54050: अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः

Padacheda: अभूत-तद्भावे | S | 7 | 1 |

कृ-भू-अस्ति-योगे | S | 7 | 1 |

सम्पद्यकर्तरि | S | 7 | 1 |

च्विः | S | 1 | 1 |

Sutrartha

अभूतपूर्वस्य विकारस्य सम्पादनम् क्रियते चेत् विकारवाचिशब्दात् ‘कृ’ ‘भू’ तथा ‘अस्’ एतेषाम् योगे स्वार्थे ‘च्वि’ इति प्रत्ययः भवति ।

अस्य सूत्रस्य अर्थम् सम्यग् अवगन्तुम् प्रारम्भे सूत्रे विद्यमानानाम् शब्दानामर्थाः ज्ञेयाः । परन्तु तस्मादपि पूर्वम् एकमुदाहरणम् स्वीकुर्मः , येन सूत्रज्ञानम् सुलभं स्यात् । कश्चन देवदत्तः अस्तीति चिन्तयामः । अस्य देवदत्तस्य समीपे मृत्तिकायाः कश्चन घटः विद्यते । वस्तुतः अयम् घटः मृत्तिकायाः वर्णस्यैव अस्ति (The pot is of mud-color originally ), परन्तु देवदत्तः अस्य घटस्य शुक्लवर्णेन रञ्जनम् (coloring) कृत्वा तस्य वर्णपरिवर्तनम् करोति । Devadatta paints this pot and gives it a white color. । अस्य प्रसङ्गस्य विषये वर्तमानसूत्रस्य सन्दर्भे बिन्दुद्वयम् विशेषरूपेण वक्तुं शक्यते - [अ] घटः मूलरूपेण शुक्लवर्णस्य नास्ति । इत्युक्ते घटस्य ‘प्रकृतिः’ (original form) ‘शुक्ल’ इति नास्ति, परन्तु कारणवशात् सः शुक्लः भवति । अतः ‘अशुक्ल’ इति घटस्य मूलप्रकृतिः, ‘शुक्ल’ इति च तस्य विकारः (transformation) । अशुक्लः घटः शुक्लः सम्पद्यते (attains / happens / becomes) - इत्याशयः । एतादृशस्य परिवर्तनस्य निर्देशः यत्र क्रियते, तत्रैव वर्तमानसूत्रस्य प्रयोगः भवति - एतत् ज्ञापयितुमस्मिन् सूत्रे ‘अभूततद्भाव’ इति शब्दः गृह्यते । शुक्लवर्णस्य भावः (= तद्भावः) घटे अभूतः (प्रारम्भतः नास्ति ) इति आशयः । [आ] देवदत्तस्य रञ्जनकृत्या अशुक्लः घटः शुक्लः भवति । अत्र परिवर्तनक्रियायाः (‘सम्पद्यते’ इत्यस्य) कर्ता अस्ति घटः (घटः सम्पद्यते) । अस्य कारणभूतः विकारः अस्ति ‘शुक्लः’ (घटः शुक्लः सम्पद्यते) । अस्मात् विकारवाचिनः ‘शुक्ल’शब्दात् वर्तमानसूत्रेण प्रत्ययः विधीयते - एतत् दर्शयितुमस्मिन् सूत्रे ‘सम्पद्यकर्तरि’ इति शब्दः स्थापितः अस्ति । कर्तरि (= घटे) यः विकारः (= शुक्लः) सम्पद्यते, तस्मात् विकारवाचिशब्दात् प्रत्ययः भवति, इति आशयः । अन्यौ अपि द्वौ बिन्दू अस्य सूत्रस्य विषये ज्ञातव्यौ - [इ] अस्मिन् सूत्रे ‘ कृ-भू-अस्ति-योगे’ इति उच्यते । इत्युक्ते, अस्य सूत्रस्य प्रयोगः तदा एव भवति यदा विकारस्य निर्देशः ‘कृ’, ‘भू’ उत ‘अस्’ एतैः धातुभिः क्रियते । [ई] अनेन सूत्रेण ‘च्वि’ इति प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये चकारस्य इत्संज्ञा, लोपः च भवति । वकारोत्तरः इकारः उच्चारणार्थः अस्ति, तस्यापि लोपः भवति । केवलम् ‘व्’ इति अवशिष्यते, यस्य अपृक्तः एकाल् प्रत्ययः (1.2.41) इत्यनेन ‘अपृक्त’ इति संज्ञा भवति ।अस्य अपृक्त-वकारस्य वेरपृक्तस्य (6.1.67) इत्यनेन प्रक्रियायाम् लोपः भवति । अस्य सर्वस्य कः आशयः ? एतानि त्रीणि वाक्यानि पश्यामः - [1] अशुक्लः शुक्लः सम्पद्यते, देवदत्तः तम् करोति । [2] अशुक्लः घटः शुक्लः सम्पद्यते / सम्पद्यमानः भवति । [3] अशुक्लः घटः शुक्लः सम्पद्येत् / सम्पद्यमानः स्यात् । एतेषु त्रिषु अपि वाक्येषु - [अ] अभूततद्भाव , [आ] सम्पद्यकर्ता , तथा [इ] कृ-भू-अस्ति-योगः - एते त्रयः अपि विषयाः उपस्थिताः सन्ति । अतः सर्वत्र ‘शुक्ल’ शब्दात् स्वार्थे ‘च्वि’ इति प्रत्ययः विधीयते । प्रक्रिया इयम् - शुक्ल + च्वि → शुक्ल + व् [ चकारस्य चुटू (1.3.7) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः । इकारः उच्चारणार्थः, तस्यापि लोपः ] → शुक्ली + व् [अस्य च्वौ (7.4.32) इति अकारस्य ईकारादेशः] → शुक्ली + व् [च्वौ च (7.4.26) इति अङ्गस्य दीर्घः] → शुक्ली + X [वेरपृक्तस्य (6.1.67) इति अपृक्तवकारस्य लोपः] → शुक्ली अतः उपरिनिर्दिष्टानि त्रीणि अपि वाक्यानि एतादृशम् लेखितुम् शक्यन्ते - [1] देवदत्तः अशुक्लं घटं शुक्ली करोति । [2] अशुक्लः घटः शुक्ली भवति । [3] अशुक्लः घटः शुक्ली स्यात् । इदानीमस्य सूत्रस्य अर्थः स्पष्टः स्यात् - [अ] अभूतपूर्वस्य विकारस्य = ‘शुक्ल’ इति विकारस्य [आ] सम्पादनम् क्रियते चेत् = ‘घट’ इत्यनेन शुक्लत्वम् लभ्यते चेत् [इ] विकारवाचिशब्दात् = ‘शुक्ल’ शब्दात् [ई] ‘कृ’ ‘भू’ तथा ‘अस्’ एतेषाम् योगे * = ‘शुक्लः सम्पद्यते, तम् करोति’ / ‘शुक्लः सम्पाद्यमानः भवति’ / ‘शुक्लः सम्पाद्यमानः स्यात्’ एतादृशेषु वाक्येषु [उ] *स्वार्थे * = ‘शुक्ल’ इत्यस्मिन्नेव अर्थे [उ] * ‘च्वि’ इति प्रत्ययः भवति = ‘च्वि’ प्रत्ययः विधीयते । अत्र कश्चन विशेषः स्मर्तव्यः । अस्य सूत्रस्य विषये विग्रहवाक्येषु नित्यम् ‘सम्पद्यते / सम्पाद्यमान’ एतयोः शब्दयोः प्रयोगः भवति । यथा - 1. अशुक्लः घटः शुक्लः सम्पद्यते, तम् करोति = अशुक्लं घटं शुक्ली करोति । 