54040: सस्नौ प्रशंसायाम्

Padacheda: स-स्नौ | S | 1 | 2 |

प्रशंसायाम् | S | 7 | 1 |

Sutrartha

प्रशस्तायाः मृदः निर्देशार्थम् ‘मृद्’ शब्दात् स्वार्थे ‘स’ तथा ‘स्नौ’ प्रत्ययौ भवतः ।

प्रशंसायाम् गम्यमानायाम् ‘मृद्’ शब्दात् स्वार्थे ‘स’ तथा ‘स्न’ प्रत्ययौ भवतः । यथा - प्रशस्ता मृद् (fertile soil) सा मृत्सा मृत्स्ना वा । उभयत्र अजाद्यतष्टाप् (4.1.4) इति टाप् प्रत्ययः विधीयते । यद्यपि इदं सूत्रम् समर्थानां प्रथमाद्वा (4.1.82) इत्यस्यां विभाषायाम् पाठ्यते, तथापि अनेन सूत्रेण उक्तौ प्रत्ययौ नित्यौ भवतः । इत्युक्ते, ‘प्रशस्ता मृद्’ इति वक्तव्यमस्ति चेत् विग्रहवाक्यम् वक्तव्यम्, नो चेत् ‘मृत्सा / मृत्स्ना’ इति वक्तव्यम् । केवलम् ‘मृद्’ इति उक्त्वा ‘प्रशंस्ता मृद्’ इति अर्थः न विधीयते । विशेषः - प्रशंसायाम् गम्यमानायाम् औत्सर्गिकरूपेण प्रशंसायां रूपप् (5.3.66) इत्यनेन रूपप्-प्रत्ययः भवति । तत् बाधित्वा ‘मृद्’ शब्दस्य विषये वर्तमानसूत्रेण ‘स’ तथा ‘स्न’ प्रत्ययौ कथ्येते ।

Vasu English Summary

The affixes स and स्नौ come after मृद् when it means ‘excellence’.

Vasu English Translation

The affixes स and स्नौ come after मृद् when it means ‘excellence’. This debars the affix रूपप् (5.3.66). Thus प्रशस्ता मृद् = मृत्सा or मृत्स्ना ॥ These two affixes are nitya or invariable, i. e. whenever superiority is to be expressed we must add these affixes. The reason for our calling it nitya is that the word अन्यतरस्याम् ‘optionally’ follows it in (5.4.42), so that this affix is not optional c. (5.4.7), (5.4.10), &c.

Kashika

प्रशंसोपाधिकेऽर्थे वर्तमानाद् मृच्छब्दात् स स्न इत्येतौ प्रत्ययौ भवतः। रूपपोऽपवादः। प्रशस्ता मृद् मृत्सा। मृत्स्ना। नित्यश्चायं प्रत्ययः, उत्तरसूत्रेऽन्यतरस्यांग्रहणात्॥

Siddhanta Kaumudi

रूपपोऽपवादः । प्रशस्ता मृत् मृत्सा । मृत्स्ना । उत्तरसूत्रेऽन्यतरस्यांग्रहणान्नित्योऽयम् ॥

Balamanorama

सस्नौ प्रशंसायाम् - सस्नौ । प्रशस्तायां मृदि वर्तमानान्भृच्छब्दात्स्वार्थे स स्न एतौ प्रत्ययौ स्त इत्यर्थः । रूपप इति ।प्रशंसायां रूपबि॑ति विहितस्येत्यर्थः । नित्योऽयमिति । सस्नविधिरित्यर्थः । वस्तुतस्तुञ्यादयः प्राग्वुनः॑ इत्यादिपरिगणितेष्वनयोः प्रत्ययोरनन्तर्भावादनित्यत्वमेवाऽनयोरुचितमित्याहुः ।

Tattvabodhini

सस्नौ प्रशंसायाम् - सस्नौ । इहप्रशंसायां रूप॑बित्यस्यानन्तरंवृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि॑ । मृदः सस्नौ॑ ।तिकंश्चे॑ति वक्तुमुचितम् । नचैवं सस्नाविति कन्प्रत्ययोऽपि प्रसंशायामेवेत्येवमतिप्रसङ्ग ।तिकश्चे॑त्यत्रप्रशंसाया॑मिति निवृत्तिमिति कल्पनायां मानाऽबावादिति वाच्यं,मृदः सस्नतिकनः॑इति वक्तव्ये तिकनः पृखक्करणस्यैव तत्र मानत्वात् । प्रशस्ता मृदिति ।मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च भृत्तिके॑त्यमरः । नित्योऽयमिति । मृदित्येतावदुक्ते प्रशस्तत्वानवगमाद्विभाषाऽत्र नानुवर्तत इति सस्नावित्ययं विधिर्नित्य एव । उत्तरसूत्रस्थाऽन्यतरस्याङ्ग्रहणात्तु सुतरामिति भावः ।

Padamanjari

उतरसूत्रेऽन्यतरस्यांग्रहणादिति। मृच्छब्दस्य सामान्यशब्दत्वात्, मृदित्युक्ते प्रशंसाया अनवगमाच्च। इह’प्रशंसायां रूपप्’ इत्यस्यानन्तरम् -‘वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि, मृदस्सस्नौ, तिकंश्च’ इति वक्तव्यम्? तथा तु न कृतमित्येव ॥

Prakriyasarvasvam

प्रशस्ता मृत् मृत्सा, मृत्स्ना ॥