54051: अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च

Padacheda: अरुस्-मनस्-चक्षुस्-चेतस्-रहस्-रजसाम् | S | 6 | 3 |

लोपः | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

‘अरुस्’, ‘मनस्’, ‘चक्षुष्’, ‘चेतस्’, ‘रहस्’ तथा ‘रजस्’ एतेभ्यः शब्देभ्यः अभूतपूर्वस्य सम्पादने गम्यमाने ‘कृ’ ‘भू’ तथा ‘अस्’ एतेषाम् योगे स्वार्थे ‘च्वि’ इति प्रत्यये परे अन्तिमवर्णस्य लोपः भवति ।

अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः (5.4.50) इत्यनेन सूत्रेण ‘च्वि’ इति प्रत्ययः पाठ्यते । अभूतपूर्वस्य विकारस्य सम्पादने ‘कृ’ ‘भू’ तथा ‘अस्’ एतेषाम् योगे अयम् प्रत्ययः विकारवाचिशब्दात् विधीयते । (अस्य विषयस्य विस्तारः अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः (5.4.50) इत्यत्रैव द्रष्टव्यः) । अस्मिन्नेव च्वि-प्रत्यये परे ‘अरुस्’, ‘मनस्’, ‘चक्षुष्’, ‘चेतस्’, ‘रहस्’ तथा ‘रजस्’ एतेषां शब्दानामन्तिमवर्णस्य लोपम् कारयितुम् वर्तमानसूत्रम् रचितमस्ति । उदाहरणानि एतानि - 1. अरुस् (wounded, painful, sore) न अरुः तद् अनरुः । अनरुः अरुः सम्पद्यते, तं करोति इत्येव = अरूकरोति । एवमेव - अरूभवति, अरूस्यात् । प्रक्रिया इयम् - अरुस् + च्वि [पूर्वसूत्रेण च्वि-प्रत्ययः] → अरुस् + व् [चकारस्य चुटू (1.3.7) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः । इकारः उच्चारणार्थः, तस्यापि लोपः ।] → अरु + व् [वर्तमानसूत्रेण सकारस्य लोपः । एतत् प्राकृतिककार्यमस्ति ।] → अरू + व् [च्वौ च (7.4.26) इति अङ्गस्य दीर्घः] → अरू + X [वेरपृक्तस्य (6.1.67) इति अपृक्तवकारस्य लोपः] → अरू । 2. मनस् (mind) न उन्मनाः (sad) सः अनुन्मनाः । अनुन्मनाः उन्मनाः सम्पद्यते, तं करोति इत्येव = उन्मनीकरोति । एवमेव - उन्मनीभवति, उन्मनीस्यात् । प्रक्रिया इयम् - उन्मनस् + च्वि [पूर्वसूत्रेण च्वि-प्रत्ययः] → उन्मनस् + व् [चकारस्य चुटू (1.3.7) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः । अकारः उच्चारणार्थः, तस्यापि लोपः ।] → उन्मन + व् [वर्तमानसूत्रेण सकारस्य लोपः । एतत् प्राकृतिककार्यमस्ति ।] → उन्मनी + व् [अस्य च्वौ (7.4.32) इति ईकारादेशः] → उन्मनी + व् [च्वौ च (7.4.26) इति अङ्गस्य दीर्घः] → उन्मनी + X [वेरपृक्तस्य (6.1.67) इति अपृक्तवकारस्य लोपः] → उन्मनी । विशेषः - यद्यपि ग्रहणवता प्रातिपदिकेन तदन्तविधेः प्रतिषेधः अनया परिभाषया प्रत्ययविधौ तदन्तविधिः प्रतिषिध्यते, तथाप्यत्र प्रत्ययविधानम् तु पूर्वसूत्रेणैव कृतमस्ति, तत्र प्रातिपदिकग्रहणम् नैव भवति । प्रातिपदिकग्रहणम् केवलम् वर्तमानसूत्रे लोपविधानार्थम् क्रियते । अतः अत्र तदन्तविधिः भवितुमर्हति । एवमेव अग्रेपि ज्ञातव्यम् । 3. चक्षुष् (eye) । अस्य शब्दस्य विषये ‘उच्चक्षु’ (प्रबुद्धः, woken up) इत्यस्य उदाहरणम् दीयते । न उच्चक्षुः सः अनुच्चक्षुः । अनुच्चक्षुः उच्चक्षुः सम्पद्यते, तं करोति इत्येव = उच्चक्षूकरोति ।एवमेव - उच्चक्षूभवति, उच्चक्षूस्यात् । प्रक्रिया ‘अरुस्’ शब्दवत् एव भवति । 4. चेतस् (alive) । अस्य शब्दस्य विषये ‘विचेतस्’ ( well-alive ) इत्यस्य उदाहरणम् दीयते । न विचेताः सः अविचेताः । अविचेताः विचेताः सम्पद्यते, तं करोति इत्येव = विचेतीकरोति । एवमेव - विचेतीभवति, विचेतीस्यात् । प्रक्रिया ‘मनस्’ शब्दवत् एव भवति । 5. रहस् (separation) । अस्य शब्दस्य विषये ‘विरहस्’ (separation) इत्यस्य उदारणम् दीयते । न विरहः सः अविरहः । अविरहः विरहः सम्पद्यते, तं करोति इत्येव = विरहीकरोति । एवमेव - विरहीभवति, विरहीस्यात् । प्रक्रिया ‘मनस्’ शब्दवत् एव भवति । 6. रजस् (dirt) । अस्य शब्दस्य विषये ‘विरजस्’ (lack of dirt) इत्यस्य उदाहरणम् दीयते । न विरजाः सः अविरजाः । अविरजाः विरजाः सम्पद्यते, तं करोति इत्येव = विरजीकरोति । एवमेव - विरजीभवति, विरजीस्यात् । प्रक्रिया ‘मनस्’ शब्दवत् एव भवति ।