2. अशुक्लः घटः शुक्लः सम्पद्यमानः भवति = अशुक्लः घटः शुक्ली भवति । 3. अशुक्लः घटः शुक्लः सम्पद्यमानः स्यात् = अशुक्लः घटः शुक्ली स्यात् । अत्र सर्वत्र ‘शुक्ली’ तथा ‘करोति / भवति / स्यात्’ एते द्वे भिन्ने पदे स्तः इति स्मर्तव्यम् । अत्र सुबन्त-तिङन्तयोर्मध्ये समासः न क्रियते । बहुत्र केवलमुच्चारणसौकर्यार्थम् ‘शुक्लीकरोति / शुक्लीभवति / शुक्लीस्यात्’ इति एकत्ररूपेण लिखितं दृश्यते । परन्तु तत् केवलम् सौकर्यार्थमस्ति, तत्र समासः न विद्यते एतत् ज्ञेयम् । अन्यत् एकमुदाहरणम् पश्यामः । कश्चन कुम्भकारः मृत्तिकातः कुम्भस्य निर्माणं करोतीति चिन्तयामः । अत्र ‘कुम्भः’ इति विकारः । मृत्तिकायाम् मूलरूपेण कुम्भत्वम् नास्ति, तत् कुम्भकारेण तत्र आरोप्यते । अतः ‘कुम्भकारः कुम्भाभिन्नां मृत्तिकाम् कुम्भम् करोति’ इति अस्य वर्णनम् दीयते । अत्र परिवर्तनस्य कर्ता अस्ति ‘मृत्तिका’ इति । मृत्तिकायाम् यः विकारः (कुम्भः) सम्पद्यते, तस्मात् कृ-भू-अस्-धातूनां योगे च्वि-प्रत्ययः विधीयते । यथा - [अ] अकुम्भः कुम्भः सम्पद्यते, तं करोति = कुम्भी करोति । [आ] अकुम्भः कुम्भः सम्पद्यमानः भवति = कुम्भी भवति । [इ] अकुम्भः कुम्भः सम्पद्यमानः स्यात् = कुम्भी स्यात् । अन्यानि कानिचन उदाहरणानि संक्षेपेण अधः दीयन्ते - 1.अस्पष्टः स्पष्टः सम्पद्यते, तं करोति = स्पष्टी करोति । एवमेव - स्पष्टी भवति, स्पष्टी स्यात् । 2. अदूरम् दूरम् सम्पद्यते, तं करोति = दूरी करोति । एवमेव = दूरी भवति, दूरी स्यात् । 3. अकृष्णः कृष्णः सम्पद्यते, तं करोति = कृष्णी करोति । एवमेव - कृष्णी भवति, कृष्णी स्यात् । 4. अखट्वा खट्वा सम्पद्यते, तां करोति = खट्वी करोति । एवमेव - खट्वी भवति, खट्वी स्यात् । अत्रापि अस्य च्वौ**(7.4.32) तथा **च्वौ च (7.4.26) उभयोः प्रसक्तिः अस्ति । कानिचन विशिष्टानि उदाहरणानि प्रक्रियया सह अधः दीयन्ते - 1.अपटुः पटुः सम्पद्यते तं करोति = पटू करोति । एवमेव - पटू भवति, पटू स्यात् । प्रक्रिया इयम् - पटु + च्वि → पटु + व् [ चकारस्य चुटू (1.3.7) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः । अकारः उच्चारणार्थः, तस्यापि लोपः ] → पटू + व् [च्वौ च (7.4.26) इति अङ्गस्य दीर्घः] → पटू + X [वेरपृक्तस्य (6.1.67) इति अपृक्तवकारस्य लोपः] → पटू यथा - पटूकरोति । 2. असुखी सुखी सम्पद्यते, तं करोति = सुखी करोति । एवमेव - सुखी भवति, सुखी स्यात् । प्रक्रिया इयम् - सुखिन् + च्वि → सुखिन् + व् [ चकारस्य चुटू (1.3.7) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः । अकारः उच्चारणार्थः, तस्यापि लोपः ] → सुखिन् [वेरपृक्तस्य (6.1.67) इति अपृक्तवकारस्य लोपः] → सुखि [नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः → सुखी [च्वौ च (7.4.26) इति अङ्गस्य दीर्घः । नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति (8.2.2) इत्यनेन नलोपः केवलम् सुब्विधौ, स्वरविधौ, संज्ञाविधौ तथा च तुग्विधौ असिद्धः अस्ति, नान्यत्र । अतः दीर्घादेशे कर्तव्ये अयम् नलोपः असिद्धः नास्ति ] यथा - सुखी करोति । एवमेव - सुखी भवति, सुखी स्यात् । 3. अगार्ग्यः गार्ग्यः सम्पद्यते, तं करोति = गार्गी करोति । एवमेव - गार्गी भवति, गार्गी स्यात् । प्रक्रिया इयम् - गार्ग्य + च्वि → गार्ग्य + व् [ चकारस्य चुटू (1.3.7) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः] → गार्ग्यी+ व् [अस्य च्वौ (7.4.32) इति अकारस्य ईकारादेशः] → गार्गी + व् [क्यच्व्योश्च (6.4.152) इति यकारस्य लोपः] → गार्गी + X [वेरपृक्तस्य (6.1.67) इति अपृक्तवकारस्य लोपः] → गार्गी यथा - गार्गी करोति । 4. अदोषा दोषा सम्पद्यते, तं करोति । (‘दोषा’ इति किञ्चन अव्ययम्, ‘रात्रिः’ इति तस्य अर्थः । यत्र कृष्णमेघाः (अथवा सूर्यग्रहणं) दिने अपि रात्रिवत् अन्धःकारम् कारयन्ति, तत्र अस्य वाक्यस्य प्रयोगः भवति) । अत्र च्वि-प्रत्यये परे इयम् प्रक्रिया भवति -

