54041: वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि

Padacheda: वृक-ज्येष्ठाभ्याम् | S | 5 | 2 |

तिल्-तातिलौ | S | 1 | 2 |

च | S | 0 | 0 |

छन्दसि | S | 7 | 1 |

Sutrartha

प्रशंसायाम् गम्यमानायाम् वेदेषु ‘वृक’ तथा ‘ज्येष्ठ’ शब्दाभ्याम् यथासङ्ख्यम् ‘तिल्’ तथा ‘तातिल्’ प्रत्ययः कृतः दृश्यते ।

प्रशंसायाम् गम्यमानायाम् वेदेषु ‘वृक’ (wolf) शब्दात् ‘तिल्’ प्रत्ययः तथा च ‘ज्येष्ठ’शब्दात् ‘तातिल्’ प्रत्ययः प्रयुक्तः दृश्यते । यथा - 1. प्रशस्तः वृकः = वृकतिः । यथा - ऋग्वेदे 4.41.4 - यो नो॑ दु॒रेवो॑ वृ॒कति॑र्द॒भीति॒स्तस्मि॑न्मिमाथाम॒भिभू॒त्योज॑: । 2. प्रशस्तः ज्येष्ठः = ज्येष्ठतातिः । यथा - ऋग्वेदे 5.41.1 - तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म् ।

Vasu English Summary

In the छन्दस् (Vedas) the affixes तिल् and तातिल् come after 1. वृक and 2. ज्येष्ठ when excellence is denoted.

Vasu English Translation

In the छन्दस् (Vedas) the affixes तिल् and तातिल् come after 1. वृक and 2. ज्येष्ठ when excellence is denoted. The word प्रशंसायाम् is to be read into this sutra. This also debars रूपप् (5.3.66). Thus वृकतिः or वृकतातिः, as, योनो मरुतो वृकतातिमर्त्यः (Rig. Veda 11.34. 9). Similarly ज्येष्ठतातिः ॥

Kashika

प्रशंसायामित्येव। वृकज्येष्ठाभ्यां प्रशंसोपाधिकेऽर्थे वर्तमानाभ्यां यथासंख्यं तिल्तातिलौ प्रत्ययौ भवतश्छन्दसि विषये। रूपपोऽपवादौ। वृ॒कतिः॑ (ऋ० ४.४१.४)। ज्ये॒ष्ठता॑तिः (ऋ० ५.४४.१)॥

Siddhanta Kaumudi

स्वार्थे । यो नों दुरेवो वृकतिः (यो नों॑ दु॒रेवो॑ वृ॒कतिः) । ज्येष्ठतातिं बहिर्षदम् (ज्ये॒ष्ठता॑तिं बर्हि॒षद॑म्) ॥