Vasu English Summary

The affix च्वि comes after the words 1. अरुस् 2. मनस् 3. चक्षुस् 4. चेतस् 5. रहस् and 6. रजस् and there is elision of their final consonant.

Vasu English Translation

The affix च्वि comes after the words 1. अरुस् 2. मनस् 3. चक्षुस् 4. चेतस् 5. रहस् and 6. रजस् and there is elision of their final consonant. The affix च्वि would have come after these words by force of the last sutra which is of universal application : the present sutra is made in order to teach the elision of the consonant. Thus अनरुररुः सम्पद्यते, तं करोति = अरू करोति, अरू भवति, अरू स्यात् ॥ So also उन्मनी करोति, भवति or स्यात्, so also उच्चक्षू, विचेती, विरही, and विरजी करोति or भवति or स्यात् ॥ The short उ of अरु and चक्षु is lengthened by (7.4.26), and the अ of the other words is changed into ई by (7.4.32).

Kashika

अरुःप्रभृतीनामन्तस्य लोपो भवति च्विश्च प्रत्ययः। अत्र सर्वविशेषणसंबन्धात् पूर्वेणैव प्रत्ययः सिद्धः, लोपमात्रार्थ आरम्भः। अनरुररुः संपद्यते, तं करोति अरूकरोति। अरूभवति। अरूस्यात्। मनस् — उन्मनीकरोति। उन्मनीभवति। उन्मनीस्यात्। चक्षुस् — उच्चक्षूकरोति। उच्चक्षूभवति। उच्चक्षूस्यात्। चेतस् — विचेतीकरोति। विचेतीभवति। विचेतीस्यात्। रहस् — विरहीकरोति। विरहीभवति। विरहीस्यात्। रजस् — विरजीकरोति। विरजीभवति। विरजीस्यात् ॥

Siddhanta Kaumudi

एषां लोपः स्यात् च्विश्च । अरूकरोति । उन्मनीस्यात् । उच्चक्षूकरोति । विचेतीकरोति । विरहीकरोति । विराजीकरोति ॥

Balamanorama

अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च - अरुर्मनश्चक्षुः ।एषामिति । अरुस्, मनस्, चक्षुस्, चेतस्, रहस्, रजस् इत्येतेषामित्यर्थः । पूर्वेणैव प्रत्ययसिद्धेस्तत्संनियोगेन अन्त्यलोप इह विधीयते । अरूकरोतीति । अनरुः अरुः सम्पद्यते, तत्करोतीत्यर्थः । प्रकृतेरन्त्यलोपे उकारस्यच्वौ चे॑ति दीर्घः । उन्मनीकरोतीति । अनुन्मना उन्मनाः संपद्यते तं करोतीत्यर्थः । च्वौ अन्त्यलोपः, ईत्त्वं च । उच्चक्षूकरोतीति । अनुच्चक्षुरुच्चक्षुः सम्पद्यते, तं करोतीत्यर्थः । च्वौ अन्त्यलोपः, दीर्घश्च । उच्चेतीकरोतीति । अनुञ्चेता उच्चेताः सम्पद्यते, तं करोतीत्यर्थः । च्वौ अन्त्यलोपः, ईत्त्वं च । विरहीकरोतीति । रहो विजनप्रदेशः, विशिष्टं रहो विरहः । अविरहो विरहः संपद्यते तत्करोतीत्यर्थः । च्वौ अन्त्यलोपः, ईत्त्वं च । विरजीकरोतीति । अविरजा विरजाः सम्पद्यते तं करोतीत्यर्थः । अन्त्यलोपे अस्य च्वौ ईत्त्वं च ।