दोषा + च्वि

→ दोषा + व् [ चकारस्य चुटू (1.3.7) इति इत्संज्ञा । तस्य लोपः (1.3.9) इति लोपः । अकारः उच्चारणार्थः, तस्यापि लोपः ] → दोषा + व् [अस्य च्वौ (7.4.32) इति अकारस्य ईकारादेशे प्राप्ते <!अव्ययस्य च्वावीत्वं नेति वाच्यम् !> इत्यनेन वार्त्तिकेन ईत्वम् निषिध्यते । अतः केवलं च्वौ च (7.4.26) इति अङ्गस्य दीर्घादेशः विधीयते । ] → दोषा + X [वेरपृक्तस्य (6.1.67) इति अपृक्तवकारस्य लोपः] → दोषा यथा - कृष्णमेघः अदोषा दिनम् दोषा कुर्वन्ति । एवमेव - दोषा भवति, दोषा स्यात् । अस्य सूत्रस्य विषये केचन मुख्याः बिन्दवः ज्ञेयाः । ते सर्वे अधः क्रमेण स्पष्टीक्रियन्ते - 1. वस्तुतः कौमुद्याम् इदम् सूत्रम् ‘कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः’ इत्येव पाठ्यते, तथा च ‘अभूततद्भावे’ इति तत्र वार्त्तिकरूपेण निर्दिष्टमस्ति । परन्तु काशिकाकारः तु ‘अभूततद्भावे इति शब्दमपि सूत्रे एव स्वीकृत्य ‘अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः’ इत्यनेन प्रकारेण सूत्रम् पाठयति । 2. अस्मिन् सूत्रे प्रयुक्तः ‘सम्पद्यते’ इति शब्दः ‘सम् + पद्’ इत्यस्य दिवादिगणस्य धातोः कर्तरि-प्रयोगे लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपमस्ति । ‘भवति / परिवर्तते’ इति अस्य अर्थः । अस्य शब्दस्य प्रयोगः विग्रहवाक्ये नित्यम् करणीयः । यथा - अशुक्लः शुक्लः सम्पद्यते, तं करोति = शुक्लीकरोति । 3. यदि अभूततद्भावः नास्ति तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - ‘घटः शुक्लः सम्पद्यते, तं करोति’ इत्येव उच्यते चेत् ‘घटः मूलरूपेण शुक्लः आसीत् वा’ इति स्पष्टरूपेण न ज्ञायते । अतः अत्र ‘शुक्ल’ इति शब्दः ‘अभूततद्भावः विकारः’ अस्ति वा, इति निश्चयेन न वक्तुं शक्यते । अस्यां स्थितौ वर्तमानसूत्रस्य प्रयोगः न भवति । एवमेव ‘यवाः सम्पद्यन्ते’ इति उच्यते चेत् ‘कस्मात् सम्पद्यन्ते’ इति नोच्यते, अतः अत्रापि अस्य सूत्रस्य प्रयोगः न भवति । 3. यदि सम्पादनक्रियायाः कर्तुः सम्बन्धेन विद्यमानस्य विकारस्य विषये अभूततद्भावस्य चर्चा न क्रियते अपितु कस्यचन अन्यस्यैव विषयस्य अभूततद्भावस्य चर्चा भवति, तत्र वर्तमानसूत्रम् न विधीयते । The अभूततद्भाव must be related to the transformation (विकार) under the discussion. If not, then current sutra cannot be applied. यथा, ‘अदेवालये दृश्यमानम् वर्तनम् देवालये सम्पद्यते’ इति वाक्यं स्वीकुर्मः । The conduct that is typically seen outside a temple was also seen inside the temple - इति अस्य वाक्यस्य आशयः । अस्मिन् वाक्ये सम्पादनक्रियायाः विषयः ‘वर्तनम्’ इति अस्ति, परन्तु अभूततद्भावः तु देवालयस्य विषये विधीयते ।अतः अत्रापि वर्तमानसूत्रस्य प्रयोगः न भवति । In this example, the transformation (विकार) is associated with non-temple being changed to temple, but the अभूततद्भाव is about the behavior (वर्तन). Since the two things are different, hence the current sutra cannot be used in this context. 