर्भावे च) एतयोः धात्वोः कारकरूपेण अपादानकारकस्य प्रयोगः भवति, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - 1. स्वर्गात् जहाति (throws away out of heaven) - इत्यत्र तसि-प्रत्ययः न विधीयते । 2. पर्वतात् अवरोहति (climbs down a mountain) - इत्यत्रापि तसि-प्रत्ययः न विधीयते । विशेषः - 1. धातुपाठे ‘हा गतौ’ इति अपि कश्चन धातुः पाठ्यते । परन्तु तस्य विषये अयमपवादः न विधीयते । यथा - ‘भूम्याः उज्जिहीते इत्येव = भूमितः उज्जिहीते’ । अस्य ज्ञापनार्थम् एव सूत्रे ‘हीयते’ इति कर्मणिप्रयोगे निर्देशः कृतः अस्ति । ‘हा गतौ’ इत्यस्य कर्मणिप्रयोगे रूपम् ‘हायते’ इति भवति, न हि ‘हीयते’ इति । तस्य ग्रहणम् मा भूत् इति ज्ञापयितुमत्र ‘हीयते’ इति प्रयोगः कृतः अस्ति । 2. यद्यपि सूत्रे ‘रुह्’ इति धातुः गृह्यते, तथापि अस्मात् धातोः अपादानकारकस्य प्रसङ्गः तदा एव भवति यदा ‘अव’ उपसर्गेण सह अस्य प्रयोगः भवति । यथा - पर्वतात् अवरोहति । अतः उदाहरणे अपि ‘अव + रुह्’ इत्यस्यैव निर्देशः कृतः अस्ति । स्मर्तव्यम् - 1. एतत् सूत्रम् समर्थानां प्रथमात् वा (4.1.82) अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः ‘तसि’ प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे ‘वृक्षात् पतति’ एतादृशाः प्रयोगाः अपि विधीयन्ते । 2. ‘तसि’ प्रत्ययान्तशब्दाः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति ।

Vasu English Summary

The affix तसि comes after that Ablative -5th case which has the force of an अपादान कारक when this अपादान relation arises owing to the union with the verbs हीय (passive of हा) and रुह।

Vasu English Translation

The affix तसि comes after that Ablative -5th case which has the force of an अपादान कारक when this अपादान relation arises owing to the union with the verbs हीय (passive of हा) and रुह। Thus ग्रामतः आगच्छति or ग्रामात्, so also चोरतः or चोरतो बिभेति, अध्ययनतः or अध्ययनात् पराजयते ॥ See Sutras (l. 4.24), (1.4.25), and (1.4.26) &c. Not so when the verbs हीय and रुह govern the ablative : as, सार्थात् हीयते, पर्वताद् अवरोहति ॥ The form हीय is given in the sutra to indicate that the verb हा whose present tense is जहाति is to be taken, and not जिहीति ॥ Thus we have भूमितः उज्जिहीते or भूमेरुज्जिहीते ॥ How do you explain the use of “tasi” in the following well-known verse: “मन्त्रो हीनः स्वरतो वर्णतो वा”? The words here are not in the ablative, but in the Instrumental case i. e. स्वरेण वर्णेन वा हीनः ॥

Kashika

अपादाने या पञ्चमी तस्याः पञ्चम्या वा तसिः प्रत्ययो भवति, तच्चेदपादानं हीयरुहोः संबन्धि न भवति। ग्रामत आगच्छति, ग्रामात्। चोरतो बिभेति, चोरात्। अध्ययनतः पराजयते, अध्ययनात्। अहीयरुहोरिति किम् ? सार्थाद् हीयते। पर्वतादवरोहति। हीयत इति विकारनिर्देशो जहातेः प्रतिपत्त्यर्थः जिहीतेर्मा भूत्। भूमित उज्जिहीते। भूमेरुज्जिहीते। कथं मन्त्रो हीनः स्वरतो वर्णतो वा (पा०श्लो०शि० ५२) इति। नैषा पञ्चमी। किं तर्हि? तृतीया। स्वरेण वर्णेन वा हीन इत्यर्थः॥

