54048: षष्ठ्या व्याश्रये¶
Padacheda: षष्ठ्याः | S | 5 | 1 |
व्याश्रये | S | 7 | 1 |
Sutrartha¶
व्याश्रये गम्यमाने षष्ठ्यन्तात् तसि-प्रत्ययः भवति ।
‘व्याश्रय’ इत्युक्ते ‘सङ्घे / पक्षे समावेशः’ (Take the side of / join the league of - इति) । व्याश्रये गम्यमाने षष्ठ्यन्तात् ‘तसि’ इति प्रत्ययः विधीयते । यथा - 1. ‘देवाः अर्जुस्य पक्षे अभवन् (= अर्जुनस्य साहाय्यमकुर्वन् इत्याशयः) इत्यत्र ‘अर्जुनस्य’ इत्यस्मात् तसि-प्रत्ययं योजयित्वा ‘अर्जुनतः’ इति शब्दः सिद्ध्यति । प्रक्रिया इयम् - अर्जुनस्य + तसि → अर्जुनस्य + तस् [इकारः उच्चारणार्थः, त्यस्य लोपः] → अर्जुन + ङस् + तस् [अलौकिकविग्रहः] → अर्जुन + तस् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः (2.4.71) इति ङस्-प्रत्ययस्य लोपः] → अर्जुनतः [सकारस्य ससजुषो रुँः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] यथा - देवाः अर्जुनतः अभवन् ।’देवाः अर्जुनस्य पक्षे समाविष्टाः अभवन्’ इत्येव अस्य अर्थः । एवमेव - 2. कर्णः दुर्योधनतः अभवन् । 3. कृष्णः पाण्डवतः अभवन् । तस्-प्रत्ययेन प्रयुक्तस्य शब्दस्य प्रयोगे ‘पक्ष’ इति नैव प्रयुज्यते - इति स्मर्तव्यम् । ज्ञेयाः - 1. ‘तसि’प्रत्ययान्तशब्दाः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति । 2. एतत् सूत्रम् समर्थानां प्रथमात् वा (4.1.82) अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः ‘तसि’ प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे ‘देवाः अर्जुनम् व्याश्रयन्’ एतादृशाः प्रयोगाः अपि विधीयन्ते । 3. अत्र सूत्रे ‘षष्ठ्या’ इति उच्यते, अतः विग्रहवाक्ये ‘अस्य पक्षे अभवन्’ इत्येव निर्देशः क्रियते । ‘व्याश्रय’ इति शब्दः विग्रहवाक्ये नैव प्रयुज्यते । 4. ‘तसि’-प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, सकारस्य इत्संज्ञानिषेधार्थम् च स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव तस्य लोपः भवति ।
Vasu English Summary¶
The affix तसि comes optionally after a word ending in the Genitive 6th-Case when the sense is that of a party-name or function.
Vasu English Translation¶
The affix तसि comes optionally after a word ending in the Genitive 6th-Case when the sense is that of a party-name or function. Taking sides with one faction or another is called व्याश्रयः ॥ Thus देवा अर्जुनस्य पक्षेऽभवन् = देवा अर्जुनतोऽभवन् ॥ ‘The Devas became Arjunites’. So also आदित्याः कर्णतोऽभवन्. “The Adityas became Karnaites”.
Why do we say “when it denotes a Party-name”? Observe, वृक्षस्य शाखा “the branch of the tree”.
Kashika¶
नानापक्षसमाश्रयो व्याश्रयः। व्याश्रये गम्यमाने षष्ठ्यन्ताद् वा तसिः प्रत्ययो भवति। देवा अर्जुनतोऽभवन्। आदित्याः कर्णतोऽभवन्। षष्ठी चात्र पक्षापेक्षैव। अर्जुनस्य पक्षे, कर्णस्य पक्ष इत्यर्थः। व्याश्रय इति किम् ? वृक्षस्य शाखा॥
Siddhanta Kaumudi¶
षष्ठ्यान्ताद्वा तसिः स्यान्नानापक्षसमाश्रये । देवा अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । अर्जुनस्य पक्षे इत्यर्थः । व्याश्रये किम् । वृक्षस्य शाखा ॥
Padamanjari¶
नानापक्षसमाश्रयो व्याश्रय इति। तथा च’हेतुमति च’ इत्यत्र भाष्ये प्रयोगः - व्याश्रिताश्च भवन्ति, केचित्कंसभक्ता, केचिद्वासुदेवभक्ता इति। देवा इत्यादि। अर्जुन इन्द्रपुत्रः, कर्णः सूर्यपुत्रः। षष्ठी चात्रेति । पक्षशब्दस्तु तसौ सति न प्रयुज्यतेः गतार्थत्वात्, नानापक्षसमाश्रयण एवास्य विधानात् ॥
Prakriyasarvasvam¶
भिन्नपक्षाश्रयणे द्योत्ये षष्ठयास्तसिः । कृष्णः पाण्डवतोऽभूत् । अन्ये कौरवतोऽभूवन् । तेषां पक्षेऽभूदित्यर्थः ॥