4. केवलम् ‘कृ’, ‘भू’ तथा ‘अस्’ एतेषाम् विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति । अतः ‘अशुक्लः शुक्लः सम्पद्यते, तमानयति’ उत ‘अशुक्लः शुक्लः जायते’ एतादृशानां वाक्यानां विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । 5. ऊर्यादिच्विडाचश्च (1.4.61) अनेन सूत्रेण च्वि-प्रत्ययान्तशब्दानाम् निपातसंज्ञा भवति । अतः अनेन सूत्रेण निर्मिताः सर्वे शब्दाः स्वरादिनिपातमव्ययम् (1.1.37) इत्यनेन अव्ययवाचकाः अपि भवन्ति । 6. वर्तमानसूत्रम् समर्थानां प्रथमात् वा (4.1.82) अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः ‘च्वि’ प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे ‘अशुक्लः शुक्लः सम्पद्यते, तं करोति’ एतादृशाः प्रयोगाः अपि विधीयन्ते । 7. अस्मिन् सूत्रे निर्दिष्टानां धातूनां सर्वेषाम् रूपाणां विषये इदम् सूत्रम् विधीयते । यथा - [अ] भिन्नाः लकाराः / पुरुषाः / वचनानि - शुक्लीकुर्वन्ति, शुक्ल्यकरोत्, शुक्लीबभूव, शुक्लीस्युः । [आ] कर्मणिप्रयोगे - शुक्लीक्रियते, शुक्लीभूयते । [इ] णिजन्ताः - शुक्लीकारयति, शुक्लीभावयति । [ई] सन्नताः - शुक्लीचिकीर्षति, शुक्लीबोभूयते 8. धातूनाम् कृत्-प्रत्ययान्तरूपाणां विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । परन्तु तत्र द्वौ विशेषौ ज्ञेयौ - [8.1] ऊर्यादिच्विडाचश्च (1.4.61) अनेन सूत्रेण च्वि-प्रत्ययान्तशब्दानाम् ‘गति’ संज्ञा अपि भवति, अतः कृत्-प्रत्ययान्तशब्दे परे द्वयोः कुगतिप्रादयः (2.2.18) इत्यनेन नित्यम् तत्पुरुषसमासः भवति । यथा - , ‘शुक्लीकारकः’, ‘शुक्लीभूतः’, ‘शुक्लीसन्’, आदयः । अत्र समस्तपदम् विद्यते, अतः अत्र ‘शुक्ली कारकः’ इति पदद्वयम् नैव लेखनीयम् । [8.2] ‘क्त्वा’ प्रत्ययान्तशब्दस्य विषये गतिसंज्ञकस्य उपस्थितौ समासेऽनञ्पूर्वे क्त्वो ल्यप् (7.1.37) इत्यनेन ल्यप्-आदेशः कृतः दृश्यते । यथा - ‘शुक्लः सम्पद्यते, तं कृत्वा = शुक्लीकृत्य’ । अत्रापि कुगतिप्रादयः (2.2.18) इत्यनेन नित्यम् तत्पुरुषसमासः भवति । 9. ‘शुक्ली करोति’, ‘शुक्ली भवति’, ‘शुक्ली स्यात्’ एतादृशेषु वाक्येषु पदद्वयमस्तीति स्मर्तव्यम् । अत्र सुबन्त-तिङन्तयोर्मध्ये समासः नैव भवितुमर्हति । अतः यद्यपि लेखनसौकर्यार्थम् ‘शुक्लीकरोति’ इति एकः शब्दः लिख्यते, तथापि वस्तुतः अत्र पदद्वयमस्ति इत्येव समीचीनम् । 10. अनेन सूत्रेण निर्मिताः च्वि-प्रत्ययान्तशब्दाः ते प्राग्धातोः (1.4.80) इत्यनेन नित्यम् धातोः पूर्वम् एव विधीयन्ते । अतः ‘शुक्ली करोति’ इत्येव वक्तव्यम्, न हि ‘करोति शुक्ली’ इति । 11. सर्वेषु व्याख्यानेषु ‘अस्’ धातोः विषये केवलम् विधिलिङ्लकारस्यैव रूपाणि उदाहरणरूपेण दीयन्ते । अस्य कारणम् किमपि व्याख्यानेषु न दीयते । प्रायः शिष्टप्रयोगाः तादृशाः न लभन्ते, इत्येव अस्य समाधानम् ।