Tattvabodhini

अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च - अरुर्मनः । च्विश्चेति । पूर्वेण सिद्धस्यापि च्वेरयमनुवादः । लोपस्तु तत्संनियोगशिष्टत्वार्थः ।

Padamanjari

अत्र सर्वविशेषणसम्बन्धादित्यादि। यदि त्वभूततद्भावादीनां विशेषणानां मद्येऽन्यतमं न सम्बध्यते, ततश्च्वेरपि विध्यर्थमेतत्स्यात्। यतस्तु सर्वाणि विषेपणानि सम्बध्यनेते, ततो लोपमात्रमेवन न प्राप्रनेतीति तदथ वचनम्, न च्वेर्विधानार्थम्।’च्विश्च प्रत्ययः’ इति तु पूर्वेणैव विहितस्य च्वेरनुवादः कृतः, तत्सन्नियोगशिष्टत्वं लोपस्य दर्शयितुम्। यदि पुनविशेषविहितेन बाधा मा भूदिति च्विरप्यनेन विधीयेत, तत उन्मनीकरोतीत्यादावनेन प्रत्ययो न स्याद्; ग्रहणवचा प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। ततश्चैतत्सन्नियोगशिष्टो लोपो न स्यात्, पूर्वेण तु केवल एव च्विः स्यात्। तस्मात्पूर्वेण विहिते च्वौ परतोऽरुःप्रभृतीनां लोपो भवतीत्येव सूत्रार्थः। पूर्वेणैव च केवलेभ्यस्तदन्ताच्च च्विर्भवति ॥

Nyaas

अत्र विशेषणसम्बन्धात् इत्यादि। अभूततद्भावादीनि सर्वाणि विशेषणानीह पूर्वसूत्रादनुवर्तन्ते। तस्मात्? सर्वविशेषणसम्बन्धात्? पूर्वेणैवारुःप्रभृतिभ्यः प्रत्ययः सिद्ध इति नासौ दिधीयते, लोपमात्रं तु न प्राप्नोति। अतस्तदर्थ वचनम्। यदि पुनरनेनैव प्रत्ययविधिः स्यातद्, दुर्मनीकरोतीत्यादौ प्रत्ययो न स्यात्; ग्रहणवता प्रातिपदिकेन तदन्तविधेः प्रतिषेधात्? (व्या।प। 89) पूर्वेण तु तदन्तादपि भवति; तत्र ग्रहणवत्प्रातिपदिकस्याभावात्। उन्मनीकरोति इत्येवमादौ बहुव्रीहेः प्रत्ययः॥

Prakriyasarvasvam

एषां च्वौ परेऽन्त्यलोपः स्यात् । दीर्घः । अरूकरोति । घनीभवसि मे त्वम् । उन्मनीकरोति । उच्चक्षूकरोति । विचेतीभवति । रहीभवति शाला । रहीभवति रहःस्थो भवतीत्याह भट्टिः । रजीभवति ॥

Sutra Prayogas

  • विमनीकृताः (शिशुपालवधम्): अरुर्मनश्चक्षुश्चेतोरहोरजसा लोपश्च इति च्विप्रत्ययसलोपौ।

  • सुमनीभवन्ति (भट्टिकाव्यम्): अरुर्मन… इत्यादिना च्वावन्त्यस्य लोपे ।

  • सुमनीचकार (भट्टिकाव्यम्): अरुर्मन… इत्यादिना साधू ।

  • अभ्रं-लिहाऽग्रं (भट्टिकाव्यम्): अरुर्द्विपदजन्तस्य मुम् इत्यादिना मुम्।

  • रहीभूतं (भट्टिकाव्यम्): अरुर्मनश्चक्षुः इत्यादिना च्वौ सलोपः।