54056: देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्

Padacheda: देव-मनुष्य-पुरुष-पुरु-मर्त्येभ्यः | S | 5 | 3 |

द्वितीया-सप्तम्योः | S | 6 | 2 |

बहुलम् | S | 1 | 1 |

Sutrartha

‘देव’, ‘मनुष्य’, ‘पुरुष’, ‘पुरु’, तथा ‘मर्त्य’ एतेषां शब्दानां द्वितीयान्तरूपात् सप्तम्यन्तरूपात् च स्वार्थे कुत्रचित् ‘त्रा’प्रत्ययः कृतः दृश्यते ।

‘देव’, ‘मनुष्य’, ‘पुरुष’, ‘पुरु’ तथा ‘मर्त्य’ एतेषाम् शब्दानां द्वितीयान्तरूपेभ्यः सप्तम्यन्तरूपेभ्यः च विषये केषाञ्चन धातूनां योगे स्वार्थे ‘त्रा’ प्रत्ययः कृतः भाषायाम् दृश्यते । एतादृशानां प्रयोगानाम् साधुत्वज्ञापनार्थम् वर्तमानसूत्रस्य निर्माणं कृतमस्ति । यथा - 1. देवान् गच्छति (goes towards gods) इत्येव = देवत्रा गच्छति ।एवमेव - मनुष्यत्रा गच्छति, पुरुषत्रा गच्छति, पुरुत्रा गच्छति, मर्त्यत्रा गच्छति । 2. देवेषु वसति (stays in the group of gods) इत्येव = देवत्रा वसति । एवमेव - मनुष्यत्रा वसति, पुरुषत्रा वसति, पुरुत्रा वसति, मर्त्यत्रा वसति । विशेषः - 1. एतादृशाः प्रयोगाः कुत्र साधवः मन्यन्ते, कुत्र च न - अस्मिन् विषये कोऽपि विशिष्टः नियमः नास्ति, अतः अस्मिन् सूत्रे ‘बहुलम्’ इति शब्दः स्वीक्रियते । अस्य शब्दस्य व्याख्या एतादृशी दीयते - क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥ यत्र विशिष्टनियमस्य अभावः दृश्यते, तत्र ‘बहुलम्’ इति शब्दः प्रयुज्यते । अतः अस्य सूत्रस्य प्रयोगः शिष्टप्रयोगमनुसृत्यैव करणीयः । ‘बहुलम्’ शब्दस्य विषये विस्तारेण <a href=’https://docs.google.com/document/d/e/2PACX-1vSGP6ep6vGwAWZw0kM1Zh9C3qGnYJ57fxZed9FTfmKkN13_EPSoSTbLArip2nHI4dN70AjPkslTfotC/pub’ target=’_blank’>अस्मिन् लेखे </a> निर्दिष्टमस्ति । जिज्ञासुभिः तदपि दृश्यताम् । 2. ‘बहुलम्’ इत्यस्य ग्रहणेन केभ्यश्चन अन्येभ्यः शब्देभ्यः अपि ‘त्रा’ प्रत्ययः भवति । यथा, पैप्पलादसंहितायाम् 19.38.5 इत्यत्र - ‘भद्रं वैवश्वते चक्षुर्बहुत्रा जीवतो मनः’ इति प्रयोगः दृश्यते । अस्य सिद्धिः वर्तमानसूत्रेण दातव्या । 3. ‘त्रा’ प्रत्ययान्तशब्दाः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति ।

Vasu English Summary

After the words 1. देव 2. मनुष्य 3. पुरुष 4. पुरु and 5. मर्त्ये ending in the Accusative -2nd case or Locative -7th case, the affix त्रा is diversely used, having the force of the Accusative -2nd case or Locative -7th case.

Vasu English Translation

After the words 1. देव 2. मनुष्य 3. पुरुष 4. पुरु and 5. मर्त्ये ending in the Accusative -2nd case or Locative -7th case, the affix त्रा is diversely used, having the force of the Accusative -2nd case or Locative -7th case. The anuvritti of sati ceases, that of tra continues. The verbs kri, bhu and asti also have no scope here. This is a general sutra. Thus देवात् गच्छति = देवत्रा गच्छति, देवेषु वसति = देवत्रा वसति ॥ So also मनुष्यत्रा, पुरुषत्रा, पुरुत्रा, and मर्त्यत्रा ॥

By using the word ‘diversely’ in the aphorism it is intended that the affix comes in this sense after other words also; as बहुत्रा जीवतो मनः ॥