Vasu English Summary

The affix च्वि comes after a word when the agent has attained to the new state expressed by the word, what the thing previously was not and when the verbs कृ ‘to make’, भू ‘to be’ and अस् ‘to be’ are conjoined with it.

Vasu English Translation

The affix च्वि comes after a word when the agent has attained to the new state expressed by the word, what the thing previously was not and when the verbs कृ ‘to make’, भू ‘to be’ and अस् ‘to be’ are conjoined with it. The words अभुततद्भावे are not words of Panini, but of the Vartika-Kara, and read into the sutra by the author of Kasika. When something or somebody has become that which is expressed by the stem, then this affix च्वि is added. When the cause of a thing arrives at the state of being that very thing so produced, it is said to be abhutatadbhava ‘the state of that what it was not’. The agent of the action of attaining is called sampadya karta. Thus अशुक्लः शुक्लः सम्पद्यते, तं करोति = शुक्लो करोति “he whitens” – when some one who is not white becomes white i. e. some one makes him so, then we say शुक्ली करोति ॥ So also शुक्ला भवति, शुक्ली स्यात् = मलिनं शुक्ली भवति ॥ The word शुक्ली is thus formed:- शुक्ल + च्वि = शुक्ल् + ई + (the अ of sukla is changed into ई by (7.4.32), and the whole affix is elided by (6.1.67)) = शुक्ली ॥ Similarly घटी करोति मृदम् ‘he makes a jar of the clay’: घटी भवति, घटी स्यात् ॥

Why do we say ‘becoming that what it was not’? Observe शुक्लं करोति ‘he makes white’. Here the thing that has been made white is not expressed, and hence no affixing takes place.

Why do we say “when conjoined with the verbs कृ, भू and अस्?” Observe अशुक्लः शुक्लो जायते. The verb here is जन् ‘to produce’, and hence no affixing. Why have we used the words sampadya kartari ‘the agent that has attained’, for even without their use, the words abhuta-tadbhava ‘becoming what the thing previously was not’, would imply that the attainment was of the agent? The use of sampadya-kartari shows that the attainment spoken of here should be of the ‘agent’, and not of any other karaka, as, अदेवगृहे देवगृहे भवति ‘becoming in the temple what was not before in the temple; such as a tree &c’. Here the karaka is locative and not agent, and the becoming of what the thing previously was not refers to location and not to agency. Hence no affix is added here.

Bhashya

कृभ्वस्तियोगे संपद्यकर्तरि च्विः (2327) (च्विप्रत्ययाधिकरण्) (5925 सूत्रपूरकवार्तिकम्॥ 1 ॥) - च्विविधावभूततद्भावग्रहणम् - (भाष्यम्) च्विविधावभूततद्भावग्रहणं कर्तव्यम्। इह मा भूत् - संपद्यन्ते यवाः, संपद्यन्ते शालय इति॥ (वार्तिकावतरणभाष्यम्) अथ क्रियमाणेऽपि वै अभूततद्भावग्रहण इह कस्मान्न भवति - संपद्यन्तेऽस्मिन् क्षेत्रे शालय इति? (5926 सूत्रांशपूरकवार्तिकम्॥ 2 ॥) - प्रकृतिविवक्षाग्रहणं च - (भाष्यम्) प्रकृतिविवक्षाग्रहणं च कर्तव्यम्॥ (5927 उपसंख्यानवार्तिकम्॥ 3 ॥) - समीपादिभ्य उपंसख्यानम् - (भाष्यम्) समीपादिभ्य उपसंख्यानं कर्तव्यम्। समीपीभवति। अभ्याशीभवति। अन्तिकीभवति॥ (समीपादिभ्यः इति वार्तिकप्रत्याख्यानभाष्यम्) किं पुनः कारणं न सिध्यति? न ह्यसमीपं समीपं भवति। किं तर्हि? असमीपस्थं समीपस्थं भवति॥ तत्तर्हि वक्तव्यम्? न वक्तव्यम्। तात्स्थ्यात्ताच्छब्द्यं भविष्यति॥