Siddhanta Kaumudi

अपादाने या पञ्चमी तदन्तात्तसिः स्यात् । ग्रामादागच्छति । ग्रामतः । अहीयरुहोः किम् । स्वर्गाद्धीयते । पर्वतादवरोहति ॥

Tattvabodhini

अपादाने चाहीयरुहोः - ग्रामत इथि । एवमध्ययनात्पराजयते, अध्ययनत इत्याद्यपि बोध्यम् ।

Padamanjari

सार्थाद्धीयत इति। ठोहाक्त्यागेऽ, कर्मण्यात्मनेदम्, यक्, घुमास्थादिसूत्रेणेत्वम्। कथं पुनः कर्मसंज्ञा, यावता’कर्तुरीप्सिततमं कर्म’ ? न चात्र सार्थः कर्तृसंज्ञकः, किन्तु ध्रुवत्वेन विवक्षित्वादपादानसंज्ञकः। मा भूत्कर्तृसंज्ञा, जहाति तावत्सार्थो देवदतं यदि न जह्यादपाय एव न संवर्तेत। स्वातन्त्र्योपलक्षणं च कर्मसंज्ञायां कर्तृग्रहणम्, कर्तृसंज्ञा भवतु मा वा भूत्। एवं चापादनस्यापि सतः सार्थस्य हाने यत्स्वातन्त्र्यं वास्तवम्, तदाश्रया कर्मसंज्ञा भवति। यद्येवम्, माषेप्वश्वं बध्नातीत्यत्र कर्मणोऽप्यश्वस्य वस्तुतो यद्भक्षणे स्वातन्त्र्यं तदाश्रया माषाणं कर्मसंज्ञा प्राप्नोति, तस्मात्कर्मकर्तर्यत्र लकारः। कथमिह डजहातिरपगमनायां वर्तते? देवदतं सार्थो जहाति, अपगमयतीत्यर्थः। एषैव च सार्थस्यापगमना यत् क्षुदुपघातादिना देवदतस्यापगमने तत्समर्थाचरणम्, यदा तु क्षुधादिना स्वयमेवापगच्छति तदा कर्मकर्तृत्वम्, ततश्च हीयत इति। कोऽर्थ ? स्वयमेवापगच्छतीत्यर्थः। पुनः’कुतोहीयते’ - इत्यपेक्षायां सार्थेन सम्बन्धः। विकारनिर्देश इति। विकृतिर्विकारः, इह तु तद्वेतुत्वाद्यगभिप्रेतः। तत्र हि घूमास्थादिसूत्रेणेत्वविधानाद्धातुरूपं विक्रियते। यका निर्द्देशः-यस्य यकीत्वमस्ति, तस्य ग्रहणार्थमित्यर्थः। जिहीतेरिति। श्तिपो ङ्त्वाबावादीत्वानुपिपतेर्जिहातेरिति पठीतव्यम्। तिडन्तानुकरणं वा जिहीतेरिति द्रष्टव्यम्। नैषा पञ्चमीति। यदन्तातसिः, नैषा पञ्चमीत्यर्थः। किं तर्हि तृतीयेति। हेतौ, करणे वा तृतीया, तदन्ताद्’हीयमानपापयोगाच्च’ इति तसिरित्यर्थः। स्वरेण, वर्णेन वा विवक्षितादर्थाद्धीन इत्यर्थः सम्पद्यते ॥

