54044: प्रतियोगे पञ्चम्यास्तसिः¶
Padacheda: प्रतियोगे | S | 7 | 1 |
पञ्चम्याः | S | 5 | 1 |
तसिः | S | 1 | 1 |
Sutrartha¶
‘प्रति’ इत्यस्य योगे प्रयुक्तात् पञ्चम्यन्तशब्दात् स्वार्थे ‘तसि’ प्रत्ययः भवति ।
‘प्रति’ इत्यस्य योगे प्रयुक्तः यः पञ्चम्यन्तशब्दः, तस्मात् स्वार्थे ‘तसि’ प्रत्ययः भवति । ‘तसि’ प्रत्यये इकारः उच्चारणार्थः अस्ति । सकारस्य हलन्त्यम् (1.3.3) इत्यनेन इत्संजा मा भूत्, इति ज्ञापयितुम् स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे अस्य लोपं कृत्वा ‘तस्’ इति प्रयोगे विधीयते । किम् नाम ‘प्रति’ ? वस्तुतः तु अस्य शब्दस्य अनेके अर्थाः सन्ति । परन्तु प्रतिः प्रतिनिधिप्रतिदानयोः (1.4.92) इत्यनेन सूत्रेण ‘कर्मप्रवचनीय’संज्ञकः यः ‘प्रति’शब्दः दीयते, तस्य ग्रहणमत्र कृतमस्ति । इत्युक्ते, ‘मुख्यसदृशः’ / ‘प्रतिनिधिः’ अस्मिन् अर्थे अत्र अस्य शब्दस्य ग्रहणम् भवति । कानिचन उदाहरणानि पश्यामः - 1. ‘अर्जुनः मुख्यः, तत्सदृशः एव अभिमन्युः’ (Abhimanyu is just like his father Arjuna in every aspect - इति आशयः) । अस्मिन् सन्दर्भे ‘अभिमन्युः अर्जुनात् प्रति’ इति प्रयोगः भवति । अत्र ‘अर्जुन’ इति शब्दः ‘प्रति’ इत्यस्य योगे प्रयुक्तः अस्ति, तस्य च पञ्चमी विभक्तिः प्रयुज्यते । अस्यां स्थितौ ‘अर्जुन’ शब्दात् ‘तसि’ प्रत्ययं कृत्वा ‘अभिमन्युः अर्जुनतः प्रति’ इति वाक्यम् सिद्ध्यति । अभिमन्युः अर्जुनस्य प्रतिनिधिः इत्यर्थः । प्रक्रिया इयम् - अर्जुनात् + तसि → अर्जुनात् + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः] → अर्जुन + ङसिँ + तस् [अलौकिकविग्रहः] → अर्जुन + तस् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः (2.4.71) इति ङसिँ-प्रत्ययस्य लोपः] → अर्जुनतः [सकारस्य ससजुषो रुँः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] एवमेव अन्ये प्रयोगाः अपि ज्ञेयाः - 2. प्रद्युम्नः वासुदेवतः प्रति । 3. भोजः कर्णतः प्रति । 4. लवः रामतः प्रति । आदयः अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!तसिप्रकरण आद्यादिभ्य उपसङ्ख्यानम्!> । इत्युक्ते आद्यादिगणे विद्यमानेभ्यः शब्देभ्यः अपि ‘तसि’ इति प्रत्ययः विधीयते । यथा - आदौ इत्येव = आदितः । मध्ये इत्येव = मध्यतः । अन्ते इत्येव = अन्ततः । पृष्ठे इत्येव = पृष्ठतः । अग्रे इत्येव = अग्रतः । (सर्वत्र सप्तम्याः अर्थे प्रत्ययः विधीयते) । एवमेव - अर्थेन इत्येव = अर्थतः । स्वरेण इत्येव = स्वरतः । वर्णेन इत्येव = वर्णतः (सर्वत्र तृतीयायाः अर्थे प्रत्ययः विधीयते) । अयम् आद्यादिगणः आकृतिगणः अस्ति, अतः शिष्टप्रयोगमनुसृत्य अन्ये शब्दाः अप्यत्र भवितुमर्हन्ति । विशेषः - 1. प्रतिः प्रतिनिधिप्रतिदानयोः (1.4.92) इत्यनेन ‘प्रतिनिधि’ (A copy / representative) तथा ‘प्रतिदान’ (Giving something in return of taking something) एतयोः अर्थयोः ‘प्रति’ शब्दः पाठितः अस्ति । एताभ्याम् ‘प्रतिनिधि’ अस्मिन् अर्थे प्रयुक्तः यः ‘प्रति’शब्दः, तस्यैव अत्र ग्रहणं भवति । ‘प्रतिदान’ इत्यस्मिन् अर्थे प्रयुक्तः यः ‘प्रति’ शब्दः, तस्य ग्रहणमत्र न भवति । 2. ‘तसि’ प्रत्ययान्तशब्दाः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति । 3. तसेश्च (5.3.8) इत्यनेन सर्वादिगणे विद्यमानेभ्यः ‘सर्व’ इत्यस्मात् आरभ्य ‘एक’ इति यावत् शब्देभ्यः, ‘बहु’ शब्दात् तथा च ‘किम्’ शब्दात् विहितस्य ‘तसि’ प्रत्ययस्य ‘तसिल्’ आदेशः भवति । 4. एतत् सूत्रम् समर्थानां प्रथमात् वा (4.1.82) अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः ‘तसि’ प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे ‘अभिमन्युः अर्जुनात् प्रति’ इत्यपि प्रयोगाः सिद्ध्यन्ति ।
Vasu English Summary¶
The affix तसि comes after that Ablative -5th case which is ordained owing to the union with the कर्मप्रवचनीय word प्रति।
Vasu English Translation¶
The affix तसि comes after that Ablative -5th case which is ordained owing to the union with the कर्मप्रवचनीय word प्रति। This Ablative case is ordained by Sutra (2.3.11). Thus प्रद्युम्नः वासुदेवतः प्रति, अभिमन्युरर्जुनतः प्रति ॥ The anuvritti of वा “optionally” runs here also: thus it is an optional rule; we have the regular forms वासुदेवात् &c, also.
Vart:- The affix तसि comes after the words आदि &c: as, आदितः, मध्यतः, पार्श्वतः, पृष्ठतः &c. This is an akritigana, no complete list being given.
Bhashya¶
प्रतियोगे पञ्ञ्चम्यास्तसिः (2321) (तसिप्रत्ययाधिकरणम्) (5924 उपसंख्यानवार्तिकम्॥1॥) तसिप्रकरण आद्यादिभ्य उपसंख्यानम्॥ तसिप्रकरण आद्यादिभ्य उपसंख्यानं कर्तव्यम्॥ आदितः । अध्यतः । अन्ततः।
Kashika¶
प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात् तसिः प्रत्ययो भवति। प्रद्युम्नो वासुदेवतः प्रति। अभिमन्युरर्जुनतः प्रति। वाग्रहणानुवृत्तेर्विकल्पेन भवति। वासुदेवादर्जुनादित्यपि भवति॥ तसिप्रकरण आद्यादिभ्य उपसंख्यानम्॥ आदौ आदितः। मध्यतः। पार्श्वतः। पृष्ठतः। आकृतिगणश्चायम्॥
Siddhanta Kaumudi¶
प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः स्यात् । प्रद्युम्नः कृष्णतः प्रति ।<!आद्यादिभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ आदौ आदितः । मध्यतः । पृष्ठतः । पार्श्वतः । आकृतिगणोऽयम् । स्वरेण स्वरतः । वर्णतः ॥
Nyaas¶
प्रद्युम्नो वासुदेवतः प्रति इति। प्रतिनिधिप्रतिदाने च यस्मात् (2.3.11) इति पञ्चमी, ततस्तसिः। तसेरिकारो मुखमुखार्थः। ननु च सकारस्येत्संज्ञा मा भूदित्येवमर्थः स्यात्? नैतदस्ति; प्रयोजनाभावादेव हि तस्येत्संज्ञा न भविष्यति। आद्यादिभ्य उपसंख्यनम् इति। आद्यादिभ्यसतसेरुपसंख्यानमिति प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन आद्यादिभास्तसिर्भविष्यतीति। अनुक्तसमुच्चयार्थत्वे चकारस्य तस्यादित उदात्तमर्धह्रस्वम् (1.2.32) इति निर्देशः॥
Prakriyasarvasvam¶
कर्मप्रवचनीयेन प्रतिना योगे पञ्चम्यन्ताद्वा तसिः स्यात् । प्रतिनिधौ— हरिर्मेघतः प्रति । मेघात् प्रति । तत्सदृश इत्यर्थः । प्रतिदाने—तिलतः प्रति माषान्ददाति, तिलेभ्य इति वा । तिलानां गृहीतानां माषान् प्रत्यर्पयतीत्यर्थः ।<!आद्यादिभ्योऽपञ्चम्यर्थेऽपि तसिर्वाच्यः!> (वा०) । आदौ आदितः । मध्यतः । अस्याकृतिगणत्वात् सर्वेभ्यः सर्वविभक्त्यर्थे तसिरित्याहुः ॥
Vartika¶
आद्यादिभ्य उपसंख्यानम् ।