Kashika

कारणस्य विकाररूपेणाभूतस्य तदात्मना भावोऽभूततद्भावः। संपद्यतेः कर्ता संपद्यकर्ता। संपद्यकर्तरि वर्तमानात् प्रातिपदिकादभूततद्भावे गम्यमाने कृभ्वस्तिभिर्धातुभिर्योगे च्विः प्रत्ययो भवति। अशुक्लः शुक्लः संपद्यते, तं करोति शुक्लीकरोति। मलिनं शुक्लीकरोति। शुक्लीभवति। शुक्लीस्यात्। घटीकरोति मृदम्। घटीभवति। घटीस्यात्। अभूततद्भाव इति किम् ? शुक्लं करोति। नात्र प्रकृतिर्विवक्षिता। कृभ्वस्तियोग इति किम्? अशुक्लः शुक्लो जायते। संपद्यकर्तरीति किम्, यावता अभूततद्भावसामर्थ्याद् लब्धमेव संपद्यकर्तृत्वम्? कारकान्तरसंपत्तौ मा भूत्। अदेवगृहे देवगृहे संपद्यते। देवगृहस्याधेयविशेषसंबन्धेनाभूततद्भावः, स त्वधिकरणस्य न कर्तुरिति॥

Siddhanta Kaumudi

।<!अभूततद्भाव इति वक्तव्यम् !> (वार्तिकम्) ॥ विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात्स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे ॥

Laghu Siddhanta Kaumudi

अभूततद्भाव इति वक्तव्यम् (वार्त्तिकम्)। विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात् स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे॥

Balamanorama

अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः - कृभ्वस्तियोगे । अभूतेति । येन रूपेण प्रागभूतं यद्वस्तु तस्य तद्रूपप्राप्तावित्यर्थः । एवंच यत्र प्रकृतिस्वरूपमेव विकाररूपमापद्यमानं विकाराऽभेदेन विवक्ष्यते, तत्रैवायं प्रत्यय इति लभ्यते । संपद्यकर्तरीत्येकं पदम् । संपदनं — सम्पद्यः । संपूर्वकात्पदधातोरत एव निपातनादेव भावे कृत्संज्ञः शः, दिवादित्वाच्छ्यन् । संपद्यस्य कर्तेति षष्ठीसमासः । संपद्यमाने वर्तमानादिति यावत् । केन रूपेण कस्य संपत्तिरित्याकाङ्क्षायाम्, ‘अभूततद्भावे’ इति वार्तिकात्प्रकृतेर्विकाररूपेण संपत्तिरिति लभ्यते । तत्र विकारवाचकादेव प्रत्ययः, अस भुवी॑ति धातुभिर्योगे सतीत्यर्थः ।च्विप्रत्यये चकार इत्, इकार उच्चारणार्थः ।

Tattvabodhini

अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः - कृभ्वस्तियोगे । योग इति किम् । अशुक्लः शुक्लो जायते ।