Kashika

सातिर्निवृत्तः त्राप्रत्ययोऽनुवर्तते। देवादिभ्यः प्रातिपदिकेभ्यो द्वितीयासप्तम्यन्तेभ्यः त्रा प्रत्ययो भवति बहुलम्। कृभ्वस्तिभिरिति नात्र संबध्यते। सामान्येन विधानम्। देवान् गच्छति देवत्रा गच्छति। देवेषु वसति देवत्रा वसति। मनुष्यान् गच्छति मनुष्यत्रा गच्छति। मनुष्येषु वसति मनुष्यत्रा वसति। पुरुषान् गच्छति पुरुषत्रा गच्छति। पुरुषेषु वसति पुरुषत्रा वसति। पुरून् गच्छति पुरुत्रा गच्छति। पुरुषु वसति पुरुत्रा वसति। मर्त्यान् गच्छति मर्त्यत्रा गच्छति। मर्त्येषु वसति मर्त्यत्रा वसति। बहुलवचनादन्यत्रापि भवति। बहु॒त्रा जीव॑तो॒ मनः॑ (ऋ० १०.१६४.२) इति॥

Siddhanta Kaumudi

एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा । बहुलोक्तेरन्यत्रापि । बहुत्रा जीवतो मनः ॥

Balamanorama

देवमनुष्यपुरुषमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् - देवमनुष्यपुरुष । एभ्य इति । देव, मनुष्य, पुरुष, पुरु, मत्र्य-इत्येतेभ्य इत्यर्थः । अत्यन्तस्वार्थिकोऽयम् ।साती॑ति ‘कृभ्वस्तियोगे’ इत्यपि निवृत्तम् । देवत्रा वन्दे रमे वेति । देवान् वन्दे, देवेषु रमे वेत्यर्थः । मनुष्यत्रा, पुरुषत्रा । पुरुशब्दो बहुलपर्यायः । पुरुत्रा । मत्र्यत्रा । अन्यत्रापीति । देवादिभ्योःऽन्यत्रापीत्यर्थः । बहुत्रा जीवतो मन इति । जीवतो जन्तोर्मनो बहुषु विषयेषु गच्छति । बहून् व्याप्नोतीत्यर्थः ।

Tattvabodhini

देवमनुष्यपुरुषमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् - वन्दे रमे इति । देवान् बन्दे — देवत्रा वन्दे । देवेषु रमे — देवत्रा रमे इत्यर्थोऽत्र पर्यवसन्नः । एवं मनुष्यन् गच्छति — मनुष्यत्रा गच्छति । मनुष्येषु वसति । पुरुषान् गच्छति -परुरत्रा गच्छति । पुरुषेषु वसति -पुरषत्रा वसति ।पुरु॑शब्दो बहुपर्यायः । पुरून् गच्छति पुरुष वसति वा पुरुत्रा । मत्र्यान्मत्र्येषु वा -मत्र्यत्रा ।डाचि विवक्षिते द्वे बहुलम् । डाचि विवक्षित इति । परसप्तम्यां त्वन्योन्याश्रयः स्यात् । डाचि कृते द्वित्वे सति व्द्यजवरार्धता, तस्यां च सत्यां डाजिति भावः ।नित्यमाम्नेडिते डाचीति वक्तव्यम् ।खरटखरटाकरोतीति । द्वित्वपररूपादि प्राग्वात् ।व्द्यजवरार्धा॑दित्यक्ते त्वत्र डाज्न स्यात् । न ह्यत्रार्ध व्द्यच्, किं तुत्र्यच् । अनेकाच इत्येवेति ।व्दयजवरार्धा॑दित्यपनीयेत्यर्थः । पटितीति ।अव्यक्तानुकरणस्यात इतौ॑इति पररूपम् । नन्वत्र करोतिना योगो दुर्लभः, इतिशब्देन व्यवधानात्, तथा चाऽनिताविति व्यर्थमिति चेत् । अत्राहुः -इतिशब्देन करोत्यर्थगतप्रकार एव परामृश्यते, इत्येवंप्रकारेण करोतीति । तथा च पटच्छब्दस्यार्थद्वारा योगोऽस्त्येवेति ।

Padamanjari

सातीति निवृतमिति। पूर्वसूत्रे चानुकृष्टत्वात्’कृभ्वस्तियोगे’ इति न सम्बध्यत इति तदर्थमत्र स्वरितत्वं कर्तव्यम्। स्वरिते सति नाधिकार इत्ययं च पक्ष आश्रयणीयः। मण्डूअकप्लुत्याउतरत्र सम्बन्धः।’सम्पदा च’ इत्येततु सर्वथैवं निवृतत्वान्न सम्बध्यते ॥

Nyaas

अथ बहुलग्रहणं किमर्थम्, यावता दिभाषा साति कार्त्स्न्ये (5.4.52) इत्यत्र विभाषाग्रहमनुवर्त्तिष्यत एव, विकल्पेन प्रत्ययो भविष्यति? इत्याह - बहुलग्रहणादन्यत्रापि लभ्यते इति। तस्माद्विभाषायां प्रकृतायां यद्बहुलवचनं कृतम्, तदन्यत्रापि यथा स्यादित्यभिप्रयः॥

Prakriyasarvasvam

एभ्यो द्वितीयार्थे सप्तम्यर्थे च अकृभ्वस्तियोगेऽपि बहुलं त्रा स्यात् । देवत्रा नमति । देवत्रा भक्तः । एवं मनुष्यत्रेत्यादि । बहुलोक्तेरन्येभ्योऽपि । बहुत्रा ॥