Nyaas

ग्रामादागच्छति इति। घ्रुवमपायेऽपादानम् (1.4.24) इत्यपादानसंज्ञा। चौरेभ्यो बिभेति इति। भित्रार्थानां भयहेतुः (1.4.25) इति। अध्ययनात्? पराजयते इति। पराजेरसोढः (1.4.26) इति। सार्थाद्धीयते इति। ओहाक्? त्यागे (धा। पा। 1090), लः कर्मण्यात्मनपदम्, यक्, घुमास्था (6.4.66) इत्यादिसूत्रेणेत्त्वम्। ननु चाकर्त्तृकं कर्म नास्ति, कर्त्तुरीप्सिततमं कर्म (1.4.49) इति वचनात्; सार्थश्चात्र न कर्म, किं तर्हि? अपादानम्? नैष दोषः; कर्मसंज्ञायां हि कर्त्तृग्रहणं स्वातन्त्र्योपलक्षणार्थम्। कृत एतत्? क्रियाविशेषणत्वात्। कर्तरि च द्वयमस्ति - स्वातन्त्रयम्, कर्तृसंज्ञा च। तत्र संज्ञायाः क्रियाविशेषणत्वं नोपपद्यते। यद्धि तस्याः कारणं तेनैव सा युक्ता विशेषयितुम्। न च तस्याः कर्त्तृसंज्ञा कारणम्, किं तर्हि? स्वातन्त्र्यम्;तस्य कर्त्तृस्वरूपत्वात्। भवति क्रियां प्रति यदा कारणभावः; कर्मणा च नैव क्रिया विशेष्यते, तदायमर्थो भवति - स्वातन्त्र्यस्य क्रियाया यदीप्सिततमं तत्कर्मसंज्ञं भवतीति। सार्थस्यापि देवदत्तेन तस्याभिधानम्। तस्य तस्मस्त्वसत्यपादानमपि न स्यादेव। तस्माद्देवदत्तः कर्म। जहातेरेव सार्थस्यापादानेन भवितव्यम्। तत्रापादानस्यापि सतः सार्थस्य हानक्रियायां यत्? स्वातन्त्र्यं तत्क्रियाविवक्षयैव देवदत्तस्य कर्मसंज्ञा भवति। अथ किमर्थं यका निर्देशः क्रियते, न हारुहोः इत्येवोच्येत? इत्यत आह - विकारनिर्देशः इत्यादि। विक्रियते तस्मिन्? रूपमिति विकारः, स पुनरिह यगेव - हीयेति। तत्र हि धुमास्तादिसूत्रेमेकारस्य (6.4.66) विधानात्? विक्रियते जहाते रूपम्। अथ वा - विकृतिः=विकारः, तेन विकारेण निर्देशः। कथं नाम? जहातेः प्रतिपत्तिर्यथा स्यात्, जिहीतेर्मा भूदित्येवमर्थम्; अन्यथा हि जीहीतेरपि ग्रहणं स्यात्। विकारनिर्देशे तु यस्येदृशं रूपं तस्यैव ग्रहणं भवतीति न भवत्येष प्रसङ्गः। भूमित उज्जिहोते इति। जिहीतेरिहाग्रहणात्? तत्सम्बन्धिनोऽपादानाद्भवत्येव। हाङो ङित्वादात्मनेपदम्, भृजामित् (7.4.76) इत्यभ्यासस्येत्त्वम्, ई हल्यघोः (6.4.113) इति धातोरीत्त्वम्। कथं मन्त्रो हीनः स्वरतो वर्णतो वा इति? यदाह - जहातेः प्रतिषेधः क्रियते ततस्तस्मिन्न प्राप्नेती त्यभिप्रायः। नैषा पञ्चमी इति। पञ्चम्या अविहितत्वा।, उपचारेण तसिः, नैषा पञ्चमीत्युक्तम्। किं तर्हि? तृतीयेति। अत्रापि तृतीयाया विहितत्वात्। तृतीयेत्युक्तस्तसिः। तेनैतत्? सूचयति - नायमिह तसिरनेन सूत्रेण पञ्चम्या विहितः, किं तर्हि? अतिग्रहाव्यथनक्षे पेष्वकर्तरि तृतीयायाः (5.4.46) इत्यनुवर्तमानं हीयमानपापयोगच्च (5.4.47) इति तृतीयाया इति। सा च तृतीया हेतौ करणे वा द्रष्टव्या॥

Prakriyasarvasvam

अनयोर्योगदप्यत्रापादानपञ्चम्या वा तसिः । ग्रामतो ग्रामाद्वा गतः । ‘नन्नासिकाया यत्तक्षुद्रेषु (वा०) इति नस् । नस्तः । किन्तदादेरनेन तसौ कृते,

Sutra Prayogas

  • प्राक्केकयी-तो (भट्टिकाव्यम्): अपादाने चाहीयरुहोः इति तसिः।