Padamanjari

वार्तिककारेण च्विविदावभूततद्भावग्रहणं कर्तव्यमित्युक्तम्, तदवश्यं कर्तव्यमिति मन्यमानः सूत्र एव प्रक्षिप्य वयाचष्टे - कारणस्येति। उपादानम्, निमितम्, असमवायीति - त्रीणि कारणानि, तत्रोपादानकारणस्येत्यर्थः। विकाररूपेणेति। कारणस्यैवोतरमवस्थान्तरमुविकारः, तेन रूपेण तदात्मनाऽभूतस्याजातस्यापरिणतस्येत्यर्थः। तदात्मना विकारात्मना भावःउजन्म, परिणाम इत्यर्थः। अनेन कार्यकारणयोरभेदो दशितः। यथा रज्जुः शिक्यमिति न तत्वान्तरम्, अथ च न रज्जुमात्रे शिक्यप्रतीतिः। एवं हिरण्यमेव कुण्डलम्, मृदेव घटः, तन्तव एव पटः, दार्वेव यूपः। अथ च न दिहण्यादिमात्रे कुण्कडलादिप्रतीतिः, नो खलु कुण्डलं हिरण्यं न भवतीति कश्चित्प्रत्येति। यदि च कुण्डलं हिरण्यं न भवति, किं तर्हि? हिरण्यं पिण्डः ननु सोऽपि पिण्डः, एवं वृतमेवं दीर्घमिति न किञ्चन हिरण्यं स्यात्, तस्मदनुवृतं कारणम्, व्यावर्तमानस्त्ववस्थाभेदो विकार इति युक्तम्। कुतः पुनरयमभूततद्भावविशेषो लभ्यते, न पुनरभूत्वा भवनमात्रं भवन्त्यस्मिन्क्षेत्रे शालय इति ? तच्छब्दोपादानात्। येन रूपेण ग्रागभूतं कारणं तेन रूपेण तस्य भावोऽभूततद्भाव इति हि तस्यार्थः, अन्यथाऽभूतभाव इत्येव वाच्यम्। तदपि वा न वक्तव्यम्; सम्पद्यकर्तृत्वादेव सिद्धेः। यद्वा-जन्मग्रहण एव कर्तव्ये ठभूततद्भावःऽ इति वचनाद्यथोक्तार्थलाभः, सर्वथा यत्र प्रकृतिरेव विकाररूपतामापद्यमाना विकारभेदेन विवक्ष्यते तत्रैव प्रत्ययः, तत्रेव हि दर्शितोऽभूततद्भावः सम्भवति। सम्पद्यतेः कर्तेति। शब्दात्मकस्य धातोः स्वरूपेण कर्त्रा सम्बन्धासम्भवादर्थद्वारकमिदमभिधानम्, सम्पद्यर्थस्य यः कर्ता स सम्पद्यकर्तेत्यर्थः। अर्थकथन चैतत्, विग्रहस्तु सम्पद्यश्चासौ कर्ता चेति,’पाघ्राध्माधेट्दृशः शः’ अस्मादेव निपातनात्सम्पदोऽपि भवति। दिवादित्वात् श्यन्। क्वचितु सम्पद्यते कर्तेति। तिङ्न्तं पठ।ल्ते, यः सम्पद्यते कर्ता स सम्पद्यकर्तेत्यर्थः। शुक्लीकरोतीति। प्रकृतौ विकारावस्थां प्राप्नुवत्यां वर्तमानाद्विकारशब्दात्स्वार्थे च्विप्रत्ययः, इकारः’वेरपृक्तस्य’ इति सामान्यग्रहणार्थः। चकारस्तु तदविधातार्थः, प्रकृतेरन्तोदातार्थश्च। वकारस्य’वेरपुक्तस्य’ इति लोपः, ठस्य च्वौऽ इतीत्वम्, ठूर्यादिच्विडाचश्चऽ इति निपातत्वेनाव्ययत्वात्सोर्लुक्। नात्र प्रकृतिर्विवक्षितेति। प्रकृतिविवक्षायामेवाभूततद्भावः सम्भवतीत्युक्तम्। अभूततद्भावसामर्थ्यक्षितेति। यो विकाररूपेणाभूतः सन् विकारात्मना भवति, स नियोगतस्तेन रूपेण सम्बद्यमानः सम्पद्यकर्ता भवतीत्येतत्सामर्थ्य यद्रूपान्तरेण सम्पद्यते न तदवश्यं कर्तृसंज्ञमेव भवतीत्यभिप्रायेणाह - कारकान्तरसम्पतौ मा भूदिति। अदेवगृहे देवगृहे सम्पद्यत इति। अदेवगृहे प्रागभूद्यो वृक्षादिः, स इदानीं तस्मिन्प्रदेशे देवालयीभूते देवागृहे सम्पद्यत इत्यर्थः। उदाहरणदिक्चेयं वृत्तिकारेण दर्शिता। कृभ्वस्तियोगाभावाद्विनैवात्र च्विः प्रसज्यते। तस्माददेव गृहे देवगृहे भवतीति प्रत्युदाहार्यम्। अत्र वृक्षादेः सम्पतिं प्रत्यधिकरणस्याप्यदेवगृहस्याभूततद्भावोऽस्त्येव; तस्य प्रागदेवगृहस्यापि सम्प्रति देवगृहत्वेन परिणामात्। एवं हि वृक्षादेस्तदाधारविशिष्टतयाऽभूततद्भावो यद्यपि वस्तुतः सम्पद्यकर्तृत्वमपि देवगृहस्यास्ति, तथापि न तद्विवक्षितम्, किं तहि? आधारभाव एवेति भवत्युदाहरणम्। ननु चैवं सति सुक्लीकरोतीत्यत्रापि न स्याद्, अत्रापि हि कारनान्तरस्य कर्मणः सम्पतिः, न कर्तुः? अस्यत्र विशेषः, कर्मवयापारोपसर्जनं कर्तृव्यापारं करोतिराह, कर्मव्यापारश्च सम्पतिः - शुक्लं करोतीति, कोऽर्थ? शुक्लं सम्पद्यमानं सम्पादयतीत्यर्थः। ततश्च सम्पद्यकर्तृत्वमस्मिन्प्रयोगे शब्देनैवोपातम्। इतरत्र तु वृक्षादेरेव सम्पद्यकर्तृत्वं शाब्दम्, देवगृहस्य त्वार्थम्। आधारभाव एव तु शाब्द इति न कश्जिद् दोषः। इह तर्हि कथं समापीभवति, अभ्याशीभवति, अन्तिकीभवतीति? कथं च न स्यात् ? न ह्यसमीपं समीपं भवतीत्यत्रार्थः, किं तर्हि? असमीपे स्थितं समीपे स्थितं भवतीति? तात्स्थ्याताच्छब्द्यं भविष्यति ॥

Nyaas

कारणस्य विकाररूपेणाभूतस्य इति। कारणम्=प्रकृतिः, तस्यैवोत्तरमवस्थान्तरम्=विकारः। तेन विकाररूपेणाभूतस्याजातस्येत्यर्थः। कुतः पुनरयमभूततद्भावविशेषो लभ्यते? अभूतग्रहणादिह हि भावः=जन्म, सत्ता वा। यदि हि सत्ता भावः स्यात्, भ्वस्तिभ्यामेव सम्बन्धः स्यात्, न करोतिना। न हि यत्? क्रियते सा सत्ता। धातुत्रयोपादाने च सति यस्मिन्नर्थे गृह्रमाणे त्रिभिरपि धातुभिर्योगोऽस्ति स एवाश्रयितुं युक्तः; स च जन्मैव, न सत्ता। कृगरहणादेष विशेषो लभ्यते। तदात्मना भावः इति। तच्छब्देन विकारः परामृश्यते, स एव विकारः; आत्मा=स्वभावः, तेन विकारात्मा=अभूततद्भावः। अपि तु लब्धसत्ताकस्यैव कारणस्य प्रागप्रतिपन्नविकारस्योत्तरकालविकारभूमावाप्तिरभूततद्भाव इत्युक्तं भवति। तेन यत्र प्रकृतिर्न विवक्ष्यते, तत्र प्रत्यो न भवति, यथाशुक्लं करोतीति प्रत्युदाहरणे। न हि प्रकृतावत्र विवक्षितायामेवंविधोऽभूततद्भावो गम्यते। तच्छब्देन प्रकृतिविकारयोरभेदविवक्षा प्रतिपाद्यते। तेन यत्र प्रकृतिविकाररूपमापद्यमाना तस्मादभिन्ना विवक्ष्यते, तत्रैव प्रत्ययो भवति; न तु यत्र कारणतः कार्यस्य भेदो विवक्ष्यते। यत्र तु भेवः, यथा - पटं करोतीति, न तत्र। सम्पद्यतेः कर्ता सम्पद्यकर्ता इति। कथं पुनस्तिङ्न्तेन समासः? कथं च तिङो लोपः? सौत्रत्वात्? निर्देशस्य सत्त्वात् सर्वमिदमुपपद्यते। अथ वा - सम्पूर्वात्? पदेरत एव निपातनाद्यत्प्रत्ययः, तदन्तस्यायं विशेषमसमासः। तत्? तिङ्न्तस्य वृत्तिकरणे त्वर्थप्रदर्शनमात्रं कृतम्; न पुनरेतद्विग्रहवाक्यम्। सम्पत्तिः इति वक्तव्ये, सम्पद्यकर्तेरि इत्युक्तं वैचित्र्यार्थम्? शूक्लीकरोति इति। अस्य च्वौ (7.4.32) इतीत्त्वे च्वौ (7.4.26) इति दीर्घत्वम्। चव्यन्तस्याव्ययत्वात्? सोर्लोपः। नात्र प्रकृतिविवक्षिता इति। विकारमात्रस्य विवक्षितत्वात्। यत्र च प्रकृतिर्न विवक्ष्वते, नात्राभूततद्भावो गम्यत इति न भवति प्रत्ययः। अभूततद्भावसामत्र्याल्लब्धमेव इत्यादि। यो ह्रविकाररूपेण भूतो विकारात्माना भवति, स नियोगतस्तेन रपेण सम्पद्यमानः सम्पद्यकर्ता भवतीत्येतत्? सामर्थ्यात्? स्वरूपान्तरेण सम्पद्यते। तत् कर्त्तृसंज्ञकमेव भवतीति नायं नियोगत इत्यभिप्रायेणाह - कारकान्तरसम्पत्तौ मा भूत् इति। अदेवगृहे इत्यादि। अत्र देवगृहस्य देवताराधनत्वेनाभूतस्य प्रागुत्तरकालं देवतादेयसम्बन्धेन तदात्मकत्वमापद्यमानस्य भवत्ययमभूततद्भावः; स त्वधिकरणस्य, न कर्त्तुः। तथा हि - तद्रूपान्तरमापद्यमानमपि न कर्त्तृसंज्ञम्, किं तर्हि? अधिकरणसंज्ञमेव; अन्यथा सप्तमी न स्यात्। च्वौ इकार उच्चारणार्थः। चकारः प्रकृतदेरन्तोदात्तार्थऋः। वकारस्य वेरपृक्तस्य (6.1.67) इति लोपः॥

Prakriyasarvasvam

अन्यथा स्थितस्य तथाभावे द्योत्ये तथा सम्पद्यमानकर्तृरूपादर्थात् कृभ्वस्ति- योगे च्विः स्यात् ॥

Vartika

अभूततद्भाव इति वक्तव्यम् ।

Sutra Prayogas

  • पुत्रीकृतो (रघुवंशम्): अभूततद्भावे च्विः (इति ५.४.५० सूत्रार्थः) इति च्विप्रत्ययः।

  • अयत्नबालव्यजनीबभूवुः (रघुवंशम्): कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः इति अभूततद्भावे च्विप्रत्ययः।

  • लघूकरिष्यन् (शिशुपालवधम्): कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः इति अभूततद्भावे च्विः।